रसहृदयतन्त्र (टीका सहित) · अध्याय 18
*चोम्म्. मुग्धावबोधिनी:
विशेषविधानमाह माक्षिकसत्त्वम् इत्यादि ॥ ग्र्ह्त्च्म्_17.8:1 ॥
माक्षिकसत्त्वं ताप्यसारं नागः सीसकः तं विहाय नान्यत्किमप्यस्ति क्रामणं न क्रामणमिति भावः ॥ ग्र्ह्त्च्म्_17.8:2 ॥
खल्विति जिज्ञासायाम् ॥ ग्र्ह्त्च्म्_17.8:3 ॥
दलसिद्धे विधौ संस्कारैः पूर्णतां नीते सति असौ विधिः सफलः ॥ ग्र्ह्त्च्म्_17.8:4 ॥
स्तर्त् ग्र्ह्त् 18.1
<वेधमहत्त्व>
अनया खलु सारणया क्रामणेन च विशति योजितो विधिवत् ।
असति वेधविधौ न रसः स्वगुणान्प्रकाशयति
*चोम्म्. मुग्धावबोधिनी:
व्यवायिभेषजोपेते द्रव्ये क्षिप्तो रसः खलु ।
वेध इत्युच्यते तज्ज्ञैः स च नैकविधः स्मृतः ।
इति परिभाषा ॥ ग्र्ह्त्च्म्_18.1:1 ॥
क्रामणसंस्काराधिकारमाह अनयेत्यादि ॥ ग्र्ह्त्च्म्_18.1:2 ॥
अनया उक्तया सारणया सह क्रामणसंस्कारे कृते सति रसो विशति क्रामति पुनर्वेधविधौ कृते सति रसः स्वगुणान् प्रकाशयतीति वेदितव्यम् ॥ ग्र्ह्त्च्म्_18.1:3 ॥
स्तर्त् ग्र्ह्त् 18.2
<हेमकृष्टि>
रसदरदताप्यगन्धकमनःशिलाराजवर्त्तकं विमलम् ।
पुटमृतशुल्बं तारे निर्व्यूढं हेमकृष्टिरियम्
*चोम्म्. मुग्धावबोधिनी:
वेधविधानमाह रसेत्यादि ॥ ग्र्ह्त्च्म्_18.2:1 ॥
रसः सूतः दरदं हिङ्गुलं ताप्यं माक्षिकं गन्धकः प्रतीतः मनःशिला मनोह्वा राजवर्त्तकं राजावर्तं विमलं रौप्यमाक्षिकं एकवद्भावद्वन्द्वः ॥ ग्र्ह्त्च्म्_18.2:2 ॥
पुटमृतशुल्बं रसादीनां पुटेन मृतमित्यर्थः ॥ ग्र्ह्त्च्म्_18.2:3 ॥
एवंविधं शुल्बं तारे निर्वाहितं इयं हेमकृष्टिः स्वर्णकरणमित्यर्थः ॥ ग्र्ह्त्च्म्_18.2:4 ॥
स्तर्त् ग्र्ह्त् 18.3
<शतांशविधि।-वेध (1)>
अष्टानवतिर्भागास्तारस्त्वेकोऽपि कनकभागः स्यात् ।
सूतस्यैको भागः शतांशविधिरेष विख्यातः
*चोम्म्. मुग्धावबोधिनी:
वेधविधानमाह अष्टानवतिर् इत्यादि ॥ ग्र्ह्त्च्म्_18.3:1 ॥
एष रसदरदेत्यादिशतांशवेधविधिः कथं अत्र शतांशे अष्टानवतिर्भागास्तारस्य रूप्यस्य पुनरिह कनकभागः स्यात् एक एवेति पुनः सूतस्य दरदादिमिलितरसस्यैको भागः एकांशः इति सर्वे शतांशाः शतांशेन वेध इति ॥ ग्र्ह्त्च्म्_18.3:2 ॥
स्तर्त् ग्र्ह्त् 18.4
<शतांशविधि (2)>
एकोनपञ्चाशद्भागास्तारस्येह तथैव शुल्वस्य ।
कनकस्यैको भागो वेधश्चैकेन सूतस्य
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह एकोनपञ्चाशदित्यादि ॥ ग्र्ह्त्च्म्_18.4:1 ॥
एकोनपञ्चाशद्भागाः तारस्य रूप्यस्य कार्याः तथैव शुल्वस्य ताम्रस्य एकोनपञ्चाशद्भागाश्च कार्याः पुनः कनकस्य हेम्नश्च एको भागः कार्यः सूतस्य च एकेन भागेन वेध इति एषोऽपि शतांशविधिः ॥ ग्र्ह्त्च्म्_18.4:2 ॥
स्तर्त् ग्र्ह्त् 18.5
<देfइनितिओन् सहस्रवेधिन् उन्द् ह्ण्हेर्>
एवं सहस्रवेधी नियुज्यते कोटिवेधी च ।
जारणबीजवशेन तु सूतस्य बलाबलं ज्ञात्वा
*चोम्म्. मुग्धावबोधिनी:
पूर्वोक्तविधेर् विशेषमाह एवमित्यादि ॥ ग्र्ह्त्च्म्_18.5:1 ॥
एवं शतांशवेधन्यायेन दशवृद्धिविभागेन सहस्रवेधी स्यात् ॥ ग्र्ह्त्च्म्_18.5:2 ॥
एवं च जारणबीजवशेन जारणायां यद्बीजं कियद्गुणजारितमिति भावः तद्वशेन कोटिवेधी च स्यात् ॥ ग्र्ह्त्च्म्_18.5:3 ॥
किं कृत्वा तेनैव जारणबीजवशेन यत्तस्य बलाबलं न्यूनाधिक्यं तत् ज्ञात्वेत्यभिप्रायः ॥ ग्र्ह्त्च्म्_18.5:4 ॥
स्तर्त् ग्र्ह्त् 18.6
<कुन्तवेध>
दत्त्वादौ प्रतिवापं लाक्षामत्स्यादिपित्तभावनया ।
तारे वा शुल्बे वा तारारिष्टे तथा कृष्टौ
*चोम्म्. मुग्धावबोधिनी:
विशेषेण वेधविधानमाह दत्त्वेत्यादि ॥ ग्र्ह्त्च्म्_18.6:1 ॥
आदौ प्रथमं लाक्षामत्स्यादिपित्तभावनया लाक्षा प्रतीता मत्स्यादिपित्तानि मत्स्यमाहिषमयूराजसूकरसंभवानि पित्तानि तेषां भावनया कृत्वा प्रतिवापं गलिते निक्षेपं तत्तारे दत्त्वा अथवा शुल्बे प्रतिवापं कुर्यात् अथवा कृष्टौ हेमकरणे वापं दत्त्वा नियुञ्ज्यादिति शेषः ॥ ग्र्ह्त्च्म्_18.6:2 ॥
स्तर्त् ग्र्ह्त् 18.7
तदनु क्रामणमृदिते तत्कल्केनापि पिण्डितरसेन ।
अतिविद्रुते च तस्मिन् वेधोऽसौ कुन्तवेधेन
*चोम्म्. मुग्धावबोधिनी:
विशेषाच्चाह तदन्वित्यादि ॥ ग्र्ह्त्च्म्_18.7:1 ॥
तदनु लाक्षामत्स्यादिपित्तभावनाया अनन्तरं तस्मिन् लाक्षादिकल्के क्रामणमृदिते कान्तरसकदरदरक्ततैलेन्द्रगोपाद्यैर् मृदिते सति पुनस्तत्कल्केन तच्चूर्णेनापि पिण्डितरसेन वेधः कर्तव्य इति शेषः ॥ ग्र्ह्त्च्म्_18.7:2 ॥
कस्मिन् तारे वा शुल्बे वा विद्रुते जलरूपे कार्य इत्यर्थः ॥ ग्र्ह्त्च्म्_18.7:3 ॥
स्तर्त् ग्र्ह्त् 18.8
<क्रामण (?)>
तत्तैलार्द्रपटेन स्थगयेत् पललेन भस्मना वापि ।
विधिवद्वेध्यं द्रव्यं रसराजक्रामणार्थं हि
*चोम्म्. मुग्धावबोधिनी:
विशेषमाह तदित्यादि ॥ ग्र्ह्त्च्म्_18.8:1 ॥
वेध्यं वेधोचितं द्रव्यं रसराजक्रामणार्थं यथा रसो विशति तदर्थं तं तैलार्द्रपटेन सारणतैलार्द्रवस्त्रेण स्थगयेत् आच्छादयेत् वा पललेन केनचिन्मांसेन वा भस्मना आच्छादयेदित्यर्थः ॥ ग्र्ह्त्च्म्_18.8:2 ॥
स्तर्त् ग्र्ह्त् 18.9
इति सारितस्य कथितं रसस्य वेधादि क्रामणं कर्म ।
विशेषमाह इतीत्यादि ॥ ग्र्ह्त्च्म्_18.8:1 ॥
सारितस्य उक्तविधानेन सारणाकृतस्य वेधादि क्रामणं कर्म वेधविधानोदितक्रामणं कर्म कथितम् ॥ ग्र्ह्त्च्म्_18.8:2 ॥
स्तर्त् ग्र्ह्त् 18.9
<लेपवेध।पत्त्ररञ्जन>
पादादिजीर्णबीजो युज्यते पत्रलेपेन
*चोम्म्. मुग्धावबोधिनी:
पादादिजीर्णबीजः पादादिना पादार्धेन समतो न्यूनेन च जीर्णं बीजं यस्मिन् सः पत्रलेपेन युज्यते अतः पत्ररञ्जनं स्यादित्यभिप्रायः ॥ ग्र्ह्त्च्म्_18.9:1 ॥
स्तर्त् ग्र्ह्त् 18.10
<पत्त्ररञ्जन (2) दुर्छ् लेप>
अम्लाद्युद्वर्तिततारारिष्टादिपत्रम् अतिशुद्धम् ।
आलिप्य रसेन ततः क्रामणलिप्ते पुटेषु विश्रान्तम्
*चोम्म्. मुग्धावबोधिनी:
अतिशुद्धं निर्मलं अम्लाद्युद्वर्तितं तारारिष्टशब्दात्सितं स्वर्णं ग्राह्यं ततः रसेनालिप्य ततः क्रमणालिप्ते क्रामणपिण्डेन लेपे कृते सति पुटेषु उत्पलाग्नौ विश्रान्तं स्थापितं कुर्यात् ॥ ग्र्ह्त्च्म्_18.10:1 ॥
पत्ररञ्जनविधिर् अयम् ॥ ग्र्ह्त्च्म्_18.10:2 ॥
स्तर्त् ग्र्ह्त् 18.11
<wएइतेर्वेरर्बेइतुन्ग् देस् पत्त्रस्; वर्णपुट>
अर्धेन मिश्रयित्वा हेम्ना ज्येष्ठेन तद्दलं पुटितम् ।
क्षितिखगपटुरक्तमृदा वर्णपुटोऽयं ततो देयः
*चोम्म्. मुग्धावबोधिनी:
अथ स्वर्णविधानमाह अर्धेनेत्यादि ॥ ग्र्ह्त्च्म्_18.11:1 ॥
अर्धेन अर्धविभागेन रञ्जितदलादित इति ज्ञेयम् ॥ ग्र्ह्त्च्म्_18.11:2 ॥
ज्येष्ठेन हेम्ना प्रवरकनकेन तद्दलं रञ्जितपत्रं मिश्रयित्वा पुटितं कुर्यात् यथा मिलति ॥ ग्र्ह्त्च्म्_18.11:3 ॥
पुनः क्षितिखगपटुरक्तमृदा कृत्वा क्षितिः स्फटिकः खगः पीतकासीसं पटु सैन्धवं लवणं रक्तमृत् गैरिकं एकवद्भावद्वन्द्वः तेन क्षित्यादिनोपरि लिप्तं दलं प्रति अयं पुटो देयः वनोपलैर् इति शेषः ॥ ग्र्ह्त्च्म्_18.11:4 ॥
स्तर्त् ग्र्ह्त् 18.12
<वेध:: wहिते गोल्द् => रेद् गोल्द्>
भूपतिवर्तकचूर्णं शिरीषपुष्परसभावितं बहुशः ।
सद्यः करोति रक्तं सितकनकम् अशीतिभागेन
*चोम्म्. मुग्धावबोधिनी:
वर्णविधानमाह भूपतीत्यादि ॥ ग्र्ह्त्च्म्_18.12:1 ॥
भूपतिवर्तकचूर्णं राजावर्तरजः बहुशो बहुवारं शिरीषपुष्परसभावितं कुर्यात् इत्यध्याहार्यम् ॥ ग्र्ह्त्च्म्_18.12:2 ॥
भावितं घर्मपुटितमिति विधानवित् इति शेषः ॥ ग्र्ह्त्च्म्_18.12:3 ॥
स्तर्त् ग्र्ह्त् 18.13
<वेध:: सिल्वेर् => गोल्द्>
रसदरदविमलताप्यं पटुशिलामाक्षीकनृपाश्चैव ।
प्रवालकंकुष्ठटङ्कणगैरिकप्रतिवापितं सितं कनकम्
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह रसेत्यादि ।
रसः सूतः दरदं हिङ्गुलः विमलं ताप्यभेदः पटु सैंधवं शिला मनोह्वा माक्षिकं प्रतीतं वणिग्द्रव्यं नृपो राजावर्तः प्रवालं विद्रुमं कङ्कुष्ठं विरङ्गं टङ्कणं सौभाग्यं गैरिकं प्रतीतं एतैः प्रतिवापितं सितद्रव्यं कनकं भवेत् इत्यध्याहार्यम् ॥ ग्र्ह्त्च्म्_18.13:1 ॥
स्तर्त् ग्र्ह्त् 18.14
<चोलोउरिन्ग् ओf गोल्द्>
तापीभवनृपावर्तबीजपूररसार्दितम् ।
करोति पुटपाकेन हेम सिन्दूरसन्निभम्
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह तापीभवेत्यादि ॥ ग्र्ह्त्च्म्_18.14:1 ॥
तापीभवं माक्षिकसत्त्वं नृपावर्तं राजावर्तकं एतद्द्वयं बीजपूररसार्दितं मातुलुङ्गरसमर्दितं कुर्यात् एतदुभयोर्योगात् कनकं पुटपाकेन वह्निविधानेन कनकं पूर्वोक्तं यत्कनकं वा हीनवर्णकनकं सिन्दूरसन्निभं करोति ॥ ग्र्ह्त्च्म्_18.14:2 ॥
सिन्दूरवन्निभा यस्येति समासः ॥ ग्र्ह्त्च्म्_18.14:3 ॥
स्तर्त् ग्र्ह्त् 18.15
<सिल्वेर्:: इम्प्रोवेमेन्त् ओf चोलोउर्>
वङ्गाभ्रं सितमाक्षीकं शैलं वा वाहयेत्सिते ।
तत्तारं च दशांशेन तारोत्कर्षं करोति हि
*चोम्म्. मुग्धावबोधिनी:
अथ तारवर्णविधानमाह वङ्गेत्यादि ॥ ग्र्ह्त्च्म्_18.15:1 ॥
वङ्गाभ्रमिति वङ्गं त्रपु अभ्रं श्वेताभ्रं पुनः सितमाक्षीकं विमलं शैलं श्वेतशिलाजतु वा सिते तारे वाहयेत् ॥ ग्र्ह्त्च्म्_18.15:2 ॥
पुनर्दशांशेन एतदौषधनिचयं तारतो दशमविभागेन कृत्वा हि निश्चितं तारोत्कर्षं करोति हीनवर्णत उत्तमं करोतीत्यभिप्रायः ॥ ग्र्ह्त्च्म्_18.15:3 ॥
स्तर्त् ग्र्ह्त् 18.16
<निर्वाहण ओf दिff. सुब्स्तन्चेस् => फ्य्स्. रेसुल्त्स्>
नागः करोति मृदुतां निर्व्यूढस्तां च रक्ततां च रविः ।
तां पीततां च तीक्ष्णं काचस्तत्कालिकविनाशं च
*चोम्म्. मुग्धावबोधिनी:
तारे विशेषमाह नाग इत्यादि ॥ ग्र्ह्त्च्म्_18.16:1 ॥
नागः सीसकस् तारे निर्व्यूढो मृदुतां कोमलत्वं करोति ॥ ग्र्ह्त्च्म्_18.16:2 ॥
पुनः रविस्ताम्रं निर्व्यूढं सत् तां मृदुतां च पुनः रक्ततां लोहितनिभां करोति ॥ ग्र्ह्त्च्म्_18.16:3 ॥
च पुनस्तीक्ष्णं तारनिर्व्यूढं तां रक्ततां पीततां च करोति ॥ ग्र्ह्त्च्म्_18.16:4 ॥
पुनः काचः प्रतीतो लोके स कालिकविनाशं करोतीति तारे निर्व्यूढ इति संबन्धः ॥ ग्र्ह्त्च्म्_18.16:5 ॥
स्तर्त् ग्र्ह्त् 18.17
<गोल्द्:: इम्प्रोवेमेन्त्>
कनकारुणसममाक्षिककरञ्जतैलाप्लुतो ध्मातः ।
पाते पाते दश दश विन्दति यावद्धि कोटिमपि
*चोम्म्. मुग्धावबोधिनी:
हेम्नो विशेषमाह कनकारुणेत्यादि ॥ ग्र्ह्त्च्म्_18.17:1 ॥
कनकं हेम अरुणं ताम्रं समं तुल्यभागं माक्षिकं ताप्यं अयं गणः करञ्जतैलप्लुतो ध्मातः कार्यः ॥ ग्र्ह्त्च्म्_18.17:2 ॥
पुनः पाते पाते वारंवारं निक्षेपे सति दश दश गुणोत्कर्षं विदन्ति ध्मात इत्यध्याहारः ॥ ग्र्ह्त्च्म्_18.17:3 ॥
हि निश्चितम् ॥ ग्र्ह्त्च्म्_18.17:4 ॥
कियत्कालं यावत्कोटिसंख्यां विन्दति ॥ ग्र्ह्त्च्म्_18.17:5 ॥
स्तर्त् ग्र्ह्त् 18.18
<गोल्द्:: बीज fओर् इम्प्रोवेमेन्त् ओf चोलोउर्>
स चायमतिविलीनः कंगुणीतैलसेचितो बहुशः ।
माक्षीकरविनिवापं विध्यति कनकं शतांशेन
*चोम्म्. मुग्धावबोधिनी:
विशेषमाह स इत्यादि ॥ ग्र्ह्त्च्म्_18.18:1 ॥
सः करञ्जतैलप्लुतो योगो बहुशो वारंवारं कङ्गुणीतैलेन सेचितो यथा स्यात्तथायं अति विलीनः सन् माक्षिकरविनिवापां पुनः कार्य एवंविधं च कनकं शतांशेन शतविभागेन विध्यति सितकनकम् इति ॥ ग्र्ह्त्च्म्_18.18:2 ॥
स्तर्त् ग्र्ह्त् 18.19
<गोल्द्:: बीज fओर् इम्प्रोवेमेन्त् (?)>
शुल्बहतं रसगन्धाहतखगपीतं दशांशेन ।
विध्यति कनकं कुरुते तन्निर्व्यूढं मर्दितं सुदृढम्
*चोम्म्. मुग्धावबोधिनी:
विशेषमाह शुल्बेत्यादि ॥ ग्र्ह्त्च्म्_18.19:1 ॥
शुल्बहतं शुल्बेन सह हतं रसगन्धं सूतगन्धं तेन आहतं पञ्चत्वम् आपन्नं यत्खगपीतं पीतकासीसं एतदौषधसमुच्चयं सुदृढं यथा स्यात्तथा मर्दितं कुर्यात् पुनस्तत् निर्व्यूढं दशांशेन विध्यति सितकनकं कुरुते स्वर्णमिति विशेषः ॥ ग्र्ह्त्च्म्_18.19:2 ॥
स्तर्त् ग्र्ह्त् 18.20
<वेध>
रसकसमं सुध्मातं कनकं भुक्त्वा ततोऽर्कचन्द्रलेपेन ।
माक्षिकसत्त्वं हेम्ना करोति जीर्णो रसः शतांशेन
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह रसकेत्यादि ॥ ग्र्ह्त्च्म्_18.20:1 ॥
ततोऽनन्तरं अर्कचन्द्रलेपेन कनकं रसकसमं ध्मातं कुर्यात् पुनरेतदौषधं भुक्त्वा कनकं स्यात् पुनर्माक्षिकसत्त्वं हेम्ना सह जीर्णं रसं शतांशेन विध्यतीत्यर्थः ॥ ग्र्ह्त्च्म्_18.20:2 ॥
स्तर्त् ग्र्ह्त् 18.21
<वेध; सिल्वेर् => गोल्द्>
अष्टगुणं मृतशुल्बं कलधौतेन मूकमूषया लिप्तम् ।
तत्षोडशांशजीर्णं विध्यति तारं शतार्धेन
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह अष्टगुणेत्यादि ॥ ग्र्ह्त्च्म्_18.21:1 ॥
अष्टगुणं मृतशुल्बं अरिवर्गेण सह हतं यत् शुल्बं ताम्रं ततः कलधौतेन षोडशांशेन जीर्णं शतार्धेन पञ्चाशद्विभागेन तारं विध्यति कनकं करोतीत्यर्थः ॥ ग्र्ह्त्च्म्_18.21:2 ॥
स्तर्त् ग्र्ह्त् 18.22
<वेध:: दशांश~; सिल्वेर् => गोल्द्>
आवृत्य कनककरिणौ शिलया प्रतिवापितौ ततो भुक्त्वा ।
दोलायन्त्रे गन्धकजीर्णस्तारे दशांशवेधी स्यात्
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह आवृत्येत्यादि ॥ ग्र्ह्त्च्म्_18.22:1 ॥
कनककरिणौ समहेमनागौ आवृत्य गालयित्वा शिलया मनोह्वया प्रतिवापितौ ततोऽनन्तरं दोलायन्त्रे कनककरिणौ भुक्त्वा गन्धकजीर्णो यो रसः स तारे दशांशवेधी स्यात् दशांशेन विध्यतीत्यर्थः ॥ ग्र्ह्त्च्म्_18.22:2 ॥
स्तर्त् ग्र्ह्त् 18.23
<वेध:: शतांश; ब्रोन्zए => गोल्द्>
रिपुनिहतलोहषट्कं जीर्णो धान्यस्थितश्चतुर्मासम् ।
सहितः पुरसुराभ्यां विध्यति घोषं शतांशेन
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह रिपुनिहतेत्यादि ॥ ग्र्ह्त्च्म्_18.23:1 ॥
रिपुनिहतलोहषट्कं रिपुभिर् अरिवर्गैर् निहतं मारितं यत् लोहषट्कं स्वर्णतारताम्रनागवङ्गलोहाभिधानं तत् चतुर्मासं यथा स्यात्तथा धान्यस्थितोऽन्नकोष्ठीधृतो रसो जीर्णः ॥ ग्र्ह्त्च्म्_18.23:2 ॥
किंविशिष्टो धान्यस्थितः पुरसुराभ्यां गुग्गुलुमदिराभ्यां सहितो मिलितः शतांशेन घोषं कांस्यं विध्यति कनकं करोतीत्यर्थः ॥ ग्र्ह्त्च्म्_18.23:3 ॥
स्तर्त् ग्र्ह्त् 18.24
वक्ष्ये सम्प्रति सम्यग्यद् बीजं समरसे जीर्णम् ।
पिष्टिस्तम्भादिविधिं प्रकाश्यमानं बुधाः शृणुत
*चोम्म्. मुग्धावबोधिनी:
विशेषमाह वक्ष्य इत्यादि ॥ ग्र्ह्त्च्म्_18.24:1 ॥
भो बुधाः मया प्रकाश्यमानं सत् शृणुत सावधाना इत्यध्याहार्यम् ॥ ग्र्ह्त्च्म्_18.24:2 ॥
तत्किं संप्रति यद् बीजं समरसे तुल्यसूते सम्यक् जीर्णं जारणमापन्नं तदहं गोविन्दनामा वक्ष्ये कथयामि ॥ ग्र्ह्त्च्म्_18.24:3 ॥
पुनः पिष्टिस्तम्भादिविधिं पिष्टिस्तम्भ आदिर् यस्य विधेस्तं विधिं पाटखोटजलौकाख्यं च वक्ष्ये ॥ ग्र्ह्त्च्म्_18.24:4 ॥
स्तर्त् ग्र्ह्त् 18.25-40
<वेध; घोषाकृष्ट => गोल्द्>
राजावर्तकविमलपीताभ्रगन्धताप्यरसकैश्च ।
कांक्षीकासीसशिलादरदैश्च समन्वितं नागम्
अहिमाररसैः पुटितं मारय नागं निरुत्थकं यावत् ।
तदनु च तस्य हि मध्ये शुल्बं गन्धं च लवणकंकुष्ठम्
तत्सर्वं शतवारान् भावय पक्वार्कपत्रसलिलैश्च ।
घोषाकृष्टे शुल्बे चूर्णं निर्वाहयेच्छतशः
शुल्बेन तेन हि समं रसकपीताभ्रसत्वविमलं च ।
गैरिकमाक्षिकसत्त्वं टङ्कणनागं च तीक्ष्णयुतम्
एतैर् द्वन्द्वं कृत्वा माक्षिकवापेन रञ्जयेच्छुल्वम् ।
वारांश्च विंशतिरपि गलितं सेचयेत्तदनु
निर्गुण्डीकाकमाचीकन्यारसमेलनं कृत्वा ।
वारान् सप्त च विधिना तदपि च निर्वापयेद्धेम्नि
यावच्चतुर्विंशतिगुणं बीजवरं रञ्जयेत्तच्च ।
पक्वं माक्षिकमेव हि तेन च विधिना तदपि चतुर्विंशतिगुणम्
तद्बीजं लघुमात्रं रसराजे संस्कृते पूर्वम् ।
मूषायां खलु दत्त्वा दशगुणं च गन्धकं दाह्यम्
अथवा वालुकयन्त्रे सुदृढे चतुर्दशांगुलमूषायाम् ।
मध्ये सूतं मुक्त्वा लघुतरपुटयोगतः पिहिता
तेन समं बीजवरे पिष्टिः पादांशतः कार्या ।
अंगुलिनवपरिमाणे मूषामध्ये च पिष्टिकां दत्त्वा
निर्गुण्डीकाकमाचीगोजिह्वादुग्धिकारक्ता ।
गृहकन्यामधुसैन्धवपिण्डैरपि समन्ततश्छाद्या
तावत्कार्यः पुटयोगो यावद् दृढतां समायाति ।
षड्गुणगन्धकतालककांक्षीकासीसलवणक्षारम्
ताप्यं तत्सर्वसमं देयं बाह्ये तदौषधिपिण्डम् ।
षड्गुणषड्गुणसहितं पिष्टीं यन्त्रेऽथ कच्छपे दत्त्वा
स्वेद्यं पुटयोगेन तु त्रिदिनं घटिकात्रयं यावत् ।
उद्धृत्य ततो यत्नात् पिष्ट्वा सुचूर्णितां कृत्वा
समबीजेन तु सार्यो नागं त्रिगुणं ततः समुत्तार्य ।
प्रतिसारणा च कार्या जारितसूतेन बीजयुक्तेन
अनुसारणा च पश्चात्त्रिगुणं बीजं भवेद्यत्र ।
प्रागुक्तं तस्योपरि मृतनागं शतगुणं वाह्यम् ।
तेन च घोषाकृष्टे शुल्बे वेधोऽथ सप्तशतैः
*चोम्म्. मुग्धावबोधिनी:
अथ नागमाह राजावर्तकेत्यादि ॥ ग्र्ह्त्च्म्_18.25-40:1 ॥
राजावर्तकं प्रसिद्धं विमलं श्वेतमाक्षिकं पीताभ्रं पीतवर्णं यदभ्रं गन्धो गन्धकः ताप्यं स्वर्णमाक्षिकं रसकं खर्परिकं एतैः पुनरेतैः काङ्क्षी काहीति लोके कासीसं पीतकासीसं शिला मनोह्वा दरदं हिङ्गुलं तैश्च समन्वितं मिलितं नागं कुर्यादित्यर्थः ॥ ग्र्ह्त्च्म्_18.25-40:2 ॥
तच्चाह अहीत्यादि ॥ ग्र्ह्त्च्म्_18.25-40:3 ॥
पूर्वौषधसंयुतं नागं अहिमाररसैः करवीरद्रावैः पुटितं कुर्यात् ॥ ग्र्ह्त्च्म्_18.25-40:4 ॥
नागं सीसकं तावन्मारय यावन्निरुत्थकं यथा पुनरुत्थितं न स्यात् ॥ ग्र्ह्त्च्म्_18.25-40:5 ॥
तदनु तत्पश्चात् तस्य नागस्य मध्ये शुल्बं ताम्रं गन्धं प्रतीतं लवणं सैन्धवं कङ्कुष्ठं विरङ्गं एतत्सर्वं मिश्रितं कुर्यात् इत्यध्याहार्यम् ॥ ग्र्ह्त्च्म्_18.25-40:6 ॥
स्तर्त् ग्र्ह्त् 18.41-46
<क्षेपवेध>
क्रामणम् एतत्प्रागपि माक्षिकदरदगन्धकशिलाभिः ।
राजावर्तकविमलप्रवालकङ्कुष्ठतुत्थविषैः
कान्तगैरिकटंकणभूमिलतारुधिरशक्रगोपरसैः ।
महिषीणां कर्णमलैर् मृतलोहं वायसस्य विष्ठा च
पारावतस्य विष्ठा स्त्रीपयः सर्वम् एकतः कृत्वा ।
क्रामणकल्कं चैतच्छतवारान् रक्तपीतगणैः
भाव्यं कंगुणितैले क्रौञ्चीपित्तभावनाः सप्त ।
कल्केनानेन पचेत् सारितपिष्टिं च हण्डिकायां हि
यावद्रक्ता भवति हि गच्छति नागं समुत्तार्य ।
तावत्क्षेपं च क्षिपेत्सर्वस्मिन्सारणादौ च
एवं हि कोटिवेधी रसराजः क्रामितो भूत्वा ।
पुंस्त्वादेरुच्छ्रायप्रदो भूत्वा भोगान्दत्ते
*चोम्म्. मुग्धावबोधिनी:
क्रामणमाह क्रामणम् इत्यादि ॥ ग्र्ह्त्च्म्_18.41-46:1 ॥
प्रागपीति पूर्वाध्यायेऽपि प्रोक्तं इति शेषः ॥ ग्र्ह्त्च्म्_18.41-46:2 ॥
पुनरेतद्वक्ष्यमाणं क्रामणगुणं कुर्याद् इत्यध्याहारः ॥ ग्र्ह्त्च्म्_18.41-46:3 ॥
स कथं तदाह माक्षिकेत्यादि ॥ ग्र्ह्त्च्म्_18.41-46:4 ॥
माक्षिकं ताप्यं दरदं हिङ्गुलं गन्धकः प्रतीतः शिला मनोह्वा ताभिः ॥ ग्र्ह्त्च्म्_18.41-46:5 ॥
पुनः राजावर्तकेत्यादि ॥ ग्र्ह्त्च्म्_18.41-46:6 ॥
राजावर्तकं लाजवरद इति भाषायां विमलं सितमाक्षिकं प्रवालं विद्रुमं कङ्कुष्ठं विरङ्गं तुत्थकं शिखिग्रीवं विषं सक्तुकादिकन्दजं एतैश्च ॥ ग्र्ह्त्च्म्_18.41-46:7 ॥
कान्तेत्यादि कान्तं चुम्बकं गैरिकं प्रतीतं टङ्कणं सौभाग्यं भूमिलता भूनागः रुधिरं शक्रगोपः रसो विषं पुनरुक्ताद्विषमत्र द्विगुणं तैः ॥ ग्र्ह्त्च्म्_18.41-46:8 ॥
च पुनर् महिषीणां कर्णमलैर् हयारिपत्नीनां श्रवणयोर् मलानि तैः सह मृतलोहं मृतं च तल्लोहं चेति वायसस्य काकस्य विष्ठा शकृत् ॥ ग्र्ह्त्च्म्_18.41-46:9 ॥
पारावतस्य विष्ठा कपोतशकृत् स्त्रीपयो नारीक्षीरं एतत्सर्वं माक्षिकादिस्त्रीक्षीरान्तम् एकतः कृत्वा मिश्रितं विधाय च पुनरेतत्क्रामणकल्कं रक्तपीतगणैः किंशुकादिहरिद्राद्यैः शतवारान् भावयेदित्यागामिश्लोकसंबन्धात् ॥ ग्र्ह्त्च्म्_18.41-46:10 ॥
सारणकल्कविधानमाह भाव्यम् इत्यादि ॥ ग्र्ह्त्च्म्_18.41-46:11 ॥
पूर्वोक्तसारणकल्कं कङ्गुणीतैले ज्योतिष्मतीस्नेहे भाव्यं ततः क्रौञ्चीपित्तभावनाः सप्त देयाः दातव्याः ॥ ग्र्ह्त्च्म्_18.41-46:12 ॥
पुनः सारितपिष्टिं सारिता या रसेन्द्रबीजपिष्टिस् ताम् अनेन कल्केन हण्डिकायां पचेत् वह्निना पाकः कर्तव्यः ॥ ग्र्ह्त्च्म्_18.41-46:13 ॥
सारणकल्कपाचनमाह यावदित्यादि ॥ ग्र्ह्त्च्म्_18.41-46:14 ॥
पूर्वकल्कसंयुतां पिष्टिं कियत्कालं पचेत् यावद्रक्ता भवति नागं च गच्छति नागनाशः स्यात् नागे गच्छति सति समुत्तार्य पुनस्तावत्सर्वस्मिन्सारणादौ च क्षेपक्रमेण क्षेपं क्षिपेत् ॥ ग्र्ह्त्च्म्_18.41-46:15 ॥
पुंस्त्वाद्यान् आकाशगमनपर्यन्तान् भोगान् ददातीत्यभिप्रायः ॥ ग्र्ह्त्च्म्_18.41-46:16 ॥
स्तर्त् ग्र्ह्त् 18.47-48
<सिल्वेर् => गोल्द्>
अभ्रकमाक्षिककनकं नागयुतं मिलितं विधिना ।
सूते पिष्टिः कार्या दिव्यौषधियोगतः पुटिता
षड्गुणगन्धकदाहः शिलया नागं समुत्तार्य ।
तारे हेमाकृष्टिर्मिलिता स्यात् षोडशांशेन
*चोम्म्. मुग्धावबोधिनी:
पिष्टिविध्यन्तरमाह अभ्रकम् इत्यादि ॥ ग्र्ह्त्च्म्_18.47-48:1 ॥
अभ्रकं प्रतीतं माक्षिकं ताप्यं कनकं हेम नागयुतं नागेन सीसकेन युतं सहितं विधिना कर्तव्योपदेशेन एतत्सर्वं सूते मिलितं सत् पिष्टिः कार्या दिव्यौषधियोगतः पुटिता पिष्टिः कार्या इति ॥ ग्र्ह्त्च्म्_18.47-48:2 ॥
तारे हेमाकृष्टिम् आह षडित्यादि ॥ ग्र्ह्त्च्म्_18.47-48:3 ॥
पूर्वोक्तायां पिष्ट्यां षड्गुणगन्धकदाहः कार्यः पुनः षड्गुणशिलया कृत्वा नागं समुत्तार्य सीसकमपहाय सा निष्पन्ना पिष्टी षोडशांशेन तारे रूप्ये मिलिता सती हेमाकृष्टिः स्यात्कनकोद्धारणं भवेत् ताम्रनागादिषु धातुषु हेम स्थितमेव तत आकृष्टिशब्दो युक्तः ॥ ग्र्ह्त्च्म्_18.47-48:4 ॥
स्तर्त् ग्र्ह्त् 18.49-50
<सिल्वेर् => गोल्द्>
माक्षिकनिहतं शुल्बं शिलया निहतं च नागतुल्यांशम् ।
पुटितं जम्बीररसैः सैन्धवसहितं पचेत्स्थाल्याम्
तच्चूर्णं घृतमधुकटङ्कणसहितं च गुप्तमूषायाम् ।
तारे त्रिगुणं व्यूढं हेमाकृष्टिर्भवेद्दिव्या
*चोम्म्. मुग्धावबोधिनी:
नागमारणविधानमाह माक्षिकेत्यादि ॥ ग्र्ह्त्च्म्_18.49-50:1 ॥
माक्षिकेण निहतं मारितं यत् शुल्वं शिलया मनःशिलया नागं च निहतं मारितं उभयं तुल्यांशं समभागं कार्यं पुनर् जम्बीररसैः जम्बीरद्रावैः सैन्धवसहितम् उभयं पुटितं भावितं सत्पचेद्वह्निना पक्वं कुर्यात् ॥ ग्र्ह्त्च्म्_18.49-50:2 ॥
क्व स्थाल्यां मृद्भाजने इत्यर्थः ॥ ग्र्ह्त्च्म्_18.49-50:3 ॥
स्तर्त् ग्र्ह्त् 18.51-52
<चोप्पेर् + सिल्वेर् => गोल्द्>
शुल्बं बलिना निहतं तीक्ष्णं दरदेन निहतसमभागम् ।
एकीकृत्वा पुटयेत्पचेन् मातारसेनैव
तारे व्यूढं त्रिगुणं मार्जाराक्षनिभं भवेत्तच्च ।
लिप्तं रसेन पुटितं हेमार्धेन मात्रया तुल्यम्
*चोम्म्. मुग्धावबोधिनी:
नागे तारे हेमाकृष्टिमाह शुल्वमित्यादि ॥ ग्र्ह्त्च्म्_18.51-52:1 ॥
बलिना गन्धकेन निहतं सत् समभागं तुल्यांशं कुर्यात् इति शेषः ॥ ग्र्ह्त्च्म्_18.51-52:2 ॥
उभयमेकीकृत्य संमिश्र्य मातारसेनैव नारीक्षीरेण पुटयेत् पचेद् इति श्लोकार्थः ॥ ग्र्ह्त्च्म्_18.51-52:3 ॥
हेमाकृष्टेर्विधानमाह तारे इत्यादि ॥ ग्र्ह्त्च्म्_18.51-52:4 ॥
पूर्वोक्तं चूर्णं शुल्बजं तीक्ष्णजं वा तारे त्रिगुणं व्यूढं वाहितं सत् मार्जाराक्षसंनिभ ओतुनेत्राभं तारं भवेत् ॥ ग्र्ह्त्च्म्_18.51-52:5 ॥
हेमार्धेन मात्रया तारार्धभागेन परिमाणेन हेम्ना तुल्यम् अन्यूनाधिकं रसेन पयसा ॥ ग्र्ह्त्च्म्_18.51-52:6 ॥
स्तर्त् ग्र्ह्त् 18.53-55
<लेअद् => गोल्द्>
लिप्तं तदनु पुटितं नागं हि रसेन पादयुक्तेन ।
खर्परकस्थं कृत्वा कार्यं विधिना दृढं ताप्यम्
निर्गुण्डीरसभावितपुटितं शिलया वर्तितं श्लक्ष्णम् ।
तावन्मृदितपुटितं निरुत्थभावं व्रजेद्यावत्
तारे तन्निर्व्यूढं यावत्पीतं भवेद्रुचिरम् ।
हेमसमेन च मिलितं मात्रातुल्यं भवेत्कनकम्
*चोम्म्. मुग्धावबोधिनी:
पुनर्नागविधानमाह लिप्तमित्यादि ॥ ग्र्ह्त्च्म्_18.53-55:1 ॥
त्रिगुणं यथा स्यात् तथा पादयुक्तेन रसेन चतुर्थांशसहितसूतेन सह नागं सीसकं खर्परकस्थं मृद्भाजनखण्डस्थितं कृत्वा विधिना रसज्ञोपदेशेन दृढं ताप्यं वह्नियुतं सत् निहतं कुर्यादिति वाक्यार्थः ॥ ग्र्ह्त्च्म्_18.53-55:2 ॥
तच्चाह निर्गुण्डीत्यादि ॥ ग्र्ह्त्च्म्_18.53-55:3 ॥
पक्वं नागचूर्णं श्लक्ष्णं श्रेष्ठविधानं यथा स्यात्तथा शिलया वर्तितं सन् निर्गुण्डीरसभावितपुटितं पूर्णं भावितं घर्मपुटितं पश्चात्पुटितं वह्निपुटितं कुर्यात् ॥ ग्र्ह्त्च्म्_18.53-55:4 ॥
पुनर्यावन्निरुत्थभावं अशीरत्वं व्रजेत् तावन्मृदितपुटितं मर्दितपाचितं कुर्याद् इत्यर्थः ॥ ग्र्ह्त्च्म्_18.53-55:5 ॥
तच्चाह तारे इत्यादि ॥ ग्र्ह्त्च्म्_18.53-55:6 ॥
तन्निरुत्थनागचूर्णं यावत्पीतं पीतवर्णं तारं भवेत् तावद्वारं निर्व्यूढं कुर्यात् ॥ ग्र्ह्त्च्म्_18.53-55:7 ॥
पुनर्हेमसमेन कनकतुल्यांशेन मात्रातुल्यं मिलितं सत् रुचिरं मनोरमं कनकं सर्वं भवेदित्यर्थः ॥ ग्र्ह्त्च्म्_18.53-55:8 ॥
स्तर्त् ग्र्ह्त् 18.56-63
<स्वर्णमाक्षिक => गोल्द्>
ताप्यं चांगुलिसंज्ञं चूर्णं कृत्वा तदन्तरे दत्त्वा ।
शुल्बस्य गुप्तमूषा कार्या पुटिताप्यथ च ध्माता
हेम्ना मिलितं विधिना मात्रातुल्यं भवत्येव ।
ताप्यविधानमाह ताप्यमित्यादि ॥ ग्र्ह्त्च्म्_18.56:1 ॥
अङ्गुलिसंज्ञं ताप्यं स्वर्णमाक्षिकं चूर्णं कृत्वा तदन्तरे तच्चूर्णम् अन्तरे मध्ये दत्त्वा शुल्बस्य ताम्रस्य गुप्तमूषा अन्धमूषा कार्या तत्र नले इत्यभिप्रायः ॥ ग्र्ह्त्च्म्_18.56:2 ॥
सा मूषा पुटिता ध्माता कार्येति विधानम् उक्तम् ॥ ग्र्ह्त्च्म्_18.56:3 ॥
तच्चाह हेम्नेत्यादि ॥ ग्र्ह्त्च्म्_18.56:4 ॥
पक्वं यन्माक्षिकचूर्णं तद्धेम्ना कृत्वा ॥ ग्र्ह्त्च्म्_18.56:5 ॥
स्तर्त् ग्र्ह्त् 18.57-63
<गोल्द्:: रञ्जन (??)>
पादादिजीर्णसूते लिह्यात् पत्राणि हेमकृष्टीनाम्
क्रामणयोगेन ततो विलिप्य विधिना निधाय तुल्याधः ।
पश्चाद्धेम्ना सहितं ध्मातं मूषोदरे समावर्त्य
यन्त्रं हण्ड्यां पक्वं पञ्चमृदावाप्य पुटपक्वम् ।
पादादिजीर्णसूते पादादिना पादार्धसमानदिना जीर्णो योऽसौ सूतः तस्मिन् हेमकृष्टीनां पत्राणि कलुषकनकानां पत्राणि लिह्यात् क्रामणयोगेन लेपयेदित्यागामिश्लोकात् ॥ ग्र्ह्त्च्म्_18.57-58:1 ॥
तच्चाह क्रामणेत्यादि ॥ ग्र्ह्त्च्म्_18.57-58:2 ॥
ततो रसलेपानन्तरं क्रामणयोगेन कुनटीमाक्षिकविषम् इत्यादिनोक्तेन विलिप्य तुल्याधः तुल्यं यथा स्यात्तथा अधोभागे निधाय मूषोदरे ध्मातं कुर्यात् ॥ ग्र्ह्त्च्म्_18.57-58:3 ॥
पुनः पश्चाद्धेम्ना कनकेन सहितं आवर्त्य ध्मातं कुर्यात् ॥ ग्र्ह्त्च्म्_18.57-58:4 ॥
स्तर्त् ग्र्ह्त् 18.59-63
<गोल्द्:: प्रोदुच्तिओन् (?)>
वक्ष्यामि चालेपविधिं क्रमति च सूतो यथा हि पत्रेषु ।
रञ्जति येन विधिना समासतः सूतराजस्तु
कृत्वालक्तकवस्त्रं लिप्तमनुस्नेहमुपरि चूर्णेन ।
अवचूर्णितं तु कृत्वा गन्धकशिलया विधानेन
तदुपरि शृतं च दत्त्वा गन्धकशिलाचूर्णं च सूतवरे ।
पश्चाद्वर्तिः कार्या पात्रे धृत्वायसे च समे
दीपं प्रतिबोध्य ततस्तैलं दत्त्वा ततः स्तोकम् ।
पाकं यामस्यार्धं स्वाङ्गे शीतं ततः कार्यम्
गृह्णीयादथ सूतकृष्टीं लिप्ता ततस्तेन ।
क्रामणयोगैर्लिप्त्वा पुटिता सा हेम्नि निर्ध्माता
*चोम्म्. मुग्धावबोधिनी:
तच्चाह यन्त्रमित्यादि ॥ ग्र्ह्त्च्म्_18.59-63:1 ॥
वा यन्त्रं पञ्चमृदा वल्मीकमृत् गैरिकं खटिका सैन्धवं इष्टिका चेति पञ्चमृदः तया कृत्वा हण्ड्यां स्थाल्यां पक्वं कार्यम् ॥ ग्र्ह्त्च्म्_18.59-63:2 ॥
अथ पुटपक्वं गजपुटादिना पाच्यमित्यर्थः ॥ ग्र्ह्त्च्म्_18.59-63:3 ॥
लेपनविधिं वक्ष्यामि यथा पत्रेषु लेपः कार्यः पुनर् यथा पत्रेषु क्रमति स्वगुणान् प्रकाशयति पुनर्येन विधिना रञ्जनं रागं ददाति समासतः संक्षेपतः विधिना विधानतः सूतराज एवंविधो भवेत् तमुपायं वक्ष्यामीति ॥ ग्र्ह्त्च्म्_18.59-63:4 ॥
अथ लेपक्रामणं रञ्जनविधानमाह कृत्वालक्तकवस्त्रम् इत्यादि ॥ ग्र्ह्त्च्म्_18.59-63:5 ॥
प्रथमं आलक्तकं वस्त्रं अलक्तेन रञ्जितं यद्वस्त्रं तद् आलक्तकं अनु पश्चात् स्नेहं कङ्गुण्यादीनां तैलं लिप्तं कार्यं तत्तैललिप्तवस्त्रोपरि वक्ष्यमाणौषधानां चूर्णेन अवचूर्णनं कुर्यात् तैललिप्तवस्त्रं गन्धकशिलया अवचूर्णितं कृत्वा तदुपरि दातव्यं दर्शयति ॥ ग्र्ह्त्च्म्_18.59-63:6 ॥
पुनस्तदुपरि गन्धकशिलाचूर्णोपरि शृतं दत्त्वा पुनर्गन्धकशिलाचूर्णं सूतवरे सूतराजोपरि दत्त्वा पश्चात्तत्करणानन्तरं वर्तिः कार्या सा वर्तिर् आयसे लोहमये समे समभूमौ पात्रे धृत्वा तत्रोपरि कार्या ॥ ग्र्ह्त्च्म्_18.59-63:7 ॥
विध्यन्तरं दर्शयति दीपम् इत्यादि ॥ ग्र्ह्त्च्म्_18.59-63:8 ॥
ततो वर्तेः पात्रोपरि करणानन्तरं दीपं प्रतिबोध्य प्रज्वाल्य ततो वारंवारं स्तोकमल्पं तैलं दत्त्वा यावद्यामस्य प्रहरस्य अर्धं स्यात्तावत्पाकं कुर्यात् इति शेषः ॥ ग्र्ह्त्च्म्_18.59-63:9 ॥
ततोऽनन्तरं तत्पतितं तैलं स्वाङ्गशीतं कार्यं अङ्गे तैलद्रवरूपे शरीरे यथास्वं स्वयमेव शीतं यथा स्यात्तथा कार्यम् ॥ ग्र्ह्त्च्म्_18.59-63:10 ॥
तच्चाह गृह्णीयाद् इत्यादि ॥ ग्र्ह्त्च्म्_18.59-63:11 ॥
अथ शीतकरणानन्तरम् ॥ ग्र्ह्त्च्म्_18.59-63:12 ॥
सूतकृष्टीं च गृह्णीयात् कर्मवित् इति शेषः ॥ ग्र्ह्त्च्म्_18.59-63:13 ॥
ततोऽनन्तरं सा सूतकृष्टी तेन पत्रेण लिप्ता सती क्रामणयोगैर् लिप्त्वा हेम्नि सुवर्णे निर्ध्माता कार्येति ॥ ग्र्ह्त्च्म्_18.59-63:14 ॥
स्तर्त् ग्र्ह्त् 18.64-67
<गोल्द्:: प्रोदुच्तिओन्>
अथवा दरदशिलालैर् गन्धकमाक्षीकपक्वमृतनागैः ।
कंकुष्ठप्रवालसहितैः पिष्टैश्च कङ्गुणीतैले
मध्ये सूतो युक्तो मृदितः खल्वे तथायसे विधिना ।
संस्वेद्य वंशनलिकां दोलायन्त्रेण स्वेदितं त्रिदिनम्
एतैर्लिप्त्वा कृष्णैः पत्रं पूर्वोक्तविधानेन ।
नागं दत्त्वा प्रकटं स्तोकं स्तोकं क्रमेणैव
भवति हि कनकं दिव्यमक्षीणं देवयोग्यं च ।
एवं जारितसूते सकलाः खलु हण्डिकाः सर्वाः
*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह अथवेत्यादि ॥ ग्र्ह्त्च्म्_18.64-67:1 ॥
दरदो हिङ्गुलः शिला मनोह्वा आलं हरितालं तैः गन्धकः प्रतीतः माक्षिकं यत्पक्वं सिन्दूरीकृतं मृतनागश्च तैः ॥ ग्र्ह्त्च्म्_18.64-67:2 ॥
पुनः कङ्कुष्ठप्रवालसहितैः कङ्कुष्ठं विरङ्गं प्रवालं विद्रुमं ताभ्यां सहितैः ॥ ग्र्ह्त्च्म्_18.64-67:3 ॥
पुनरेतैः कङ्गुणीतैले ज्योतिष्मतीतैले पिष्टैश् चूर्णीकृतैः मध्ये सूतो युक्तः कार्य इत्यग्रिमश्लोकसंबन्धात् ॥ ग्र्ह्त्च्म्_18.64-67:4 ॥
तच्चाह मध्ये इत्यादि ॥ ग्र्ह्त्च्म्_18.64-67:5 ॥
पूर्वोक्तैरौषधैः कृत्वा मध्ये औषधान्तः सूतो युक्तः कार्यः ॥ ग्र्ह्त्च्म्_18.64-67:6 ॥
पुनर्मर्दयित्वा वंशनलिकां रिक्तोदरां प्रति संवेद्य दिनत्रयं दोलायन्त्रेण स्वेदितं कुर्यादित्यर्थः ॥ ग्र्ह्त्च्म्_18.64-67:7 ॥
तच्चाह लिप्त्वेत्यादि ॥ ग्र्ह्त्च्म्_18.64-67:8 ॥
एतानि स्वेदितौषधानि संयुक्तानि तैः कृष्णैः कृष्णलवणैः पूर्वोक्तविधानेन सूतकृष्टीविधानेन पत्रं लिप्त्वा पुनः प्रकटं यथा स्यात् तथा स्तोकं अल्पमल्पं क्रमेण नागं दत्त्वा कनकं जायते इत्यग्रिमश्लोकसंबन्धः ॥ ग्र्ह्त्च्म्_18.64-67:9 ॥
एवं कृते सति अक्षीणं अक्षयं दिव्यं प्रवरं देवयोग्यं देवा इन्द्रादयस्तद्योग्यं कनकं भवति ॥ ग्र्ह्त्च्म्_18.64-67:10 ॥
युक्तोऽयमर्थः ॥ ग्र्ह्त्च्म्_18.64-67:11 ॥
एवं जारितसूते जारितकर्मकृते रसे खलु निश्चितं सर्वा हण्डिकाः सर्वे धात्वाद्याः सकलाः सप्रसवाः स्युरित्यर्थः ॥ ग्र्ह्त्च्म्_18.64-67:12 ॥
स्तर्त् ग्र्ह्त् 18.68
<रेलतिओन् बेत्wएएन् बीज अन्द् गोल्द् (?)>
निर्बीजं समजीर्णे पादैकेनैव षोडशांशेन ।
अर्धेन पादयोगं पादेनैकेन तुल्यकनकं च
*चोम्म्. मुग्धावबोधिनी:
विशेषमाह निर्बीजमित्यादि ॥ ग्र्ह्त्च्म्_18.68:1 ॥
निर्बीजं यथा स्यात्तथा समजीर्णं पादेन तुर्यांशेन फलं ददाति तथा अर्धेन जीर्णेन षोडशांशेन फलं ददाति च पुनस्तदर्धेन जीर्णेन तत्पादयोगं तत्पादेन एकेन तत्पादयोगं फलं ददातीति सर्वत्र वाच्यम् ॥ ग्र्ह्त्च्म्_18.68:2 ॥
तुल्यकनकं च जीर्णं पूर्णं फलं ददातीति ॥ ग्र्ह्त्च्म्_18.68:3 ॥
स्तर्त् ग्र्ह्त् 18.69
<ताराकृष्टि>
ताराकृष्टिं वक्ष्ये मृतवङ्गं तालकेन तुल्यांशम् ।
लम्बितमथ निर्ध्मातं ताम्रं तारछविं वहति
*चोम्म्. मुग्धावबोधिनी:
हेमाकृष्ट्यनन्तरं ताराकृष्टिं वक्ष्ये अहं कविः कथयामि मृतवङ्गं मारितं वङ्गं तालकेन हरितालेनेति ॥ ग्र्ह्त्च्म्_18.69:1 ॥
अथ ताम्रं तुल्यांशं लम्बितं विस्तीर्णं यथा स्यात् तथा निर्ध्मातं सत् तारछविं वहति रूप्यद्युतिं प्राप्नोतीत्यर्थः ॥ ग्र्ह्त्च्म्_18.69:2 ॥
स्तर्त् ग्र्ह्त् 18.70
पश्चान्नागं देयं प्रकाशमूषासु निर्मलं यावत् ।
तावद् ध्मातं विधिना सुनिर्मलं निस्तरङ्गं तु
*चोम्म्. मुग्धावबोधिनी:
तच्चाह पश्चादित्यादि ॥ ग्र्ह्त्च्म्_18.70:1 ॥
पश्चाद्वङ्गताम्रयोगानन्तरं प्रकाशमूषासु यावत् निर्मलं मलवर्जितं स्यात्तावन्नागं देयं पुनर्यावन्निर्मलम् उज्ज्वलं निस्तरङ्गं नागोर्मिवर्जितं स्यात् तावद्विधिना ध्मातं कुर्यादित्यर्थः ॥ ग्र्ह्त्च्म्_18.70:2 ॥
स्तर्त् ग्र्ह्त् 18.71-72
<??>
तालशिलासर्जिकाभिः सैन्धवलवणेन नयनहितसहितैः ।
एकैकं सहितं वा वेधं दत्त्वा पुनः शुल्बे
छगणं माहिषतक्रं स्नुहीक्षीरेण सर्पिषा क्रमशः ।
सगुडदुग्धमधुविमिश्रैः क्रमशो वेधे निषेकश्च
*चोम्म्. मुग्धावबोधिनी:
विशेषमाह तालेत्यादि ॥ ग्र्ह्त्च्म्_18.71-72:1 ॥
तालं हरितालं शिला मनोह्वा सर्जिका प्रतीता ताभिः सैन्धवं च तत् लवणं च तेन नयनहितसहितैः एतैः कृत्वा एकैकं पृथक्त्वेन वा सहितम् एकत्वेन पुनः शुल्वे ताम्रे वेधं प्रतिदध्यादिति ॥ ग्र्ह्त्च्म्_18.71-72:2 ॥
तारवेधनिषेकान्याह छगणम् इत्यादि ॥ ग्र्ह्त्च्म्_18.71-72:3 ॥
छगणं वनोत्पन्नं माहिषं तक्रं महिष्याः इदं माहिषं स्नुहिक्षीरेण सेहुण्डदुग्धेन सह पुनः सर्पिषा घृतेन सह गुडदुग्धमधुभिर् मिश्रैः मिलितं कृत्वा क्रमशो वेधकर्मणि निषेकः कार्यः ॥ ग्र्ह्त्च्म्_18.71-72:4 ॥
स्तर्त् ग्र्ह्त् 18.73
<तारकृष्टी; चोप्पेर् => सिल्वेर्>
काञ्ची ब्राह्मी कुटिलं तालकं समभागयोजितं ध्मातम् ।
शुल्बं विद्धमनेन तु ताराकृष्टिर्भवेद्दिव्या
*चोम्म्. मुग्धावबोधिनी:
ताराकृष्टिमाह काञ्चीत्यादि ॥ ग्र्ह्त्च्म्_18.73:1 ॥
काञ्ची स्वर्णमाक्षिकं ब्राह्मी सोमाह्वा कुटिलं सीसं तालकं प्रतीतं एतत्समयोजितं समांशमेलितं सत् ध्मातं कुर्यात् पुनरनेन काञ्च्यादिगणेन विद्धं शुल्बं दिव्या मनोरमा ताराकृष्टिर्भवेत् ॥ ग्र्ह्त्च्म्_18.73:2 ॥
स्तर्त् ग्र्ह्त् 18.74-75
<सिल्वेर्:: ओप्तिमिzअतिओन्>
एवं ताराकृष्टिर्लिप्त्वा विद्धा रसेन सारितेन ।
तारं करोति विमलं लेपं वा पादजीर्णादि
इति मिश्रीकृतविद्धं क्रमितं त्वथ मातृकातुल्यम् ।
तारदलं भवति छेदनताडननिकषैश्च निर्दोषम्
*चोम्म्. मुग्धावबोधिनी:
ताराकृष्टिमाह एवमित्यादि ॥ ग्र्ह्त्च्म्_18.74-75:1 ॥
एवं उक्तविधानेन सारितेन सारणाकर्मकृतेन लिप्त्वा विद्धा सती ताराकृष्टिर्भवेत् ॥ ग्र्ह्त्च्म्_18.74-75:2 ॥
पुनरियं ताराकृष्टिः तारं विमलं मलवर्जितं करोति वा पादजीर्णादि पादेन जीर्णं यस्मिन् आदिशब्दाद् अर्धसमग्रहणं कार्यं तत् लेपमिति ॥ ग्र्ह्त्च्म्_18.74-75:3 ॥
विशेषमाह इतीत्यादि ॥ ग्र्ह्त्च्म्_18.74-75:4 ॥
इति पूर्वोक्तविधानेन मिश्रीकृतं मिलितं विद्धं क्रमितं मातृकातुल्यं समांशं सत् तारदलं रूप्यपत्रं भवति तद्रूप्यदलं छेदनताडननिकषैः छेदनं खण्डनं ताडनं घनघातः निकषं शिलोपरि परीक्षणं तैरिति तापैश्च निर्दोषं तद्भवति ॥ ग्र्ह्त्च्म्_18.74-75:5 ॥
स्तर्त् ग्र्ह्त् 18.76
एवं वेधविधानं शास्त्रविधिज्ञेन कर्मकुशलेन ।
ज्ञात्वा गुरूपदेशं कर्तव्यं कर्मनिपुणेन
मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0