भाषा

ENहिગુ
ग्रंथ पाठ

रसहृदयतन्त्र (टीका सहित) · अध्याय 19

19.1

*चोम्म्. मुग्धावबोधिनी:
एवं अमुना प्रकारेण शास्त्रविधिज्ञेन शास्त्रस्य विधिं जानातीति सः तेन कर्मनिपुणेन संस्कारप्रवीणेन कुशलेन कर्त्रा गुरूपदेशं गुरुरुक्तलक्षणो ग्रन्थादौ तस्य उपदेशं ज्ञात्वा वेधविधानं कर्तव्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_18.76:1 ॥
स्तर्त् ग्र्ह्त् 19.1
इति रसराजस्य विधौ वेधविधानं प्रसंगतः प्रोक्तम् ।
अधुना प्रोक्तानपि वक्ष्यामि रसायने योगान्

19.2

*चोम्म्. मुग्धावबोधिनी:
अथ भक्षणविधानमाह इतीत्यादि ॥ ग्र्ह्त्च्म्_19.1:1 ॥
रसराजस्य विधौ रसेन्द्रकर्मविधाने वेधविधानं प्रसङ्गतः प्रस्तावतः प्रोक्तं न तु स्वप्रज्ञासमम् ॥ ग्र्ह्त्च्म्_19.1:2 ॥
अधुना प्रोक्तानपि अपि शब्दादनुभूतानपि रसायने जराव्याधिनाशनविधौ योगान् द्रव्यसमुदायात्कान् वक्ष्यामि कथयामीत्यर्थः ॥ ग्र्ह्त्च्म्_19.1:3 ॥
स्तर्त् ग्र्ह्त् 19.2-4
<क्षेत्रीकरण (शरीरशोधन)>
आदौ प्रातः प्रातः सैन्धवयुक्तं घृतं पिबेत्त्रिदिनम् ।
तदनु क्वाथं त्रिदिनं युञ्जीयात् केतकीतनुजम्

19.3

विधिना स्वेद्यो देहः कर्तव्यो वार्तिकेन्द्रेण ।
क्वथितं कटुरोहिण्याः संशोधनम् अनुप्रयुञ्जीत

19.4

तदनु च शुद्धादूर्ध्वं श्लेष्मान्ते रेचिते सकलम् ।
यावकपथ्यं त्रिदिनं घृतसहितं तत्प्रयुञ्जीत

19.5

*चोम्म्. मुग्धावबोधिनी:
कायशोधनमाह आदावित्यादि ॥ ग्र्ह्त्च्म्_19.2-4:1 ॥
प्रथमं प्रातः प्रातः प्रत्यूषे त्रिदिनं सैन्धवमिलितं घृतम् आज्यं पिबेत् ॥ ग्र्ह्त्च्म्_19.2-4:2 ॥
अन्यसंयोगमाह तदनु घृतसैन्धवानन्तरं केतकीतनुजं क्वाथं केतक्याः तनुः शरीरं तस्माज्जातं केतकीमूलसंभवम् इत्यर्थः अङ्गेऽप्यनुक्ते विहितं तु मूलं इति न्यायात् त्रिदिनं प्रयुञ्जीयादित्यर्थः ॥ ग्र्ह्त्च्म्_19.2-4:3 ॥
विध्यन्तरम् आह विधिनेत्यादि ॥ ग्र्ह्त्च्म्_19.2-4:4 ॥
ततो विधिना स्वेदविधानेन देहः शरीरं वार्तिकेन्द्रेण रससंप्रदायविदा स्वेद्यः स्विन्नः कर्तव्यः ॥ ग्र्ह्त्च्म्_19.2-4:5 ॥
अन्यत्किं कटुरोहिण्याः तिक्तायाः क्वथितं प्रसाधितं सम्यक् शुद्धिकरणं अनुप्रयुञ्जीत स्वेदानन्तरम् इत्यभिप्रायः ॥ ग्र्ह्त्च्म्_19.2-4:6 ॥
विध्यन्तरमाह तद् इत्यादि ॥ ग्र्ह्त्च्म्_19.2-4:7 ॥
तदनु कटुकरोहिणीसेवनानन्तरं शुद्धाद् ऊर्ध्वं यथा स्यात् तथा श्लेष्मान्तरेचिते सति यथा श्लेष्मणोऽन्तः स्यात्तथा रेचिते सति त्रिदिनपरिमाणं यावकपथ्यं घृतसहितं प्रयुञ्जीतेति ॥ ग्र्ह्त्च्म्_19.2-4:8 ॥
स्तर्त् ग्र्ह्त् 19.5-7
पुनरपि च पानयोगं वक्ष्यामि च सकलभुवनहितकृतये ।
पीत्वा प्रथमे यामे चोष्णोदकसममिदं चूर्णम्

19.6

पथ्यासैन्धवधात्रीमरिचवचागुडविडङ्गरजनीनाम् ।
शुण्ठीपिप्पल्योर् अपि चूर्णं त्रिदिनं प्रयुञ्जीत

19.7

अमुना शुद्धशरीरः परिहतसंसर्गदोषबली ।
पीत्वा पयसा सहितं यावकममुना भवेच्छुद्धः

19.8

*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह पुनरपीत्यादि ॥ ग्र्ह्त्च्म्_19.5-7:1 ॥
पुनरपीति यावकपथ्ययोगानन्तरं च पुनः पानयोगं वक्ष्यामि किमर्थं सकलभुवनहितकृतये समस्तसंसारहितकरणाय इदं वक्ष्यमाणं चूर्णं पथ्याद्यं उष्णोदकसमं तप्तजलेन सह प्रथमयामे प्रथमप्रहरान्तः पीत्वा शुद्धशरीरो भवेद् इत्यागामिश्लोकसंबन्धात् ॥ ग्र्ह्त्च्म्_19.5-7:2 ॥
शोधनाय चूर्णमाह पथ्येत्यादि ॥ ग्र्ह्त्च्म्_19.5-7:3 ॥
पथ्या हरीतकी सैन्धवं प्रतीतं धात्री आमलकं मरीचम् ऊषणं वचा उग्रगन्धा गुडः प्रतीतः विडङ्गं कृमिघ्नं रजनी हरिद्रा शुण्ठीपिप्पल्योर् अपीति शुण्ठी नागरं पिप्पली मागधी आसां औषधीनां चूर्णं त्रिदिनं प्रयुञ्जीत ॥ ग्र्ह्त्च्म्_19.5-7:4 ॥
उष्णजलसममिति ज्ञेयम् ॥ ग्र्ह्त्च्म्_19.5-7:5 ॥
अमुनेत्यादि ।
अमुना वक्ष्यमाणविरेचनेन यावकादिना शुद्धशरीरः सन् परिहतसंसर्गदोषबली भवति संसर्गेण ये दोषाः शरीराभ्यन्तरास्ते संसर्गदोषाः ते परिहता जिता येन सः परिहतसंसर्गदोषः तेन बली बलयुक्तः दोषनिवृत्तौ गुणप्रवृत्तिर् इत्यवश्यम् ॥ ग्र्ह्त्च्म्_19.5-7:6 ॥
किं कृत्वा परिहतदोषः अमुना पयसा उष्णोदकेन यावकं अलक्तं पीत्वा शुद्धो भवेदित्यर्थः ॥ ग्र्ह्त्च्म्_19.5-7:7 ॥
स्तर्त् ग्र्ह्त् 19.8
अकृतक्षेत्रीकरणे रसायनं यो नरः प्रयुञ्जीत ।
तस्य क्रामति न रसः स रसः सर्वाङ्गदोषकृद्भवति

19.9

*चोम्म्. मुग्धावबोधिनी:
संशोधनस्याकरणे दोषमाह अकृतेत्यादि ॥ ग्र्ह्त्च्म्_19.8:1 ॥
यो नरः पुमान् अकृतक्षेत्रीकरणे देहे इति शेषः न कृतं अकृतं क्षेत्रीकरणं यस्मिन् तस्मिन्सति रसायनं जराव्याधिविनाशनौषधं प्रयुञ्जीत तस्य पुंसो रसो न क्रामति स्वगुणान्न प्रकाशयति तर्हि किं सर्वाङ्गदोषकृद्भवति बाहुचरणादिषु षट्स्वङ्गेषु विकारकृत् स्यात् ॥ ग्र्ह्त्च्म्_19.8:2 ॥
स्तर्त् ग्र्ह्त् 19.9
इति शुद्धो जातबलः शाल्योदनयावकाख्यमुद्गरसः ।
क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं विधिवत्

19.10

*चोम्म्. मुग्धावबोधिनी:
रसायनाधिकारत्वम् आह इतीत्यादि ॥ ग्र्ह्त्च्म्_19.9:1 ॥
पूर्वोक्तविधानेन शुद्धः सन् यो जातबलो भवति स क्षेत्रीकृतनिजदेहः अक्षेत्रं क्षेत्रं क्रियत इति क्षेत्रीकृतो निजदेहः शरीरं येन सः मतिमान् रसायनं विधिवत्प्रकुर्वीत ॥ ग्र्ह्त्च्म्_19.9:2 ॥
कैः जातबलः शाल्योदनं च यावकाख्यं च मुद्गाश्च तैः ॥ ग्र्ह्त्च्म्_19.9:3 ॥
स्तर्त् ग्र्ह्त् 19.10-11
सुरतरुतैलघृतमधुधात्रीरसपयांसि निर्मथ्य ।
पीत्वा विशुद्धकोष्ठो भवति पुमानन्तरितशुद्धः

19.11

मासेन कान्तिमेधे द्वाभ्यां प्रशमयति दोषनिकरं च ।
मासत्रितयेन पुनः स्वादमरवपुर्महातेजाः

19.12

*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह सुरतर्वित्यादि ॥ ग्र्ह्त्च्म्_19.10-11:1 ॥
अन्तरितशुद्धः अन्तरितं शुद्धं यस्य सः ग्रहणीरोगादिवर्जित इत्यर्थः एतानि औषधानि निर्मथ्य पीत्वा विशुद्धकोष्ठो भवति विशुद्धं मलवर्जितं कोष्ठं उदरं कस्येत्येवंविधो भवति ॥ ग्र्ह्त्च्म्_19.10-11:2 ॥
तानि कानि सुरतरुतैलेत्यादीनि सुरतरुर् देववृक्षः तत्तैलपेषणं तैलमित्यर्थः घृतं आज्यं मधु क्षौद्रं धात्रीरसः आमलकीसलिलं पयो दुग्धं एतानि सर्वाणि निर्मथ्य एकीकृत्येत्यर्थः ॥ ग्र्ह्त्च्म्_19.10-11:3 ॥
एतदौषधभक्षणगुणं मासक्रमेणाह मासेनेत्यादि ॥ ग्र्ह्त्च्म्_19.10-11:4 ॥
अस्य औषधस्य मासेन मासप्रमाणेन भक्षणात् कान्तिर् भवति मेधा चेति द्वाभ्यां द्विमासाभ्यां दोषनिकरं गदसमुदायं प्रशमयति शान्तिं नयति पुनर्मासत्रितयेन त्रिमासप्रमाणेन स्वात् स्वसामान्यशरीरात् अमरवपुर्देवशरीरो महातेजाः दीप्तिमान् स्यादित्यर्थः ॥ ग्र्ह्त्च्म्_19.10-11:5 ॥
स्तर्त् ग्र्ह्त् 19.12
सुरदारुतैलमाज्यं त्रिफलारससंयुतं च समभागम् ।
पीतं तत् सप्ताहान्नयनविकारं शमं नयति

19.13

*चोम्म्. मुग्धावबोधिनी:
योगान्तरमाह सुरदार्वित्यादि ॥ ग्र्ह्त्च्म्_19.12:1 ॥
सुरदारुतैलं देवदारुतैलं आज्यं घृतं त्रिफलारससंयुतं त्रिफलाया रसेन द्रवेण संयुतं सहितं च पुनः समभागं तुल्यांशं तत्पीतं सत् सप्ताहात् सप्तदिनप्रमाणतः नयनविकारं नेत्रसंभवं रोगं शमं नयति शान्तिं प्रापयति ॥ ग्र्ह्त्च्म्_19.12:2 ॥
स्तर्त् ग्र्ह्त् 19.13
सुरतरुतैलं सघृतं पीत्वा शाल्योदनं च सक्षीरम् ।
जीर्णाहारे भुक्त्वा हरति हि सकुष्ठान् पीनसादींश्च

19.14

*चोम्म्. मुग्धावबोधिनी:
योगान्तरमाह सुरतरुतैलम् इत्यादि ॥ ग्र्ह्त्च्म्_19.13:1 ॥
देवदारुतैलं सघृतं साज्यं एतदुभयं पीत्वा सक्षीरं शाल्योदनं भुक्त्वा षष्टिकौदनम् इत्यभिप्रायः पुनर्जीर्णाहारे प्रतिदिनं दिनान्तवीरद्वये वेदितव्यम् ॥ ग्र्ह्त्च्म्_19.13:2 ॥
च पुनः सकुष्ठान् कुष्ठैः सह वर्तन्ते एवंविधान् पीनसादीन् रोगान् हरति दूरीकरोति ॥ ग्र्ह्त्च्म्_19.13:3 ॥
स्तर्त् ग्र्ह्त् 19.14
घृतसहितः पित्तकृतान्तैलयुक्तो वातसंभवान् रोगान् ।
गुडसहितो मधुना वा कफजान् हन्त्यमरदारुरसः

19.15

*चोम्म्. मुग्धावबोधिनी:
योगान्तरमाह घृतसहित इत्यादि ॥ ग्र्ह्त्च्म्_19.14:1 ॥
अमरदारुरसो देवदारुजलं घृतसहितं आज्यमिश्रितः पित्तकृतान् रोगान् हरति नाशयति ॥ ग्र्ह्त्च्म्_19.14:2 ॥
पुनस्तैलयुतस्तैलेन मिश्रितो देवदारुरसः वातसंभवान् रोगान् हन्ति ॥ ग्र्ह्त्च्म्_19.14:3 ॥
पुनर्गुडसहितः वा मधुना क्षौद्रेण सहितो देवदारुरसः वातसंभवान् रोगान् हन्ति ॥ ग्र्ह्त्च्म्_19.14:4 ॥
पुनर् गुडसहितः वा मधुना क्षौद्रेण सहितो देवदारुरसः कफजान् रोगान् हन्तीति वाक्यार्थः ॥ ग्र्ह्त्च्म्_19.14:5 ॥
स्तर्त् ग्र्ह्त् 19.15
वर्जितकांजिकशाकं पयसा शाल्योदनं च युञ्जीत ।
द्विचतुःषट्पलमानं मात्राधममध्यमज्येष्ठाः

19.16

*चोम्म्. मुग्धावबोधिनी:
रसायने भोज्याभोज्यमाह वर्जितेत्यादि ॥ ग्र्ह्त्च्म्_19.15:1 ॥
वर्जितकाञ्जिकशाकं वर्जितं काञ्जिकं सौवीरं शाकं वास्तुकादि च यस्मिन् तत्तथा पयसा क्षीरेण सह शाल्योदनं भुञ्जीत ॥ ग्र्ह्त्च्म्_19.15:2 ॥
पुनः शाल्योदनं कियन्मानं द्विचतुःषट्पलमानम् ॥ ग्र्ह्त्च्म्_19.15:3 ॥
अत्र मात्राधममध्यमज्येष्ठा द्विचतुःषट्पलप्रमाणा अधममध्यमोत्तमबलेषु प्रयोज्येत्यर्थः ॥ ग्र्ह्त्च्म्_19.15:4 ॥
स्तर्त् ग्र्ह्त् 19.16-19
तदनु पातनशुद्धं सूतकम् आरोटम् अश्नीयात् ।
स्वेदनमूर्च्छोत्थापनपातनरोधाश्च नियमश्च

19.17

अभ्रकसहितः पात्यो विधिना यावत्स्थिरो भवति ।
अथवा माक्षिकसहितः पात्यः सूतो विधानेन

19.18

इत्यारोटः सूतः क्षेत्रीकरणे नियुज्यते प्रथमम् ।
अथ रसयोगमाह तदित्यादि ॥ ग्र्ह्त्च्म्_19.16-18अब्:1 ॥
तदनु पथ्यमात्रोपयोगानन्तरं पातनशुद्धं पातनेन शुद्धं सूतकं आरोटम् एव सामान्यम् एवाश्नीयात् भक्षयेत् ॥ ग्र्ह्त्च्म्_19.16-18अब्:2 ॥
च पुनः स्वेदनमूर्छोत्थापनरोधाश्च स्वेदनं च मूर्छा च उत्थापनं च पातनानि च निरोधश्चेति द्वन्द्वः एते यद्यपि सन्ति नियमश्च यद्यप्यस्ति तथाप्यारोटः पातनेन स्याद् इत्यर्थः ॥ ग्र्ह्त्च्म्_19.16-18अब्:3 ॥
प्रसङ्गतः पातनमाह अभ्रकेत्यादि ॥ ग्र्ह्त्च्म्_19.16-18अब्:4 ॥
सूतः अभ्रकसहितः गगनमिलितः सन् पात्यः ॥ ग्र्ह्त्च्म्_19.16-18अब्:5 ॥
केन विधानेन डमरुकयन्त्रादिना ॥ ग्र्ह्त्च्म्_19.16-18अब्:6 ॥
पुनस्तावद्यावत्स्थिरो भवति ॥ ग्र्ह्त्च्म्_19.16-18अब्:7 ॥
अथवा विध्यन्तरे सूतो माक्षिकसहितः पात्यो विधानेन अयमपि यावत्स्थिरो भवति ॥ ग्र्ह्त्च्म्_19.16-18अब्:8 ॥
रसायने सूतस्य आरोटादिविधानमाह इतीत्यादि ॥ ग्र्ह्त्च्म्_19.16-18अब्:9 ॥
आरोट इति पूर्वोक्तेन पातनकर्मणा ऊर्ध्वाधस्तिर्यग्भवेन साधित आरोटः सः प्रथमं यथा स्यात्तथा रसायने जराव्याधिनाशने नियुज्यते इति ॥ ग्र्ह्त्च्म्_19.16-18अब्:10 ॥
अथवा कल्कयोगेन रसादिसम्भूतेन रसो भस्म कृत्वा ॥ ग्र्ह्त्च्म्_19.17:1 ॥
स्तर्त् ग्र्ह्त् 19.18-19
अथवा भस्म च कृत्वा बद्धो वा कल्कयोगेन

19.19

माक्षिकशिलाजतुलोहचूर्णपथ्याक्षविडङ्गघृतमधुभिः ।
संयुक्तं रसमादौ क्षेत्रीकरणाय युञ्जीत

19.20

*चोम्म्. मुग्धावबोधिनी:
द्विविधं भस्म ऊर्ध्वगं तलभस्म च वर्णभेदेन षड्विधं श्वेतं भस्म पीतं भस्म हरितं भस्म रक्तं भस्म कृष्णं भस्म कर्बुरं भस्म इति षड्विधं तत्कृत्वा क्षेत्रीकरणे नियुज्यते प्रथमम् ॥ ग्र्ह्त्च्म्_19.18च्द्-19:1 ॥
रसयोगमाह माक्षिकेत्यादि ॥ ग्र्ह्त्च्म्_19.18च्द्-19:2 ॥
माक्षिकं ताप्यं शिलाजतु प्रसिद्धं लोहचूर्णं मारितमुण्डस्य रजः पथ्या हरीतकी अक्षो विभीतकः विडङ्गं कृमिघ्नं घृतम् आज्यं मधु क्षौद्रं एतैः सम्प्रयुक्तं रसं क्षेत्रीकरणाय प्रयुञ्जीतेति वाक्यार्थः ॥ ग्र्ह्त्च्म्_19.18च्द्-19:3 ॥
स्तर्त् ग्र्ह्त् 19.20
इति कल्कीकृतसूतं घनकान्तमधुघृतादिसंयुक्तम् ।
भुक्त्वामरतां गच्छेत्क्षेत्रीकरणं प्रधानमिदम्

19.21

*चोम्म्. मुग्धावबोधिनी:
इत्युक्तविधानेन कल्कीकृतं सूतं भुक्त्वा अमरतां देवत्वं गच्छेत् ॥ ग्र्ह्त्च्म्_19.20:1 ॥
इति किं घनकान्तमधुघृतादिसंयुक्तं घनोऽभ्रकः कान्तं लोहजाति मधु क्षौद्रं घृतम् आज्यं आदिशब्दात् सिता ग्राह्या एतैः संयुक्तं सत् कल्कीकृतं इदं च प्रधानं क्षेत्रीकरणं क्षेत्री क्रियतेऽनेनेति ॥ ग्र्ह्त्च्म्_19.20:2 ॥
इत्यारोटक्रिया ॥ ग्र्ह्त्च्म्_19.20:3 ॥
स्तर्त् ग्र्ह्त् 19.21
अथ कृष्णं वा पीतं वा संयोज्यं घनं शिखिप्रभं बहुशः ।
सुरभीक्षीरनिषिक्तं गतगिरिदोषं रसायने योज्यम्

19.22

*चोम्म्. मुग्धावबोधिनी:
अथ पत्राभ्रक्रिया ॥ ग्र्ह्त्च्म्_19.21:1 ॥
कृष्णं श्यामवर्णं घनं अभ्रं पीतं पीतवर्णं घनं वा बहुशो नैकवारं शिखिप्रभं अग्निप्रभं सत् सुरभीक्षीरनिषिक्तं सेचितं कार्यं पुनर्गतगिरिदोषं यथा स्यात्तथा गता गिरिजा दोषा महीधरसंभवा दोषा यस्मात् तदेवं संशोधयित्वा तत् घनं रसायने जराव्याधिविनाशकरणे योज्यम् ॥ ग्र्ह्त्च्म्_19.21:2 ॥
स्तर्त् ग्र्ह्त् 19.22
निश्चन्द्रिकमपि शुद्धं विडंगत्रिफलाज्यमधुसमायुक्तम् ।
प्रतिदिवसं पलमेकं भुक्त्वा क्षीराशनो विधिना

19.23

*चोम्म्. मुग्धावबोधिनी:
अभ्रकयोगमाह निश्चन्द्रिकमित्यादि ॥ ग्र्ह्त्च्म्_19.22:1 ॥
घनं निश्चन्द्रिकमपि शुद्धं चन्द्रिकारहितमपि निर्दोषं विडङ्गत्रिफलाज्यमधुरसमायुक्तं कृमिघ्नहरीतकीविभीतकामलकघृतक्षौद्रमिलितं प्रतिदिवसं प्रतिदिनं एकपलप्रमाणं सर्वं भुक्त्वा विधिना शुद्धशरीरविधानेन क्षीराशनो भवेत् क्षीरेण सह शाल्योदनाशनं समाचरेदित्यर्थः ॥ ग्र्ह्त्च्म्_19.22:2 ॥
स्तर्त् ग्र्ह्त् 19.23
त्रिकटुकविडङ्गत्रिफलामाक्षिकशिलाजतुयुतं व्योम ।
क्षीरौदनम् अश्नीयाज्जीवति जन्तुः शतं वर्षम्

19.24

*चोम्म्. मुग्धावबोधिनी:
तच्चाह त्रिकटुकेत्यादि ॥ ग्र्ह्त्च्म्_19.23:1 ॥
व्योम अभ्रकं त्रिकटुकविडङ्गत्रिफलामाक्षिकशिलाजतुयुतं पिप्पलीमरिचनागरहरीतकीविभीतकामलकक्षौद्रशिलाजतुमिलितं अश्नीयाद् भक्षयेत् ॥ ग्र्ह्त्च्म्_19.23:2 ॥
पुनः क्षीरौदनं पथ्यमश्नीयात् ॥ ग्र्ह्त्च्म्_19.23:3 ॥
एव कृते सति जन्तुः शतं जीवति जन्तुजन्युशरीरिणः इत्यमरः ॥ ग्र्ह्त्च्म्_19.23:4 ॥
इति पत्राभ्रकप्रक्रिया ॥ ग्र्ह्त्च्म्_19.23:5 ॥
स्तर्त् ग्र्ह्त् 19.24
इत्येवमादयोऽन्ये काञ्जिकयुक्ताश्च कीर्तिता बहुशः ।
पत्राभ्रकप्रयोगा वर्ज्या निर्युक्तिकास्ते हि

19.25

*चोम्म्. मुग्धावबोधिनी:
अभ्रकस्योत्तरोत्तरं दर्शयन्नाह इतीत्यादि ॥ ग्र्ह्त्च्म्_19.24:1 ॥
इत्येवमादयः इति पूर्वोक्ता योगा आदयो येषां ते अन्ये काञ्जिकयुक्ताश्च काञ्जिकेनारनालेन युक्ताः योगीकृताः ग्रन्थान्तरे रसावतारादौ बहुशः कीर्तिताः कथिताः ते पत्राभ्रकयोगाः निर्युक्तिकाः निर्युक्ते भवा इक्प्रत्ययान्तास् ते वर्ज्याः सेवनेऽयोग्या इत्यर्थः ॥ ग्र्ह्त्च्म्_19.24:2 ॥
स्तर्त् ग्र्ह्त् 19.25
ये पत्राभ्रकयोगा रसायनार्थं कीर्तिता विधिना ।
अज्ञातद्रव्यगुणैस्तैरुपदिष्टो जरामृत्युः

19.26

*चोम्म्. मुग्धावबोधिनी:
अविधिना पत्राभ्रकयोगो विकारायेत्यत आह य इत्यादि ॥ ग्र्ह्त्च्म्_19.25:1 ॥
ये अज्ञातद्रव्यगुणैः अज्ञाता द्रव्याणां अभ्रादिनां गुणा यैस् तैर् एवंविधैः पुंभिः विधिना सामान्यविधानेन पत्राभ्रकयोगाः रसायनार्थं कीर्तितास् तैर् एव जरा मृत्युश्च उपदिष्टः जरा पालित्यं मृत्युर् व्याधिः ॥ ग्र्ह्त्च्म्_19.25:2 ॥
स्तर्त् ग्र्ह्त् 19.26
अप्राप्तलोकभावं घनोऽस्य जठराग्निमुपशमं नयति ।
अग्निं विनापि नश्यति परिभूतो विविधरोगगणैः

19.27

*चोम्म्. मुग्धावबोधिनी:
जरामृत्योरुपदेशे हेतुमाह अप्राप्तेत्यादि अप्राप्तलोकभवं यथा स्यात्तथा अस्य कर्तुः घनः ॥ ग्र्ह्त्च्म्_19.26:1 ॥
जठराग्निं विनापि पुमान् नश्यति नाशं प्राप्नोति ॥ ग्र्ह्त्च्म्_19.26:2 ॥
किंभूतः सन् विविधरोगगणैः नानारोगसमूहैः परिभूतो विजितः सन् इति वाक्यार्थः ॥ ग्र्ह्त्च्म्_19.26:3 ॥
काष्ठे स्थितम् अपि घनपटलमध्येऽपि अभ्रेऽभ्रसत्त्वं स्थितं तदाह अभ्रसत्वं घनसारं घनपटले स्थितमपि निजकार्यं स्वकीयकृत्यं तथा न कुरुते वह्निरग्निः ॥ ग्र्ह्त्च्म्_19.26:4 ॥
काष्ठे दारुणि स्थितः सन् निजकार्यं न कुरुते तु पुनः यथा घृतं पयसि दुग्धे स्थितं सत् स्वीकार्यं न कुरुते चाग्रहिर् इव धनस्थमिव मध्ये स्थितं कार्यं कुरुतेऽतिनिःसृतं सत् पृथग्भूतं सत् निजकार्यं कुरुत इति भावः ॥ ग्र्ह्त्च्म्_19.26:5 ॥
स्तर्त् ग्र्ह्त् 19.27
<अभ्र:: इनेदिब्ले>
अभ्रस्य रसायनिनां भक्ष्यमिह कीर्तितं परं सत्वम् ।
त्रिविधं गगनमभक्ष्यं काचः किट्टं च पत्त्ररजः

19.28

*चोम्म्. मुग्धावबोधिनी:
भक्ष्याभक्ष्यम् अभ्रमाह अभ्रस्येत्यादि ॥ ग्र्ह्त्च्म्_19.27:1 ॥
अभ्रकसत्वमिह क्षेत्रीकरणे रसायनिनां जराव्याधिविनाशेच्छूनां परम् उत्कृष्टं भक्ष्यं अशनयोग्यं कीर्तितम् ॥ ग्र्ह्त्च्म्_19.27:2 ॥
पुनस्त्रिविधं त्रिप्रकारं गगनमभ्रं अभक्ष्यं अभोज्यम् ॥ ग्र्ह्त्च्म्_19.27:3 ॥
किं तत् काचः काचरूपं किट्टं मलरूपं पत्त्ररजः सामान्याभ्रचूर्णं चेति त्रिविधमित्यर्थः ॥ ग्र्ह्त्च्म्_19.27:4 ॥
स्तर्त् ग्र्ह्त् 19.28-33
आदौ घनलोहरजस्त्रिफलारसभावनैश् च निर्घृष्टम् ।
कुर्वीताञ्जनसदृशं स्थगितवस्त्रेण सूर्यकरैः

19.29

इत्थं श्लक्ष्णं कृत्वा विविधकान्तलोहचूर्णसमम् ।
लोहघनं च तदेवं भृङ्गेण च साधयेद् बहुशः

19.30

त्रिफलाघृतमधुमिश्रितम् अमृतम् इदं मासस्थितं धान्ये ।
शस्त्रकटोरिकसम्पुटमध्यगतं पूजितं मन्त्रैः

19.31

मासेन तु तदुद्धृत्य ज्ञात्वा बलं तत्प्रयुञ्जीत ।
कान्तं विनाथ गगनं गगनं विना तथा च कान्तम्

19.32

स्थौल्यं पटलं काचं तिमिरार्बुदकर्णनादशूलानि ।
हन्त्यर्शांसि भगन्दरमेहप्लीहादि पालित्यम्

19.33

एतत्कुर्वन्मतिमान् गोरसमस्तुप्रधानम् अश्नीयात् ।
जाङ्गलमुद्गाज्यपयः शाल्योदनं ब्रह्मचर्येण

19.34

*चोम्म्. मुग्धावबोधिनी:
अधुना घनसत्त्वलोहसाधनम् आह आदावित्यादि ॥ ग्र्ह्त्च्म्_19.28-33:1 ॥
आदौ प्रथमं घनलोहरजः घनमभ्रसत्वं लोहरजः कान्तचूर्णं त्रिफलारसभावनैः हरीतकीविभीतकामलकद्रवपुटनैर् निर्घृष्टं सत् अञ्जनसदृशं सौवीराञ्जनतुल्यं कुर्वीत कैः कृत्वा सूर्यकरैः केन स्थगितवस्त्रेण आच्छादितपटेन वस्त्रेणाच्छाद्य सूर्यकरसन्निधौ धार्यमित्यर्थः ॥ ग्र्ह्त्च्म्_19.28-33:2 ॥
इत्थमित्यादि ॥ ग्र्ह्त्च्म्_19.28-33:3 ॥
इत्थममुना प्रकारेण श्लक्ष्णम् अञ्जनसन्निभं यथा स्यात् तथा घनसत्वकान्तं कृत्वा पुनर्लोहघनं लोहं मुण्डादि घनं अभ्रसत्वं एतदुभयं विविधकान्तलोहचूर्णसमं विविधा नानाजातयः अयस्कान्तभेदाः तेषां चूर्णं तत्समं कृत्वा भृङ्गेण च बहुशोऽनेकवारं साधयेद्भावयेदित्यर्थः ॥ ग्र्ह्त्च्म्_19.28-33:4 ॥
तच्चाह त्रिफलेत्यादि ॥ ग्र्ह्त्च्म्_19.28-33:5 ॥
तद्भृङ्गराजेन बहुशो भावितं घनसत्वकान्तं इदम् अमृतं सुधासमं न मृतममृतं तत् त्रिफलामधुघृतमिश्रितं हरीतकीविभीतकामलकघृतक्षौद्रमिलितं धान्ये कस्यचिदन्नस्यान्तः मासस्थितं कुर्यात् मासैकपरिमाणं तत्र विधातव्यमिति व्यक्तिः ॥ ग्र्ह्त्च्म्_19.28-33:6 ॥
किंविशिष्टं मन्त्रैश्च सम्पूजितम् ॥ ग्र्ह्त्च्म्_19.28-33:7 ॥
तथा मन्त्रस्तु ।
मन्दारमालाकुलितालकायै कपालमालाङ्कितशेखराय ।
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ।
इत्यादिभिः ॥ ग्र्ह्त्च्म्_19.28-33:8 ॥
तच्चाह मासेनेत्यादि ॥ ग्र्ह्त्च्म्_19.28-33:9 ॥
धान्यान्मासेन मासैकपरिमाणेनोद्धृत्य बहिर्नीत्वा पुनरपि बलं ज्ञात्वा प्रयुञ्जीत भोक्त्रे दद्यात् अथ विशेषं दर्शयति कान्तं विना अभ्रकसत्वमेव कृत्वा प्रयुञ्जीत च पुनर्गगनं विना कान्तं केवलं पूर्वविधानेन साधयित्वा प्रयुञ्जीतेत्यर्थः ॥ ग्र्ह्त्च्म्_19.28-33:10 ॥
फलमाह स्थौल्यम् इत्यादि ॥ ग्र्ह्त्च्म्_19.28-33:11 ॥
स्थौल्यमिति मेदोरोगः पटलकाचतिमिराणि नेत्ररोगाः अर्बुदं ग्रन्थिविशेषः कर्णनादः प्रतीतः शूलमष्टविधं एतानि हन्ति अर्शांसि गुदजानि भगन्दरमेहप्लीहादि भगन्दरः गुदव्रणं मेहः प्रमेहः बीजविकारः प्लीहा प्लीहरोगः एते रोगा आदिर्यस्य तत् हन्ति पालित्यं जरां च नाशयतीत्यर्थः ॥ ग्र्ह्त्च्म्_19.28-33:12 ॥
पथ्यम् आह एतदित्यादि ॥ ग्र्ह्त्च्म्_19.28-33:13 ॥
एतन्निष्पन्नौषधभक्षणं कुर्वन् मतिमान् पुरुषः गोरसमस्तुप्रधानं गोरसो गोदुग्धं मस्तु दधिमस्तु एवंप्रधानमन्नमश्नीयात् भुञ्जीत ॥ ग्र्ह्त्च्म्_19.28-33:14 ॥
पुनर्जाङ्गलमुद्गाज्यपयोऽश्नीयात् जाङ्गलस्येदं जाङ्गलं स्वल्पाम्बुशाखीदेशः जाङ्गलः मुद्गः प्रतीतोऽन्नविशेषः आज्यं घृतं पयो दुग्धं वा सलिलं यन्मुद्गाज्यपयः तच्चाश्नीयात् ॥ ग्र्ह्त्च्म्_19.28-33:15 ॥
च पुनः शाल्योदनमश्नीयात् ॥ ग्र्ह्त्च्म्_19.28-33:16 ॥
एतत्सर्वं ब्रह्मचर्येण कर्तव्यमित्यर्थः ॥ ग्र्ह्त्च्म्_19.28-33:17 ॥
इति सत्वाभ्रक्रिया ॥ ग्र्ह्त्च्म्_19.28-33:18 ॥
स्तर्त् ग्र्ह्त् 19.34
घनसत्वपादजीर्णः कान्तजीर्णो यत्तीक्ष्णसमजीर्णः ।
क्षेत्रीकरणः परमः प्रयुज्यतेऽपि पुनरारोटः

19.35

*चोम्म्. मुग्धावबोधिनी:
अथ जीर्णरसस्याधिक्यं दर्शयन्नाह घनेत्यादि ॥ ग्र्ह्त्च्म्_19.34:1 ॥
घनसत्वं पादप्रमाणं जीर्णं यस्मिन् सः ॥ ग्र्ह्त्च्म्_19.34:2 ॥
कान्तजीर्ण इति पादप्रमाणकान्तजीर्ण इत्यर्थः ॥ ग्र्ह्त्च्म्_19.34:3 ॥
पुनस्तीक्ष्णं समं जीर्णं यस्मिन्नेवंविधो रसः ॥ ग्र्ह्त्च्म्_19.34:4 ॥
क्षेत्रीकरणं प्रधानं सर्वत्रेत्यर्थः ।
बद्धो यः खोटतां यातो ध्मातो ध्मातः क्षयं व्रजेत् ।
खोटो बन्धः स विज्ञेयः शीघ्रं सर्वगदापहः ।
इति ग्रन्थान्तरे ॥ ग्र्ह्त्च्म्_19.34:5 ॥
स्तर्त् ग्र्ह्त् 19.35
घनसत्वकान्तसूतं मृतहेम शतावरीरसोपेतम् ।
घृतमधुलीढं वर्षान्निहन्ति मृत्युं जरां चैव

19.36

*चोम्म्. मुग्धावबोधिनी:
घनसत्वम् अभ्रसारः कान्तं चुम्बकोत्थं सूतो रसः एकवद्भावो द्वन्द्वसमासात् तथा मृतं हेम पञ्चत्वमाप्तं कनकं च एतच्चतुष्कं शतावरीरसोपेतं शतमूलीद्रवभावितं पुनर्घृतमधुलीढं घृतमधुभ्यां लीढं आस्वादितं सत् वर्षाद्वर्षपरिमाणात् मृत्युव्याधिं जरां च हन्ति नाशयतीत्यर्थः ॥ ग्र्ह्त्च्म्_19.35:1 ॥
स्तर्त् ग्र्ह्त् 19.36
एषामेकं योगं क्षेत्रीकरणार्थमादितः कृत्वा ।
संवत्सरमयनं वा निःश्रेयससिद्धये योज्यम्

19.37

*चोम्म्. मुग्धावबोधिनी:
विशेषमाह एषामित्यादि ॥ ग्र्ह्त्च्म्_19.36:1 ॥
एषां पूर्वोक्तानां योगानां मध्ये आदित आरम्भतः एकं योगं कृत्वा निःश्रेयसो मोक्षः तत्सिद्धये निष्पत्तये संवत्सरं वर्षपरिमाणं अयनं षण्मासपर्यन्तं योज्यं भोक्तृषु इति शेषः ॥ ग्र्ह्त्च्म्_19.36:2 ॥
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् इत्यमरः ॥ ग्र्ह्त्च्म्_19.36:3 ॥
स्तर्त् ग्र्ह्त् 19.37-38
अभ्रकसस्यकमाक्षिकरसकदरदविमलवज्रगिरिजतुभिः ।
वैक्रान्तकान्ततीक्ष्णैर् हाटकतारारताम्रैश्च

19.38

संयुक्तैर्व्यस्तैर्वा द्वित्रिचतुर्भिर् यथालाभम् ।
जीर्णहतो रसेन्द्रो रसायने शस्यते सद्भिः

19.39

*चोम्म्. मुग्धावबोधिनी:
बहून्निर्दिशन् विशेषमाह अभ्रकेत्यादि ॥ ग्र्ह्त्च्म्_19.37-38:1 ॥
अभ्रकः प्रसिद्धः सस्यकश् चपलः माक्षिकं ताप्यं रसकं खर्परं दरदं हिङ्गुलं विमलं सितमाक्षिकं वज्रकं हीरकं गिरिजतु शिलाजतु एतैः ॥ ग्र्ह्त्च्म्_19.37-38:2 ॥
पुनर् वैक्रान्तेत्यादि वैक्रान्तं वज्रभूमिजं रजः कान्तं लोहजाति तीक्ष्णं सारः एतैश्च ॥ ग्र्ह्त्च्म्_19.37-38:3 ॥
हाटकतारारताम्रैश् च हाटकं हेम तारं रूप्यं आरं राजरीतिः ताम्रं शुल्बं एतैश्च एतैर् उद्दिष्टैः अभ्रकादिताम्रान्तैः समस्तैर् एकत्रीकृतैर् व्यस्तैर्वा पृथक्कृतैर्वा यथालाभं लाभमनतिक्रम्य भवतीति यथालाभं द्वित्रिचतुर्भिर्वा अभ्राद्यैर्जीर्णहतो रसेन्द्रो जीर्णाभ्रादीनां हतिर्यस्मिन् स तथोक्तः रसायने जराव्याधिविनाशने रसशास्त्रमर्मज्ञैः शस्यते अभ्रादयः प्रशस्ता उक्ता इत्यर्थः ॥ ग्र्ह्त्च्म्_19.37-38:4 ॥
युग्मम् ॥ ग्र्ह्त्च्म्_19.37-38:5 ॥
वज्रादिभिर्हतः सूतो हतसूतसमोऽपरः ।
शृङ्खलाबद्धनामा स्याद्देहलोहविधायकः ।
अस्य प्रभावाद्वेगेन व्याप्तिर्भवति निश्चितम् ।
इति ग्रन्थान्तरे ॥ ग्र्ह्त्च्म्_19.37-38:6 ॥
स्तर्त् ग्र्ह्त् 19.39
विषनागवङ्गबद्धो भुक्तो हि रसः करोति कुष्ठादीन् ।
उपरसबद्धे तु रसे स्फुटन्ति भुक्ते तथाङ्गानि

19.40

*चोम्म्. मुग्धावबोधिनी:
कुत्सितविधानं दर्शयन्नाह विषेत्यादि ॥ ग्र्ह्त्च्म्_19.39:1 ॥
विषनागवङ्गबद्धो रसः विषं सक्तुकादिकं नागः सीसकः वङ्गं त्रपु एतैर्बद्धो बन्धनमाप्तः स भुक्तः सन् हि निश्चितं कुष्ठादीन् कुष्ठज्वरक्षयादीन् ॥ ग्र्ह्त्च्म्_19.39:2 ॥
उपरसबद्धे रसे उपरसैर् गन्धादिभिः अष्टभिः बद्धो बन्धनम् आपन्नो योऽसौ रसः तस्मिन् भुक्ते सति भोक्तुरङ्गानि हस्तपादादीनि स्फुटन्ति ॥ ग्र्ह्त्च्म्_19.39:3 ॥
स्तर्त् ग्र्ह्त् 19.40-41
घनसत्त्वकान्तकाञ्चीभास्करतीक्ष्णैश् च चीर्णजीर्णस्य ।
सूतस्य गुञ्जामात्रा माषकमेकं परा मात्रा

19.41

शतवेधिनो द्विगुञ्जा तथा सहस्रैकवेधिनो गुञ्जा ।
अर्धा च लक्षवेधिनः सिद्धार्थः कोटिवेधिनः सूतात्

19.42

*चोम्म्. मुग्धावबोधिनी:
जीर्णरसस्य मात्राम् आह घनेत्यादि ॥ ग्र्ह्त्च्म्_19.40-41:1 ॥
एतैश्चीर्णजीर्णं पूर्वं चीर्णं कवलितं पश्चाज्जीर्णं जारणम् आपन्नं तस्य सूतस्य गुञ्जा मात्रा भक्षणाय गुञ्जा यथा ।
षट्सर्षपैर् यवस्त्वेको गुञ्जैका तु यवैस्त्रिभिः ।
इति ॥ ग्र्ह्त्च्म्_19.40-41:2 ॥
परा अन्या मात्रा अन्यजीर्णसूतस्य मात्रा माषमेकं माषको यथा ।
गुञ्जाभिर्दशभिः प्रोक्तो माषको ब्रह्मणा पुरा ।
इति ॥ ग्र्ह्त्च्म्_19.40-41:3 ॥
एतैः कैः घनसत्त्वकान्तकाञ्चीभास्करतीक्ष्णैः अभ्रकसत्त्वचुम्बकताप्यताम्रसारैर् इति ॥ ग्र्ह्त्च्म्_19.40-41:4 ॥
अथ वेधविशेषेण परिमाणमाह शतेत्यादि ॥ ग्र्ह्त्च्म्_19.40-41:5 ॥
शतवेधिनः सूतस्य गुञ्जाप्रमाणा मात्रा ज्ञेया तथा तेन प्रकारेण सहस्रैकवेधिनः सूतस्यापि गुञ्जामानमेव लक्षवेधिनः सूतात् अर्धा रक्तिका पुनः कोटिवेधिनः सूतात् सिद्धार्थः सर्षपमाना ॥ ग्र्ह्त्च्म्_19.40-41:6 ॥
शतांशेन वेधो विद्यते यस्मिन् स शतवेधी तस्य शतवेधिनः ॥ ग्र्ह्त्च्म्_19.40-41:7 ॥
एवं सर्वत्र ज्ञेयम् ॥ ग्र्ह्त्च्म्_19.40-41:8 ॥
स्तर्त् ग्र्ह्त् 19.42
हेमनियोजितसूतं कान्तमणिं विविधगुटिकाश्च ।
जपहोमदेवतार्चननिरतः पुमानिति धारयेत्

19.43

*चोम्म्. मुग्धावबोधिनी:
जपः अघोरादिजपः होमस्तद्दशांशेन हवनं देवतार्चनं देवतानां गणेशविष्णुरविशिवचण्डीनां अर्चनं एतेषु निरतः सक्तः एवंविधिः पुमान् ॥ ग्र्ह्त्च्म्_19.42:1 ॥
इति किं हेमनियोजितसूतं धारयेत् हेम्ना सह नियोजितो मिश्रितो यः सूतः तं कान्तमणिः कान्तश्चासौ मणिश्च वा कान्तमणिः कान्तसंज्ञको मणिः च पुनः विविधगुटिकाः विविधाश्च ता गुटिकाश्चेति ॥ ग्र्ह्त्च्म्_19.42:2 ॥
स्तर्त् ग्र्ह्त् 19.43-44
शालेस्तु पिष्टकोद्भवभोजनम् आज्यं च मुद्गमांसरसैः ।
यवगोधूमान्नानि च गोक्षीरं मस्तु च विशेषात्

19.44

पाने जलमक्षारं मधुराणि यानि कानि शस्तानि ।
पेयं चातुर्जातकर्पूरामोदमुदितमुखम्

19.45

*चोम्म्. मुग्धावबोधिनी:
अथ पथ्यानाह शालेरित्यादि ॥ ग्र्ह्त्च्म्_19.43-44:1 ॥
शालेः षष्टिकादेः पिष्टोद्भवभोजनं पिष्टकोत्पन्नं च तद्भोजनं चेति ॥ ग्र्ह्त्च्म्_19.43-44:2 ॥
आज्यं घृतम् ॥ ग्र्ह्त्च्म्_19.43-44:3 ॥
कैः सह मुद्गमांसरसैः सह मुद्गाः प्रतीताः अत्र विशेषात् मांसानि भोज्यानि गोक्षीरं च भोज्यं पुनर्मस्तु गोरससंभवं विशेषात् भोज्यम् ॥ ग्र्ह्त्च्म्_19.43-44:4 ॥
पाने अक्षारं जलं मिष्टजलं प्रयोज्यं पुनः यानि कानि मिष्टानि द्रव्याणि अत्रानुक्ततमानि प्रशस्तानि श्रेष्ठानि पुनः चतुर्जातककर्पूरामोदमुदितमुखं यथा स्यात् तथा द्रव्यं पेयं पातव्यं चतुर्जातकं त्वक्पत्रैलानागकेसरं कर्पूरं घनसारं एषाम् आमोदेन परिमलेन मुदितं यन्मुखं वासितमुखम् इत्यर्थः ॥ ग्र्ह्त्च्म्_19.43-44:5 ॥
युवत्या जल्पनं कार्यं युवत्या चाङ्गमर्दनम् ।
तस्याः स्पर्शनमात्रेण देहे क्रमति सूतकः ।
इति विशेषो ग्रन्थान्तरात् ॥ ग्र्ह्त्च्म्_19.43-44:6 ॥
स्तर्त् ग्र्ह्त् 19.45
मद्यारनालपानं तैलं दधि वा रसे नेष्टम् ।
कटुतैलेनाभ्यङ्गं वपुषि न कुर्याद्रसायने मतिमान्

19.46

*चोम्म्. मुग्धावबोधिनी:
अपथ्यान्याह मद्येत्यादि ॥ ग्र्ह्त्च्म्_19.45:1 ॥
मद्यारनालेत्यादि मद्यं सुरा आरनालं काञ्जिकं तयोः पानं नेष्टं न प्रशस्तं वा तैलं दधि न नेष्टं तैलं तिलोद्भवं दधि दुग्धविकारः एतयोरपि पानं न प्रशस्तं कटुतैलेन सर्षपतैलेन वपुषि अभ्यङ्गं मर्दनं न कुर्यात् ॥ ग्र्ह्त्च्म्_19.45:2 ॥
मतिमान् रसायने अधिकरणे इत्यर्थः ॥ ग्र्ह्त्च्म्_19.45:3 ॥
स्तर्त् ग्र्ह्त् 19.46
दग्धम् अपक्वम् अमधुरम् उष्णं क्षीरं न नष्टमांसं तु ।
पर्युषितं फलमूलं भक्ष्यं नैवात्र निर्दिष्टम्

19.47

*चोम्म्. मुग्धावबोधिनी:
दग्धं द्रव्यं रसायने नेष्टं अपक्वं च नेष्टं अमधुरं कटुतिक्तकषायाम्ललवणं च नेष्टं उष्णं वह्नितप्तमिति तु पुनः नष्टमांसं निन्दितमांसं नेष्टं पुनः पर्युषितं संधानीकृतं एवंविधं फलमूलं फलं मूलं च अत्र रसायने भक्ष्यं न निर्दिष्टं कथितं ।
कूष्माण्डं कर्कटी चैव कलिङ्गं कारवेल्लकम् ।
कुसुम्भिका च कर्कोटी कदली काकमाचिका ।
ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः ।
इति ग्रन्थान्तरे ॥ ग्र्ह्त्च्म्_19.46:1 ॥
स्तर्त् ग्र्ह्त् 19.47
अथ लङ्घनं न कार्यं यामाधो भोजनं नैव ।
इत्यपनीय निषिद्धं रसराजे धीमता कार्यम्

19.48

*चोम्म्. मुग्धावबोधिनी:
अस्मिन् रसायने लङ्घनं न कार्यं पुनर् यामाधः प्रहरमध्ये भोजनं न कार्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_19.47:1 ॥
स्तर्त् ग्र्ह्त् 19.48
वर्जितचिन्ताकोपः कुर्याच्च सुखाम्बुना स्नानम् ।
नोच्चाटयेद् ग्रहज्वरराक्षसभूतानि मातृदेवींश्च

19.49

*चोम्म्. मुग्धावबोधिनी:
तच्चाह वर्जितेत्यादि ॥ ग्र्ह्त्च्म्_19.48:1 ॥
वर्जितचिन्ताकोप इति चिन्ता च कोपश्चेति चिन्ताकोपौ तौ वर्जितौ येन सः एवंविधः सन् सुखाम्बुना सुखोष्णाम्बुना स्नानं कुर्यात् ॥ ग्र्ह्त्च्म्_19.48:2 ॥
ग्रहराक्षसभूतानि नोच्चाटयेत् ग्रहणाद्ग्रहाः पिशाचादयः ज्वरो रोगराजः राक्षसाः क्रव्यादाः भूतानि देवयोनयः एतानि नोच्चाटयेत् स्वस्थानान्न चालयेत् ॥ ग्र्ह्त्च्म्_19.48:3 ॥
पुनर्मातृदेवींश्च मातरः सप्तमातरः देव्यो दक्षिण्यादयः ता अपि नोच्चाटयेत् ॥ ग्र्ह्त्च्म्_19.48:4 ॥
स्तर्त् ग्र्ह्त् 19.49
परमे ब्रह्मणि लीनः प्रशान्तचित्तः समत्वमापन्नः ।
आश्वासयन् त्रिवर्गं विजित्य रसानन्दपरितृप्तः

19.50

*चोम्म्. मुग्धावबोधिनी:
चिन्ताकोपनिरोधे हेतुम् आह परमे इत्यादि ॥ ग्र्ह्त्च्म्_19.49:1 ॥
रसायनकर्ता परमे ब्रह्मणि चित्स्वरूपे लीनः तन्मयतां प्राप्तो भवेत् प्रशान्तचित्तश्च विषयेभ्यो निवृत्तमना भवेत् समत्वमापन्नः स्वसुते शत्रौ च निर्वैरो यथा स्यात् तथा त्रिवर्गं धर्मार्थकामरूपं विजित्य रसानन्दपरितृप्तो भवेत् हर्षपरिपूरित इत्यर्थः ॥ ग्र्ह्त्च्म्_19.49:2 ॥
स्तर्त् ग्र्ह्त् 19.50
यस्त्यक्त्वा शास्त्रविधिं प्रवर्तते स्वेच्छया रसे मूढः ।
तस्य विरुद्धाचाराद् अजीर्णमुत्पद्यते नितराम्

19.51

*चोम्म्. मुग्धावबोधिनी:
विधेर्नियतत्वं दर्शयन्नाह य इत्यादि ॥ ग्र्ह्त्च्म्_19.50:1 ॥
यः पुमान् शास्त्रविधिं त्यक्त्वा स्वेच्छया उच्छृङ्खलमनसा रसे सूते प्रवर्तते स मूढः ज्ञानशून्यः तस्य पुंसः विरुद्धाचारात् नितरामतिशयेन अजीर्णम् उत्पद्यते तद्रसाजीर्णमिति ॥ ग्र्ह्त्च्म्_19.50:2 ॥
स्तर्त् ग्र्ह्त् 19.51
सम्भवतीहाजीर्णे निद्रालस्यं ज्वरस्तमो दाहः ।
नाभितलशूलमल्पं जडतारुचिरङ्गभङ्गश्च

19.52

*चोम्म्. मुग्धावबोधिनी:
रसाजीर्णलक्षणमाह सम्भवतीत्यादि ॥ ग्र्ह्त्च्म्_19.51:1 ॥
इह रसायने अजीर्णं यदा सम्भवति उत्पद्यते तदा एतानि लक्षणानि स्युः ॥ ग्र्ह्त्च्म्_19.51:2 ॥
निद्रा अतिशयेन निद्रा आलस्यं अङ्गाङ्गशैथिल्यं ज्वरः प्रसिद्धः तमो मूर्छा दाह ऊष्मा पुनर्नाभितले बस्तौ अल्पमल्पं शूलं जडतास्यस्य अरुचिः निरभिलापिता भङ्गोऽङ्गस्य अङ्गमर्दनं भोक्तुरेतानि लक्षणानि रसाजीर्णे स्युर् इत्यर्थः ॥ ग्र्ह्त्च्म्_19.51:3 ॥
स्तर्त् ग्र्ह्त् 19.52
ज्ञात्वेत्येवम् अजीर्णम् अस्य प्रच्छादनाय योगोऽयम् ।
कार्यो दिवसत्रितयं संत्यज्य रसायनं सुधिया

19.53

*चोम्म्. मुग्धावबोधिनी:
अजीर्णेऽप्युपायमाह ज्ञात्वेत्यादि ॥ ग्र्ह्त्च्म्_19.52:1 ॥
इत्येवम् उक्तप्रकारेण निद्रादिलक्षणेनाजीर्णं ज्ञात्वा धीमता पुंसा अस्याजीर्णस्य प्रच्छादनाय विनाशाय रसायनं संत्यज्य दिवसत्रितयं योगः कार्यः ॥ ग्र्ह्त्च्म्_19.52:2 ॥
स्तर्त् ग्र्ह्त् 19.53
कर्कोटीमूलरसं कषायम् अथ सिन्धुना पिबेत्त्रिदिनम् ।
सौवर्चलसहितं वा गोजलसहितं रसाजीर्णे

19.54

*चोम्म्. मुग्धावबोधिनी:
तच्चाह कर्कोटीत्यादि ॥ ग्र्ह्त्च्म्_19.53:1 ॥
कर्कोटीमूलरसं कर्कोटी या वल्ली तस्याः मूलरसं त्रिदिनं पिबेत् वाथ कषायं कथं सिन्धुना सैन्धवेन सहितं पिबेत् वा तत्क्वाथं गोजलसहितं गोमूत्रमिलितं रसाजीर्णे पिबेत् सौवर्चलसहितमिति सौवर्चलस्य प्रतिवापं कर्कोटीरसे निक्षिप्य पिबेत् त्रिदिनं सर्वत्रेत्यर्थः ॥ ग्र्ह्त्च्म्_19.53:2 ॥
स्तर्त् ग्र्ह्त् 19.54
पिष्ट्वाथ मातुलुङ्गीं पिबति रसं शुण्ठिसैन्धवं प्रातः ।
क्वथितं गोसलिलेन तु रक्षति सम्यक् रसाजीर्णम्

19.55

*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह पिष्ट्वेत्यादि ॥ ग्र्ह्त्च्म्_19.54:1 ॥
मातुलुङ्गस्येयं जटा मातुलुङ्गी तां पिष्ट्वा तस्या रसं शुण्ठी सैन्धवं च यः पुमान् प्रातः पिबति तु पुनः क्वथितं तस्याः कषायं गोसलिलेन यः पिबति रसाजीर्णे तं पुरुषं रक्षति न विनाशयतीत्यर्थः ॥ ग्र्ह्त्च्म्_19.54:2 ॥
स्तर्त् ग्र्ह्त् 19.55
कथमपि यच्चाज्ञानात् नागादिकलङ्कितो रसो भुक्तः ।
तन्नोदनाय च पिबेत् गोजलकटुकारवल्लिशिफाः

19.56

*चोम्म्. मुग्धावबोधिनी:
नागादियुक्तरसभुक्तोपायम् आह कथम् अपीत्यादि ॥ ग्र्ह्त्च्म्_19.55:1 ॥
च पुनः यत् यस्मात् नागादिकलङ्कितो रसः नागवङ्गसहितो रसोऽज्ञानात्कथमपि भुक्तः तन्नोदनाय तस्य नागवङ्गाङ्कितरसस्य नोदनाय गोजलकटुकारवल्लिशिफाः गोजलं गोमूत्रं कटुतिक्ता कारवल्लीशिफा कारवल्लीलतायाः शिफा जटा एतदौषधं पिबेत् तेन नागवङ्गादिदोषो विनश्यति ॥ ग्र्ह्त्च्म्_19.55:2 ॥
स्तर्त् ग्र्ह्त् 19.56
शरपुंखासुरदालीपटोलबिम्बीश्च काकमाची च ।
एकतमा चेदुदिता शृतामजीर्णे हि सेवेत

19.57

*चोम्म्. मुग्धावबोधिनी:
तच्चाह शरपुङ्खेत्यादि ॥ ग्र्ह्त्च्म्_19.56:1 ॥
आसां औषधीनां मध्ये एकतमा या उदिता कथिता शृता क्वथिता तां हि निश्चितं अजीर्णे सेवेत तेन अजीर्णं नश्यतीति भावः ॥ ग्र्ह्त्च्म्_19.56:2 ॥
ताः का औषध्यः शरपुङ्खा प्रसिद्धा सुरदाली देवदाली पटोलं प्रतीतं नाम बिम्बी गोला काकमाची प्रसिद्धा एता इत्यर्थः ॥ ग्र्ह्त्च्म्_19.56:3 ॥
स्तर्त् ग्र्ह्त् 19.57
अत्यम्ललवणकटुकै रससंस्रावो जरो भवति ।
अतिमधुरैश्च विनश्यति जठरवह्निः सततभुक्तैश्च

19.58

*चोम्म्. मुग्धावबोधिनी:
तच्चाह अत्यम्लेत्यादि ॥ ग्र्ह्त्च्म्_19.57:1 ॥
अत्यम्लं चुक्रादि अतिलवणं क्षारादि अतिकटुकं निम्बकटुकीत्यादि एतै रससंस्रावो जरो जारणकरो भवति जरतीति जरः ॥ ग्र्ह्त्च्म्_19.57:2 ॥
पुनरपि मधुरैः इक्षुरसादिभिः सततभुक्तैः जठरवह्निः कोष्ठाग्निः विनश्यति अभ्याश्रयो विनश्यतीत्यभिप्रायः ॥ ग्र्ह्त्च्म्_19.57:3 ॥
स्तर्त् ग्र्ह्त् 19.58
यः पुनरेवं सततं करोति मूढः समाहारम् ।
तस्य विनश्यत्यग्निर्न खलु क्रामति रसो भवेद् व्याधिः

19.59

*चोम्म्. मुग्धावबोधिनी:
तद्विशेषमाह य इत्यादि ॥ ग्र्ह्त्च्म्_19.58:1 ॥
यः पुनर् मूढो मूर्खो ऽजीर्णानन्तरं अत्यम्ललवणकटुकाहारं सततं निरन्तरं करोति तस्याग्निः कोष्ठाग्निर् विनश्यति रसश्च न क्रामति स्वगुणान्न प्रकाशयति ॥ ग्र्ह्त्च्म्_19.58:2 ॥
तर्हि किं भवेदित्याह व्याधिर्भवेद् इत्यर्थः ॥ ग्र्ह्त्च्म्_19.58:3 ॥
स्तर्त् ग्र्ह्त् 19.59
यस्तु महाग्निसहत्वाद् रसाच्छतसहस्रलक्षवेधीशः ।
अनया क्रियया सिध्यति स यत्नाद्रसक्रियायोगात्

19.60

*चोम्म्. मुग्धावबोधिनी:
रसाच्छतसहस्रलक्षवेधी भवेत् स यत्नात् अनया पूर्वोक्तक्रियया सिध्यति ॥ ग्र्ह्त्च्म्_19.59:1 ॥
स्तर्त् ग्र्ह्त् 19.60
शतसहस्रलक्षवेधी कोटिर् अथार्बुदनिर्बुदं वापि ।
पिष्टं भुञ्जीत रसं बलिसहितं सिद्धिदो भवति

19.61

*चोम्म्. मुग्धावबोधिनी:
अथोत्तरविधानेन लक्षणमाह शतेत्यादि ॥ ग्र्ह्त्च्म्_19.60:1 ॥
शतसहस्रलक्षवेधी रसः ॥ ग्र्ह्त्च्म्_19.60:2 ॥
बलिसहितं पिष्टं रसं भुञ्जीत बलिना गन्धकेन सहितम् शतादारभ्य सहस्रलक्षकोट्यर्बुदानां क्रमेण दशगुणोत्तरं संख्या ज्ञातव्या ॥ ग्र्ह्त्च्म्_19.60:3 ॥
एवं कृतः सन् रसः सिद्धिदो यथोक्तगुणकृद्भवतीत्यर्थः ॥ ग्र्ह्त्च्म्_19.60:4 ॥
स्तर्त् ग्र्ह्त् 19.61-64
क्रामति ततो हि सूतो जनयति पुत्रांश्च देवगर्भाभान् ।
स्त्रीषु च निश्चलकामो भवति वलीपलितनिर्मुक्तः

19.62

बुद्धिर्बलं प्रभावः सह चायुषा वर्धते रसायनिनः ।
प्राप्तस्य दिव्यबुद्धिं दिव्याश्च गुणाः प्रवर्धन्ते

19.63

एवं रससंसिद्धो दुःखजरामरणवर्जितो गुणवान् ।
खेगमनेन च नित्यं संचरते सकलभुवनेषु

19.64

दाता भुवनत्रितये स्रष्टा सोऽपीह पद्मयोनिरिव ।
भर्ता विष्णुरिव स्यात्संहर्ता रुद्रवद्भवति

19.65

*चोम्म्. मुग्धावबोधिनी:
पूर्वविधानं प्रशंसयन्न् आह क्रामतीत्यादि ॥ ग्र्ह्त्च्म्_19.61-64:1 ॥
ततः पूर्वविधानतः सूतः क्रामति स्वगुणान् प्रकाशयति सूते क्रामति सति देवगर्भाभान् पुत्रान् जनयति देवगर्भवत् आभा कान्तिर् येषां ते तान् पुनः स्त्रीषु निश्चलः सदास्थायी कामो रत्यभिलाषो वा मदनो यस्य स तथोक्तः पुनर् वलीपलितनिर्मुक्तः वल्यश्च पलितानि च तैर् निर्मुक्तो विवर्जितः वलिश्चर्म जराकृतं इत्यमरः पलितं केशश्वेतत्वं एवंविधो भवति पुमान् इति शेषः ॥ ग्र्ह्त्च्म्_19.61-64:2 ॥
पुनः किं स्यादित्याह बुद्धिरित्यादि ॥ ग्र्ह्त्च्म्_19.61-64:3 ॥
रसायनिनः रसायनं प्राप्तस्य हि पुंसः बुद्धिर्वर्धते बलं च वर्धते केन सह आयुषा जीवितकालेन सह पुनर् दिव्यबुद्धिं प्राप्तस्य रसायनिनः दिव्याः प्रकरणाद्गुणा मेधादयः प्रवर्धन्ते प्रकाशन्त इत्यर्थः ॥ ग्र्ह्त्च्म्_19.61-64:4 ॥
तच्चाह एवमित्यादि ॥ ग्र्ह्त्च्म्_19.61-64:5 ॥
एवममुना प्रकारेण रससंसिद्धः पुरुषः रसः पारदः संसिद्धः सम्यक् सिद्धो यस्य वा रसेन संसिद्धः जरामरणवर्जितो भवति वृद्धत्वव्याधिरहित इत्यर्थः गुणवांश्च भवति गुणा मेधादयः ॥ ग्र्ह्त्च्म्_19.61-64:6 ॥
पुनः खेगमनेन आकाशगमनेन नित्यं सकलभुवनेषु समस्तलोकेषु संचरते इत्यर्थः ॥ ग्र्ह्त्च्म्_19.61-64:7 ॥
दाता भुवनत्रितये स्वर्गमृत्युपाताले भवति सर्वाधिक इत्यभिप्रायः ॥ ग्र्ह्त्च्म्_19.61-64:8 ॥
सोऽपि पुमान् इह भुवनत्रितये स्वर्गमृत्युपाताले स्रष्टा सर्जको भवति ॥ ग्र्ह्त्च्म्_19.61-64:9 ॥
क इव पद्मयोनिरिव ब्रह्मेव ॥ ग्र्ह्त्च्म्_19.61-64:10 ॥
पुनः भर्ता पालनार्थं त्रिकस्य विष्णुरिव च भवति ॥ ग्र्ह्त्च्म्_19.61-64:11 ॥
पुनः संहर्ता रुद्रवत् भवति सृष्टिस्थितिविनाशेषु ब्रह्मादीनां त्रयीव स्यादित्यर्थः ॥ ग्र्ह्त्च्म्_19.61-64:12 ॥
स्तर्त् ग्र्ह्त् 19.65-66
<अमरसुन्दरीगुटिका>
कान्ताभ्रसत्त्वहेमतारं चार्कः समांशतः संख्या ।
बद्धं सूतसमांशं ध्मातं गोलं कृतं खोटम्

19.66

बाह्ये रसेन लिप्तं वदनगतं शस्त्रवारकं रोगान् ।
हन्ति हि शरीरसंस्थान् नाम्नामरसुन्दरी गुटिका

19.67

*चोम्म्. मुग्धावबोधिनी:
अमरसुन्दरीगुटिकाविधानं गुणांश्चाह कान्तेत्यादि ॥ ग्र्ह्त्च्म्_19.65-66:1 ॥
कान्तं चुम्बकं अभ्रं युग्मम् ॥ ग्र्ह्त्च्म्_19.65-66:2 ॥
अभ्रकसत्त्वं प्रतीतं हेम कनकं तारं च तत् एकवद्भावो द्वन्द्वत्वात् पुनरर्कः ताम्रम् एषां कान्तादीनां संख्या गणना समांशतः समभागतो ज्ञेया ॥ ग्र्ह्त्च्म्_19.65-66:3 ॥
पुनः सूतसमांशं पारदेन तुल्यभागं ध्मातं कुर्यात् अन्धमूषायां इति शेषः ॥ ग्र्ह्त्च्म्_19.65-66:4 ॥
किंकृतं सत् बाह्ये बद्धगोलोपरि रसेन मारणायाम् उक्तद्रवेण लिप्तं सत् ध्मातं कुर्यात् ॥ ग्र्ह्त्च्म्_19.65-66:5 ॥
इत्थं कृतं खोटं पिष्टिस्तम्भः गोलाकारं भवति ॥ ग्र्ह्त्च्म्_19.65-66:6 ॥
तत् वदनगतं मुखान्तःस्थितं शस्त्रवारकं स्यात् अस्मिंश्च वदनं गते सति शरीरे खड्गादीनां प्रहारो न लगति ॥ ग्र्ह्त्च्म्_19.65-66:7 ॥
गुटिर् इयं नाम्ना अभिधानेन अमरसुन्दरीगुटिका ज्ञेया ॥ ग्र्ह्त्च्म्_19.65-66:8 ॥
इयं शरीरस्था मुखे अन्यस्थले वा स्थिता सती शरीरस्थान् रोगान् हन्ति विनाशयति ॥ ग्र्ह्त्च्म्_19.65-66:9 ॥
अनुक्तमपि मानं पञ्चनिष्कप्रमाणं ज्ञेयमित्यर्थः ॥ ग्र्ह्त्च्म्_19.65-66:10 ॥
इत्यमरसुन्दरी गुटिका ॥ ग्र्ह्त्च्म्_19.65-66:11 ॥
हेम्ना वा रजतेन वापि सहितो ध्मातो व्रजत्येकतामक्षीणो निविडो गुडश्च गुटिकाः करोति दीर्घोज्ज्वलाः ॥ ग्र्ह्त्च्म्_19.65-66:12 ॥
चूर्णं तत्पटुवत्प्रयाति विहितघृष्टो न मुञ्चेन्मलं निर्गन्धो द्रवति क्षणात्स हि मतो बद्धाभिधानो रसः ।
इति ग्रन्थान्तरे ॥ ग्र्ह्त्च्म्_19.65-66:13 ॥
स्तर्त् ग्र्ह्त् 19.67-72
<मृतसंजीवनीगुटिका>
यः पूर्वोक्तः सूतो लक्षादूर्ध्वं च वेधते लोहान् ।
बद्धे सारणयोगैर् मुखास्थे च जारयेद्रत्नम्

19.68

युक्तः समांशनागैः सुरलोहायस्कान्तताप्यसत्त्वैश्च ।
अभ्रकसत्त्वसमेता गुटिका मृतसंजीवनी नाम

19.69

हेमयुता गुलुच्छके मुकुटे वा कण्ठसूत्रकर्णे वा ।
मृत्युभयशोकरोगविषशस्त्रजरासततदुःखसङ्घातम्

19.70

यस्याङ्गे निहितेयं गुटिका मृतसंजीवनी नाम ।
सोऽसुरयक्षकिन्नरपूज्यतमः सिद्धयोगीन्द्रैः

19.71

प्रक्षाल्य तोयमध्ये गुटिका घटिकाद्वयं ततः क्षिप्त्वा ।
तच्चेयं वदनगता मृतकस्योत्थापनं कुरुते

19.72

तोयं तदेव पिबति स्वस्थं पथ्यान्वितस्ततः पुरुषः ।
लभते दिव्यं स वपुर्मृत्युजरावर्जितः सुदृढम्

19.73

*चोम्म्. मुग्धावबोधिनी:
मृतसंजीवनीगुटिकाविधानं गुणांश्चाह य इत्यादि ॥ ग्र्ह्त्च्म्_19.67-72:1 ॥
यः पूर्वोक्तः सूतो लक्षादूर्ध्वं कोट्यर्बुदादि लोहान् रूप्यादीन् वेधते तस्मिन्बद्धे सूते मुखस्थे प्रकाशमुखयन्त्रे स्थापिते सारणयोगैः सारणतैलादिभिः रत्नं वज्रादिकं जारयेत् ॥ ग्र्ह्त्च्म्_19.67-72:2 ॥
पुनः समांशनागैस् तुल्यांशसीसकैः सूतो युक्तः कार्यः सुरलोहायस्कान्तताप्यसत्त्वैश्च युक्तः कार्यः सुरलोहं कनकं अयस्कान्तः कान्तलोहं ताप्यसत्त्वं माक्षिकसारं एतैः अभ्रकसत्त्वसमेता सती मृतसंजीवनी नाम गुटिका भवति पुनस्तत्र मूषायामियं हेमयुता कार्या ॥ ग्र्ह्त्च्म्_19.67-72:3 ॥
पुनर् इयं गुटिका नित्यं यस्य गुलुच्छके निहिता भवति वा मुकुटे किरीटे वा कण्ठसूत्रकर्णे कण्ठसूत्रं च कर्णश्च कण्ठसूत्रकर्णं तस्मिन् वा अङ्गे हस्तपादादौ तस्य मृत्युभयशोकरोगशस्त्रजरासततदुःखसंघातं नश्यति इत्यध्याहारः ॥ ग्र्ह्त्च्म्_19.67-72:4 ॥
एतेषु स्थानेषु यस्येयं निहिता स्थापिता भवति स असुरयक्षकिन्नरपूज्यतमः असुरा दैत्याः यक्षा देवयोनयः किन्नराः तुरङ्गवक्त्राः तेषां पूज्यतमो भवति अतिशयेन पूज्यः पूज्यतमः ॥ ग्र्ह्त्च्म्_19.67-72:5 ॥
सिद्धयोगीन्द्रैः पूज्यतमः सिद्धा देवविशेषाः योगीन्द्रा नागार्जुनादयः ततोऽनन्तरं मृतजीवनी जलमध्ये क्षिप्त्वा प्रक्षाल्य घटिकाद्वयं वदनगता सती मृतकस्य पुरुषस्योत्थापनं प्रबोधनं कुरुते यः पुमान् पुरुषः तदेव तोयं गुटिकाक्षालनं स्वच्छं निर्मलं पिबति किंविशिष्टः पथ्यान्वितो हितावहद्रव्यभक्षणयुक्तः स पुरुषो दिव्यं वपुः देवशरीरं लभते किंविशिष्टं दिव्यं पुनः मृत्युजरावर्जितं व्याधिपालित्यरहितं पुनः सुदृढं वज्रवद् गुटिकापरिमाणं पाकविधानं च पूर्ववद् इत्यर्थः ॥ ग्र्ह्त्च्म्_19.67-72:6 ॥
इति मृतजीवनीगुटिका ॥ ग्र्ह्त्च्म्_19.67-72:7 ॥
स्तर्त् ग्र्ह्त् 19.73-74
<वज्रिणीगुटिका>
कान्तघनसत्त्वकमलं हेम च तारं यथा कृतद्वन्द्वम् ।
समजीर्णं बीजवरं वज्रयुतं वज्रिणी गुटिका

19.74

एषा मुखकुहरगता कुरुते नवनागतुल्यबलम् ।
तद्वपुरपि दुर्भेद्यं मृत्युजरारोगनिर्मुक्तम्

19.75

*चोम्म्. मुग्धावबोधिनी:
वज्रिणीगुटिकाविधानं गुणांश्चाह कान्तेत्यादि ॥ ग्र्ह्त्च्म्_19.73-74:1 ॥
कान्तं च घनं च अनयोः सत्त्वं कान्तघनसत्त्वं कान्तसत्त्वं चुम्बकसत्त्वं घनसत्त्वं अभ्रकसारं कमलं चेति कमलं ताम्रं च पुनर्हेम स्वर्णं तारं च रूप्यं पूर्ववत् यथा येन विधानेन कृतद्वन्द्वं कृतं च तत् द्वन्द्वं चेति बीजवरं समजीर्णं कार्यं किंविशिष्टं बीजवरं वज्रयुतं हीरकयुतम् इयं गुटिका नामतो वज्रिणी पुनरेषा वज्रिणीगुटिका मुखकुहरगता सती मुखान्तःप्राप्ता सती नवनागतुल्यबलं नवसंख्याका नागाः हस्तिनस्तैस्तुल्यं तत्समं यद्बलं तत्कुरुते तद्वपुस्तस्य मुखे गुटिकाधारिणो वपुः शरीरं दुर्भेद्यं दुःखेन भेत्तुं शक्यं पुनर्मृत्युजराव्याधिभिर् निर्मुक्तम् इत्यर्थः ॥ ग्र्ह्त्च्म्_19.73-74:2 ॥
इति वज्रिणी गुटिका ॥ ग्र्ह्त्च्म्_19.73-74:3 ॥
स्तर्त् ग्र्ह्त् 19.75-76
<खेचरीगुटिका>
धूमावलोकितरसे पञ्चमहारत्नजारिते सारिते ।
बीजेन गगनसत्त्वे माक्षिककान्तप्रयुक्तेन

19.76

खेचरसंज्ञा गुटिका पतति मुखे क्षिप्तमात्रेण ।
देवासुरसिद्धगणैः पूज्यतमो भवति चेन्द्राद्यैः

19.77

*चोम्म्. मुग्धावबोधिनी:
खेचरीगुटिकाविधानं गुणांश्चाह धूमेत्यादि ॥ ग्र्ह्त्च्म्_19.75-76:1 ॥
धूमावलोकिते धूमवेधिनि रसे सूते पञ्चमहारत्नजारिते पञ्चसंख्याकैर् महारत्नैर् वज्रादिभिः तथा च ।
वज्रं च मौक्तिकं चैव माणिक्यं नीलमेव च ।
मरकतं च विज्ञेयं महारत्नानि पञ्चधा ।
इति ॥ ग्र्ह्त्च्म्_19.75-76:2 ॥
पुनर् माक्षिककान्तप्रयुक्तेन ताप्यचुम्बकमिलितेन बीजेन रसे गगनसत्त्वे सारिते सति खेचरसंज्ञा गुटिका भवति ॥ ग्र्ह्त्च्म्_19.75-76:3 ॥
तस्मिन् गुटिकारूपे रसे क्षिप्तमात्रेण मुखे पतति सति इन्द्राद्यैः देवासुरसिद्धगणैश्च पूज्यतमो भवति इन्द्रो मघवा आद्यो येषां ते तैः ॥ ग्र्ह्त्च्म्_19.75-76:4 ॥
देवा अमराः असुराः दैत्याः सिद्धा देवविशेषाः तेषां ये गणाः समूहाः तैः कृत्वा अतिशयेन पूज्यो भवतीत्यर्थः ॥ ग्र्ह्त्च्म्_19.75-76:5 ॥
इति खेचरसंज्ञागुटिका ॥ ग्र्ह्त्च्म्_19.75-76:6 ॥
स्तर्त् ग्र्ह्त् 19.77
रसवादोऽनन्तगुणो द्रवगोलककल्कभेदेन ।
कलितः प्रधानसिद्धैर्यैर् दृष्टस्ते जयन्ति नराः

19.78

*चोम्म्. मुग्धावबोधिनी:
रसवादस्यानन्तत्वं सूचयन्नाह रसेत्यादि ॥ ग्र्ह्त्च्म्_19.77:1 ॥
रसवादो ऽनन्तगुणः अनन्ता गुणा यस्य स तथोक्तः ॥ ग्र्ह्त्च्म्_19.77:2 ॥
अनन्ता अपरिमिताः ॥ ग्र्ह्त्च्म्_19.77:3 ॥
केन कृत्वा रसवादोऽनन्तः द्रवगोलककल्कानां प्रत्येकमनन्तत्वात् रसवादोऽप्यनन्तः ॥ ग्र्ह्त्च्म्_19.77:4 ॥
किंभूतः प्रधानसिद्धैः नित्यनाथादिभिः कलितः रचितः ॥ ग्र्ह्त्च्म्_19.77:5 ॥
यैर्महद्भिः सिद्धैः रसवादो दृष्टस्ते नरा जयन्ति सर्वोत्कर्षेण वर्तन्ते ॥ ग्र्ह्त्च्म्_19.77:6 ॥
स्तर्त् ग्र्ह्त् 19.78-79
शीतांशुवंशसम्भवहैहयकुलजन्मजनितगुणमहिमा ।
स जयति श्रीमदनश्च किरातनाथो रसाचार्यः

19.79

यस्य स्वयमवतीर्णा रसविद्या सकलमङ्गलाधारा ।
परमश्रेयसहेतुः श्रेयः परमेष्ठिनः पूर्वम्

19.80

*चोम्म्. मुग्धावबोधिनी:
अथ ग्रन्थकारयितुर् वंशवर्णनम् आह शीतांशुवंशेत्यादि ॥ ग्र्ह्त्च्म्_19.78-79:1 ॥
श्रीमदनो मदनाभिधो राजा जयति सर्वोत्कर्षेण वर्तते ॥ ग्र्ह्त्च्म्_19.78-79:2 ॥
किंविशिष्टः किरातनाथः किराताः भिल्लास्तेषां स्वामी ॥ ग्र्ह्त्च्म्_19.78-79:3 ॥
पुनः किंविशिष्टः शीतांशुवंशसंभवहैहयकुलजन्मजनितगुणमहिमा शीतांशुवंशे चन्द्रवंशे संभव उत्पत्तिर्यस्य तत् एवंविधं यत् हैहयकुलं तत्र कुले जन्मना उद्भवेन जनितो गुणानां महिमा येन स तथोक्तः ॥ ग्र्ह्त्च्म्_19.78-79:4 ॥
पुनः किंविशिष्टो मदनः रसाचार्यः रसविद्याजनक इत्यर्थः ॥ ग्र्ह्त्च्म्_19.78-79:5 ॥
अथ चास्य कारयितुर् गुणवर्णनमाह यस्येत्यादि ॥ ग्र्ह्त्च्म्_19.78-79:6 ॥
यस्य कारयितुः श्रीमदनसंज्ञस्य रसविद्या स्वयं स्वरूपत्वेनावतीर्णा प्रादुर्भूता ॥ ग्र्ह्त्च्म्_19.78-79:7 ॥
किंविशिष्टा रसविद्या सकलमङ्गलाधारा सकलानि च तानि मङ्गलानि उत्तमरूपाणि तेषामाधारः आश्रयो यस्यां सा ॥ ग्र्ह्त्च्म्_19.78-79:8 ॥
एषा रसविद्या शरीरं अजरामरणं अजरामरं कुरुते शरीरं च धर्मार्थकाममोक्षाणां मूलं अतः सकलमङ्गलाधारेति युक्तम् ॥ ग्र्ह्त्च्म्_19.78-79:9 ॥
पुनः रसविद्या श्रेयसे मुक्तौ परम उत्कृष्टो हेतुः कारणम् ॥ ग्र्ह्त्च्म्_19.78-79:10 ॥
अनयैव रसविद्यया परमेष्ठिनो ब्रह्मणः पूर्वं प्रथमं श्रेयो ऽजरामरणरूपं संजातम् ॥ ग्र्ह्त्च्म्_19.78-79:11 ॥
स्तर्त् ग्र्ह्त् 19.80
तस्मात् किरातनृपतेर् बहुमानम् अवाप्य रसकर्मनिरतः ।
रसहृदयाख्यं तन्त्रं विरचितवान् भिक्षुगोविन्दः

मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc