रसहृदयतन्त्र (टीका सहित) · अध्याय 17
इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयतन्त्रे सारणात्मकः षोडशोऽवबोधः ॥
*चोम्म्. मुग्धावबोधिनी:
पुनर्विशेषमाह विध्येदित्यादि ॥ ग्र्ह्त्च्म्_16.36:1 ॥
कनकं हेम दत्त्वा शनकैर् नीचैस् तावदनुवाहयेत् यावद्दिव्यं प्रवरं कनकं भवेदिति शेषः ॥ ग्र्ह्त्च्म्_16.36:2 ॥
पुनर्यावत्सकलं समस्तं नागं प्रोन्मीलयेन्निःशेषं कुर्यादित्यभिप्रायः ॥ ग्र्ह्त्च्म्_16.36:3 ॥
पुनस्तत्कनकं द्विगुणं स्वतो द्रव्यं विध्येत् वा सूतकेन सारितं सत् द्रव्यं कनकं शतसहस्रादिसंख्यातो द्विगुणसंख्याकं द्रव्यं शुल्बादिकं विध्येद् इति रहस्यम् ॥ ग्र्ह्त्च्म्_16.36:4 ॥
स्तर्त् ग्र्ह्त् 17.1
इति कृतसारणविधिरपि बलवानपि सूतराट् क्रियायोगात् ।
संवेष्ट्य तिष्ठति लोहं नो विशति क्रामणारहितः
*चोम्म्. मुग्धावबोधिनी:
सुसंस्कृता मुखान्तःस्था विशदाश्च हितार्थकाः ।
तथा परोचिताः पूता भवन्त्यमरजा गिरः ॥ ग्र्ह्त्च्म्_17.1:1 ॥
अथ क्रामणप्रशंसाम् आह इतीत्यादि ॥ ग्र्ह्त्च्म्_17.1:2 ॥
उक्तविधानेन कृतः सारणस्य विधिर् यस्मिन् सूतराजे एवंविधिः सूतराट् बलवान् भवेदिति शेषः ॥ ग्र्ह्त्च्म्_17.1:3 ॥
कुतः क्रियायोगात् कृत्यकरणात् ॥ ग्र्ह्त्च्म्_17.1:4 ॥
यादृक् कृत्यं क्रियते तादृक् बलवान् स्याद् इत्यभिप्रायः ॥ ग्र्ह्त्च्म्_17.1:5 ॥
एवंविधोऽपि क्रामणारहितः क्रामणवर्जितो लोहं न विशति लोहान्तःप्रवेशं न करोति ततो हेतोर् लोहं धातुं संवेष्ट्य परिवेष्टनं कृत्वा तिष्ठति बाह्यरागदायी स्यादिति ॥ ग्र्ह्त्च्म्_17.1:6 ॥
स्तर्त् ग्र्ह्त् 17.2
अन्नं वा द्रव्यं वा यथानुपानेन धातुषु क्रमते ।
एवं क्रामणयोगाद्रसराजो विशति लोहेषु
*चोम्म्. मुग्धावबोधिनी:
देहलोहयोः सादृश्यमाह अन्नमित्यादि ॥ ग्र्ह्त्च्म्_17.2:1 ॥
यथेति सादृश्ये ॥ ग्र्ह्त्च्म्_17.2:2 ॥
अन्नं गोधूमादिकं वा द्रव्यं औषधं अनुपानेन सह जलादिना सार्धं धातुषु मांसादिषु सप्तसु क्रमते व्याप्नोति तथा अमुना वक्ष्यमाणविधानेन क्रामणयोगात् क्रामणाय योगः कुनटीमाक्षिकविषादिस् ततः सूतराजो लोहरूप्यादिषु विशति बाह्याभ्यन्तरं विध्यतीत्यर्थः ॥ ग्र्ह्त्च्म्_17.2:3 ॥
स्तर्त् ग्र्ह्त् 17.3-5
<क्रामणयोग (1)>
कान्तविषरसकदरदै रक्तैलेन्द्रगोपिकाद्यैश्च ।
क्रामणमेतच्छ्रेष्ठं लेपे क्षेपे सदा योज्यम्
<क्रामणयोग (2)>
कुनटीमाक्षिकविषं नररुधिरं वायसस्य विष्ठा च ।
महिषीणां कर्णमलं स्त्रीक्षीरं क्रामणे बलकृत्
<क्रामणयोग (3)>
टङ्कणकुनटीरामठभूमिलतासंयुतं महारुधिरम् ।
क्रामणमेतत्कथितं लेपे क्षेपे सदा योज्यम्
*चोम्म्. मुग्धावबोधिनी:
क्रामणयोगमाह कान्तविषेत्यादि ॥ ग्र्ह्त्च्म्_17.3-5:1 ॥
कान्तं चुम्बकं विषं कन्दजं विषं कन्दविषाणि कालकूटादीनि त्रयोदश दरदं हिङ्गुलं तैः च पुनः रक्ततैलेन्द्रगोपाद्यैः रक्तो रक्तकवर्गः तैलं कङ्गुण्यादेः इन्द्रगोपो जीवविशेषः इत्याद्याः क्रामणोचितास् तच्च ॥ ग्र्ह्त्च्म्_17.3-5:2 ॥
एतत् श्रेष्ठं सर्वोत्तमं क्रामणं अनेन सूतः क्रामति विशति लोहेष्विति व्याप्तिः तत्क्रामणं कथितम् ॥ ग्र्ह्त्च्म्_17.3-5:3 ॥
तल्लेपे क्षेपे च योज्यमित्यर्थः ॥ ग्र्ह्त्च्म्_17.3-5:4 ॥
स्तर्त् ग्र्ह्त् 17.6
<क्रामणयोग (4): füर् गोल्द्-।सिल्बेर्हेर्स्तेल्लुन्ग्>
शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन ।
क्रमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम्
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह शिलयेत्यादि ॥ ग्र्ह्त्च्म्_17.6:1 ॥
नागः सीसकः शिलया मनोह्वया निहतो मारितः पुनः वङ्गं शुद्धेन दोषवर्जितेन तालेन निहतं क्रमशः क्रमेण पीते हेमकर्मणि शुक्ले रूप्यकर्मणि एतत्क्रामणं समुद्दिष्टं सम्यक् प्रकाशितं पीतकर्मणि नागः शुक्लकर्मणि वङ्गं च नियोजितव्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_17.6:2 ॥
स्तर्त् ग्र्ह्त् 17.7
<क्रामण>
तीक्ष्णं दरदेन हतं शुल्बं वा ताप्यमारितं विधिना ।
क्रामणमेतत्कथितं कान्तमुखं माक्षिकैर्वापि
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह तीक्ष्णमित्यादि ॥ ग्र्ह्त्च्म्_17.7:1 ॥
दरदेन हिङ्गुलेन हतं मारितं तीक्ष्णं सारो विधिना अरिवर्गविधानेन ताप्येन स्वर्णमाक्षिकेन मारितं शुल्बं ताम्रं एतदपि क्रामणं कथितं वा कान्तमुखं कान्तं लोहजाति उक्तं ग्रन्थादौ तत् मुखं प्रधानं यस्य तत् माक्षिकैर्वा मारितं नियोज्यं इति शेषः ॥ ग्र्ह्त्च्म्_17.7:2 ॥
स्तर्त् ग्र्ह्त् 17.8
माक्षिकसत्त्वं नागं विहाय न क्रामणं किमप्यस्ति ।
दलसिद्धे रससिद्धे विधावसौ भवति खलु सफलः
मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0