भाषा

ENहिગુ
ग्रंथ पाठ

रसहृदयतन्त्र (टीका सहित) · अध्याय 16

16.1

*चोम्म्. मुग्धावबोधिनी:
ग्रासवृद्ध्या गुणानाह षोडशेत्यादि ॥ ग्र्ह्त्च्म्_15.16:1 ॥
यदा षोडशग्रासा वा द्वात्रिंशद्ग्रासा वा चतुःषष्टिग्रासा जीर्णा जारणमापन्ना भवन्ति तदा रसेन्द्रः सूतः लोहं धातुसंज्ञकं विध्यति वेधं करोति कुतः धूमावलोकनतः धूमस्य यदवलोकनं दर्शनं ॥ ग्र्ह्त्च्म्_15.16:2 ॥
स्तर्त् ग्र्ह्त् 16.1
<सारण:: मोतिवतिओन्>
इति रक्तोऽपि रसेन्द्रो जारितबीजोऽपि सारणारहितः ।
व्यापी न भवति देहे लोहेष्वप्यथवापि हि षण्ढतां याति

16.2

*चोम्म्. मुग्धावबोधिनी:
मनो मनीषायतम् आयतात्मना समाचरेत्कर्म परोपकारी ।
अर्चीव शोभां लभते परात्परां परापवादादपि संनिवृत्तः ॥ ग्र्ह्त्च्म्_16.1:1 ॥
सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं च यत् ।
वेधाधिक्यकरं लोहे सारणं तत्प्रकीर्तितम् ।
इति परिभाषा ॥ ग्र्ह्त्च्म्_16.1:2 ॥
सारणमुत्कृष्टं मत्वा स्तुवन्नाह इतीत्यादि ॥ ग्र्ह्त्च्म्_16.1:3 ॥
इति पूर्वोक्तेन विधानेन रक्तोऽपि रागवानपि रसेन्द्रः सूतः जरितबीजोऽपि जारितानि बीजानि यस्मिन्निति सारणरहितः सारणा वक्ष्यमाणसंस्कारस्तेन वर्जितः व्यापी न भवति देहे लोहे च व्यापको न स्यात् हि निश्चितं अथवापि सारणारहितो रसेन्द्रः षण्ढतां याति निर्वीर्यत्वम् आप्नोति ॥ ग्र्ह्त्च्म्_16.1:4 ॥
स्तर्त् ग्र्ह्त् 16.2-5
<सारणातैल>
मण्डूकमत्स्यकच्छपमेषजलौकाहिसूकरादीनाम् ।
संयोज्यैकस्य वसां ततः पचेत्सारणातैलम्

16.3

ज्योतिष्मतीविभीतककरञ्जकटुतुम्बीतैलमेकस्मात् ।
द्विगुणितरक्तकषायं क्षीरेण चतुर्गुणेन पचेत्

16.4

<रक्तवर्ग>
दाडिमपलाशबन्धुककुसुमरजनीभिर् अरुणसहिताभिश्च ।
मञ्जिष्ठालाक्षारसचन्दनसहितोऽपि रक्तवर्गोऽयम्

16.5

विद्रुमभूनागमलं विण्मक्षिकाध्वाङ्क्षशलभानां च ।
कर्णमलं महिषीणां क्रमेण कल्कं कलांशेन

16.6

*चोम्म्. मुग्धावबोधिनी:
सारणाय वसातैलमाह मण्डूकेत्यादि ॥ ग्र्ह्त्च्म्_16.2-5:1 ॥
मण्डूको भेकः मत्स्यो जलचरविशेषः कच्छपः कमठः प्रतीतः जलौकाः प्रतीताः अहिः सर्पः सूकरो वराहः आदिशब्दाद् गोमहिषगजोष्ट्रखरनरकर्कटशिशुमारा अपि ग्राह्याः ॥ ग्र्ह्त्च्म्_16.2-5:2 ॥
अथ तेषां मध्ये एकैकस्य पृथक्त्वेन वसां संयोज्य सारणं तैलं सारणमेव तैलं तत्पचेदिति वह्निना इति शेषः ॥ ग्र्ह्त्च्म्_16.2-5:3 ॥
सारणतैलविशेषमाह ज्योतिष्मतीत्यादि ॥ ग्र्ह्त्च्म्_16.2-5:4 ॥
ज्योतिष्मतीविभीतककरञ्जकटुतुम्बीतैलं ज्योतिष्मती कङ्गुणी विभीतकः कलिद्रुमः करञ्जः प्रतीतः कटुतुम्बी कटुका या तुम्बी एतासां तैलं एकं अतो द्विगुणितो यो रक्तकषायः रक्तगणस्य क्वाथः तं नियोज्य पूर्वसंबन्धात् ॥ ग्र्ह्त्च्म्_16.2-5:5 ॥
केन सह चतुर्गुणवसया तथा तैलतः चतुर्गुणितेन दुग्धेन सह पचेत् पाकं कुर्यादिति ॥ ग्र्ह्त्च्म्_16.2-5:6 ॥
सारणतैलविधानाय रक्तवर्गमाह दाडिमेत्यादि ॥ ग्र्ह्त्च्म्_16.2-5:7 ॥
दाडिमं प्रतीतं पलाशो ब्रह्मवृक्षः बन्धूकपुष्पं मध्याह्नविकाशिकुसुमं रजनी हरिद्रा एताभिः अरुणसहिताभिः अरुणं आरक्तं यद्द्रव्यं कार्पासकुसुमादिकं तत्सहिताभिः ॥ ग्र्ह्त्च्म्_16.2-5:8 ॥
किंविशिष्टोऽयं रक्तवर्गः मञ्जिष्ठालाक्षारसचन्दनसहितः मञ्जिष्ठा प्रतीता लाक्षारसः अलक्तकः चन्दनं रक्तचन्दनम् ॥ ग्र्ह्त्च्म्_16.2-5:9 ॥
सारणतैले कल्कमाह विद्रुमेत्यादि ॥ ग्र्ह्त्च्म्_16.2-5:10 ॥
विद्रुमं लतामणिर् भूनागमलं गण्डूपदपुरीषं मक्षिकाध्वाङ्क्षशलभानां मक्षिका जीवविशेषः ध्वाङ्क्षाः काकाः शलभः पतङ्गः इति हैमः तेषां विट् शकृत् पुनर्महिषीणां कर्णमलं क्रमेण कलांशेन षोडशांशेन कल्कं प्रतिवापं दत्त्वा पूर्वतैलमुत्तारयेत् ॥ ग्र्ह्त्च्म्_16.2-5:11 ॥
स्तर्त् ग्र्ह्त् 16.6-8
<सारण>
पटगालितं गृहीत्वा सूतं सम्पूर्णदीर्घमूषायाम् ।
तदनु खलु तप्ततैले प्रद्राव्य समं क्षिपेद् बीजम्

16.7

मूषावक्त्रं स्थगयेल् लताद्वयप्रोतविततनद्धेन ।
तैलार्द्रपटेन ततो बीजं प्रक्षिप्य समकालम्

16.8

पिशितानुगुणं बीजैः सारणविधिना नियोजितः सूतः ।
अक्षीयमाणो मिलति च बीजैर् बद्धो भवत्येव

16.9

*चोम्म्. मुग्धावबोधिनी:
सिद्धतैलकृत्यमाह पटेत्यादि ॥ ग्र्ह्त्च्म्_16.6-8:1 ॥
तत्सिद्धतैलं पटगालितं वस्त्रपूतं गृहीत्वा तदनु तत्पश्चात् ॥ ग्र्ह्त्च्म्_16.6-8:2 ॥
सम्पूर्णदीर्घमूषायां गोस्तनाकारायां तप्ततैले कोष्णसारणतैले सूतं क्षिपेत् ॥ ग्र्ह्त्च्म्_16.6-8:3 ॥
किं कृत्वा बीजं समं समभागं रसतुल्यं यद्भाव्यं महाबीजं तत् भावितं कृत्वेत्यर्थः ॥ ग्र्ह्त्च्म्_16.6-8:4 ॥
सारणयन्त्रस्य विधानमाह मूषेत्यादि ।
समकालम् एककालं यथा स्यात्तथा बीजं मूषान्तर्निक्षिप्य ततोऽनन्तरं मूषावक्त्रं स्थगयेत् आच्छादयेत् ॥ ग्र्ह्त्च्म्_16.6-8:5 ॥
केन तैलार्द्रपटेन सारणतैलार्द्रवस्त्रेण ॥ ग्र्ह्त्च्म्_16.6-8:6 ॥
किंविशिष्टेन लताद्वयेन वस्त्रचीरद्वयेन प्रोतं च तद्विततं विस्तीर्णं च तत् नद्धं बद्धं तेन ॥ ग्र्ह्त्च्म्_16.6-8:7 ॥
अक्षीयमाणो मिलति न क्षीयत इत्यर्थः ॥ ग्र्ह्त्च्म्_16.6-8:8 ॥
सूते मिलति बद्धो ज्ञेयः बीजैः सह मिलितो बद्धो भवतीत्यर्थः ॥ ग्र्ह्त्च्म्_16.6-8:9 ॥
पीतादिवर्णकथनेनापि कर्तुं सूचितम् ॥ ग्र्ह्त्च्म्_16.6-8:10 ॥
स्तर्त् ग्र्ह्त् 16.9
<मेर्चुर्य्:: प्रतिसारण>
तद्वद्गभीरमूषे सारणतैलार्द्रमेव रसराजम् ।
सूताद्द्विगुणं कनकं दत्त्वा प्रतिसारयेत्तदनु

16.10

*चोम्म्. मुग्धावबोधिनी:
सूतबीजसारणानन्तरं कनकसारणमाह तद्वदित्यादि ॥ ग्र्ह्त्च्म्_16.9:1 ॥
तद्वत् पूर्वविधानेन गभीरमूषे दीर्घमूषायां सारणतैलार्द्रं सारणतैलाप्लुतं एव निश्चयेन रसराजं कुर्यादिति शेषः ॥ ग्र्ह्त्च्म्_16.9:2 ॥
तदनु तत्पश्चात्सूताद्द्विगुणं यत्कनकं हेम तदत्र दत्त्वा प्रतिसारयेत्सारणं कुर्यात्पूर्ववत् ॥ ग्र्ह्त्च्म्_16.9:3 ॥
स्तर्त् ग्र्ह्त् 16.10
<मेर्चुर्य्:: अनुसारण>
बीजेन त्रिगुणेन तु सूतकमनुसारयेत्प्रकाशस्थम् ।
विध्यन्तरमाह बीजेनेत्यादि ॥ ग्र्ह्त्च्म्_16.9:1 ॥
प्रकाशस्थं प्रकाशमूषागतं सूतं त्रिगुणेन बीजेन अनुसारयेत् प्रतिसारयेत् ॥ ग्र्ह्त्च्म्_16.9:2 ॥
स्तर्त् ग्र्ह्त् 16.10
ईषन्नागं देयं त्रिविधायां सारणायां तु

16.11

*चोम्म्. मुग्धावबोधिनी:
किं कृत्वा ईषदल्पं नागं दत्त्वा त्रिविधायां सारणायामेवं विधेयम् इति ॥ ग्र्ह्त्च्म्_16.10:1 ॥
स्तर्त् ग्र्ह्त् 16.11-12
<सारणायन्त्र>
कृत्वा मूषां दीर्घां बन्धितत्रिभागप्रणालिकां तां च ।
तस्याग्रे प्रकटमूषा सच्छिद्रा सुदृढमृत्तिकालिप्ता

16.12

तस्मिन्प्रक्षिप्य रसं सारणतैलान्वितं तप्ते ।
प्रद्राव्य तुल्यकनकं क्षिप्तेऽस्मिन् मिलति रसराजः

16.13

*चोम्म्. मुग्धावबोधिनी:
सारणयन्त्रमाह कृत्वेत्यादि ॥ ग्र्ह्त्च्म्_16.11-12:1 ॥
प्रथमं दीर्घां मूषां कृत्वा च पुनः तां बन्धितत्रिभागप्रणालिकां बन्धिता त्रिभागे प्रणालिका यस्याः सा तां च कृत्वा तस्याग्रे यन्त्रस्याग्रे प्रणालिकायां मूषान्तरित्यर्थः ॥ ग्र्ह्त्च्म्_16.11-12:2 ॥
सुदृढमृत्तिकालिप्ता सच्छिद्रा रन्ध्रसहिता प्रकटमूषा प्रकाशमूषा कार्येति यन्त्रम् ॥ ग्र्ह्त्च्म्_16.11-12:3 ॥
तस्मिन्यन्त्रे सारणतैलान्वितं रसं प्रक्षिप्य ततोऽनन्तरं तुल्यं कनकं प्रद्राव्य गालयित्वा तस्मिन्नेव तप्ते यन्त्रे क्षिप्ते सति रसो मिलति एकतां याति ॥ ग्र्ह्त्च्म्_16.11-12:4 ॥
स्तर्त् ग्र्ह्त् 16.13-16
<सारणायन्त्र>
कृत्वा नलिकां दीर्घां षडंगुलां धूर्तकुसुमसंकाशाम् ।
मूषाप्यधो विलग्ना कर्तव्या वै मृदा लेप्या

16.14

अपरा सूक्ष्मा नलिका कार्या सप्तांगुला सुदृढा ।
मध्ये प्रविशति च यथा तद्वत्कार्या च दृढमुखा

16.15

तस्मिन्सूतः क्षिप्तः सारणतैलान्वितो मदनरुद्धमुखः ।
तदनु बृहत्तमया हेम प्रद्राव्य हेमकोष्ठिकया

16.16

तस्मिन्मध्ये क्षिप्त्वा नलिकाग्रमधोमुखीं कुर्यात् ।
अन्तरूर्ध्वं भाराक्रान्तां सरति रसो नात्र संदेहः

16.17

*चोम्म्. मुग्धावबोधिनी:
अन्यद्यन्त्रमाह कृत्वेत्यादि ॥ ग्र्ह्त्च्म्_16.13-16:1 ॥
पूर्ववद्दीर्घां धूर्तकुसुमसंकाशां धत्तूरपुष्पसंकाशां पूर्वयन्त्रनलिकायाः स्थाने एवंविधां षडङ्गुलां नलिकां कुर्याद् इति व्यक्तिः ॥ ग्र्ह्त्च्म्_16.13-16:2 ॥
मूषापि अधो विलग्ना नलिकायास्तलभागे मूषा विलग्ना संलग्ना कार्या ॥ ग्र्ह्त्च्म्_16.13-16:3 ॥
सा च मृदा मृत्स्नया लेप्या ॥ ग्र्ह्त्च्म्_16.13-16:4 ॥
पुनरपि अपरा सूक्ष्मा नालिका सप्ताङ्गुला सप्ताङ्गुलपरिमाणा सुदृढा मनोहरकठिना कार्या यथा मध्ये षडङ्गुलनालिकान्तः प्रविशति तद्वत्तथा कार्या ॥ ग्र्ह्त्च्म्_16.13-16:5 ॥
किंभूता दृढमुखा दृढं मुखं यस्याः सा एवंरूपा तस्मिन् संसिद्धे यन्त्रे सारणतैलान्वितः सूतः क्षिप्तः सन् मदनरुद्धमुखः कार्यः मदनेन सिक्थकेन रुद्धं मुद्रितं मुखं यस्य सः ॥ ग्र्ह्त्च्म्_16.13-16:6 ॥
तदनु तत्पश्चात् हेमकोष्ठिकया हेम्नो या कोष्ठी एव कोष्ठिका तया हेम स्वर्णं प्रद्राव्य द्रावयित्वा तत्र क्षिपेत् इत्यध्याहार्यम् ॥ ग्र्ह्त्च्म्_16.13-16:7 ॥
तस्मिन्यन्त्रे मध्येऽन्तः नलिकाग्रं नलिकायाः सप्ताङ्गुलाया अग्रभागं क्षिप्त्वा अधोमुखीं कुर्यात् पुनरूर्ध्वं भाराक्रान्तां कुर्यात् ॥ ग्र्ह्त्च्म्_16.13-16:8 ॥
इति कृते सति रसः सरति हेम्ना मिलति न संदेहः नियतमित्यर्थः ॥ ग्र्ह्त्च्म्_16.13-16:9 ॥
स्तर्त् ग्र्ह्त् 16.17-18
<सारणायन्त्र>
कृत्वाष्टांगुलमूषां धूर्तकुसुमोपमां दृढां श्लक्ष्णाम् ।
अपरा मध्यगतापि च सच्छिद्रा च सप्तांगुला कार्या

16.18

निरुद्धतां च कृत्वा सूतं प्रक्षिप्य तैलसंयुक्तम् ।
निर्धूमं कर्षाग्नौ स्थाप्य मूषां सुसंधितां कृत्वा

16.19

*चोम्म्. मुग्धावबोधिनी:
अन्यद्यन्त्रविधानमाह कृत्वेत्यादि ॥ ग्र्ह्त्च्म्_16.17-18:1 ॥
अष्टाङ्गुलमूषां अष्टाङ्गुलपरिमाणदीर्घां धूर्तकुसुमोपमां कनकपुष्पसदृशां दृढां कठिनां श्लक्ष्णां मसृणां एवंविधां मूषां कृत्वा अपरा द्वितीया सप्ताङ्गुला सप्ताङ्गुलपरिमाणदीर्घा सच्छिद्रा रन्ध्रयुक्ता सा मध्यगता अन्तःप्रविष्टा कार्या अपीत्यवश्यं इति मूषाद्वययन्त्रं सिद्धम् ॥ ग्र्ह्त्च्म्_16.17-18:2 ॥
तच्चाह पूर्वोक्तायामन्तःप्रविष्टायां सप्ताङ्गुलायां सूतं तैलसंयुक्तं सारणतैलसहितं प्रक्षिप्य निरुद्धतां च कृत्वा निर्धूमं यथा स्यात् तथा कर्षाग्नौ मूषां स्थाप्य पुनः किं कृत्वा सुसंधितां सन्धिमुद्रितां कृत्वा पूर्ववत्सारयेदित्यर्थः ॥ ग्र्ह्त्च्म्_16.17-18:3 ॥
स्तर्त् ग्र्ह्त् 16.19-21
<सारणायन्त्र>
वितस्तिमात्रनलिकापि कार्या सुदृढे तदग्रतो मूषे ।
उत्तानैका कार्या निश्छिद्रा छिद्रमुद्रिता च तनौ

16.20

दत्त्वा सूतं पूर्वं सारणतैलान्वितं निधाप्य भुवि ।
उत्तानायां मूषायां तस्यां बीजं समावृत्य

16.21

स्वच्छं ज्ञात्वा च ततस्तद्बीजं छिद्रसंस्थितं कुर्यात् ।
बीजं सूतस्योपरि निपतति बध्नात्यसंदेहम्

16.22

*चोम्म्. मुग्धावबोधिनी:
अन्ययन्त्रविधानमाह मूषे कार्ये ॥ ग्र्ह्त्च्म्_16.19-21:1 ॥
किंविशिष्टे तदग्रतो वितस्तिमात्रनलिके वितस्तिपरिमाणे नलिके ययोस्ते एवंविधे सुदृढे उभे कार्ये इत्यभिप्रायः ॥ ग्र्ह्त्च्म्_16.19-21:2 ॥
तयोर्मध्ये एका मूषा उत्ताना कार्या अपरा निम्नेति भावः ॥ ग्र्ह्त्च्म्_16.19-21:3 ॥
उत्ताना किंविशिष्टा निश्छिद्रा निर्व्रणा छिद्रमुद्रिता छिद्रं मुद्रितं यस्यां तनौ मूषाशरीरे इति ॥ ग्र्ह्त्च्म्_16.19-21:4 ॥
तच्चाह पूर्वं प्रथमं सूतं यन्त्रे पूर्वोक्ते सारणतैलान्वितं दत्त्वा भुवि निधाप्य तस्यां उक्तायां उत्तानायां मूषायां बीजं महाबीजं समावृत्य द्रवीकृत्य दत्त्वेत्यर्थः ॥ ग्र्ह्त्च्म्_16.19-21:5 ॥
ततोऽनन्तरं बीजं स्वच्छममलं द्रवरूपं ज्ञात्वा छिद्रसंस्थितं कुर्यात् छिद्रान्तः क्षिपेदित्यभिप्रायः छिद्रान्तःक्षेपणात् बीजं रसस्योपरि पतति सति सूतं असंदेहं यथा स्यात्तथा बध्नाति बीजे छिद्रान्तःक्षेपणानन्तरं छिद्रमच्छिद्रं स्यादित्यर्थः ॥ ग्र्ह्त्च्म्_16.19-21:6 ॥
स्तर्त् ग्र्ह्त् 16.22-23
<सारणा (6)>
सा च प्रकाशमूषा न्युब्जा कार्यार्धाङ्गुलसंनिविष्टा ।
नलिका कार्या विधिना ऊर्ध्वे सूतस्त्वधो बीजम्

16.23

मूषां निरुध्य विधिना ध्माता कोष्ठे द्रुतं बीजम् ।
ज्ञात्वा परिवर्त्य ततो निबध्नाति सूतराजं च

16.24

*चोम्म्. मुग्धावबोधिनी:
सेत्यादि ॥ ग्र्ह्त्च्म्_16.22-23:1 ॥
पुनः सा वितस्तिमात्रनलिका प्रकाशमूषा अर्धाङ्गुलसुनिविष्टा मूषान्तः प्रविष्टा न्युब्जा अधोमुखी कार्या तस्याः प्रकाशमूषायाः नलिका प्रणालिका विधिना शास्त्रवार्तिकसंप्रदायेन कार्या यथोर्ध्वे सूतो भवेदधो बीजमित्यर्थः मूषाम् इत्यादि ॥ ग्र्ह्त्च्म्_16.22-23:2 ॥
मूषां निरुध्य रन्ध्रं दूरीकृत्य विधिना कोष्ठे कोष्ठीयन्त्रे सा मूषा ध्माता कार्या द्रुतं द्रवरूपं कृतं बीजं ज्ञात्वा परिवर्त्य च मूषायां बीजस्य परिवर्तनं कृत्वा ततो बीजं सूतराजं बध्नातीति ॥ ग्र्ह्त्च्म्_16.22-23:3 ॥
स्तर्त् ग्र्ह्त् 16.24
<सारणा:: wइथ् डमरुयन्त्र>
अथवा डमरुकयन्त्रे सारणविधिना नियोजितः सूतः ।
सरति रसेन्द्रो विधिना ज्ञात्वा तत्कर्मकौशल्यम्

16.25

*चोम्म्. मुग्धावबोधिनी:
अथान्यद्यन्त्रम् आह अथवेत्यादि ॥ ग्र्ह्त्च्म्_16.24:1 ॥
विधिना सारणविधानेन डमरुकयन्त्रे उक्तलक्षणपातनकरणोचिते यन्त्रे सूतो नियोजितः सन् सरति बीजेन मिलति ॥ ग्र्ह्त्च्म्_16.24:2 ॥
स्तर्त् ग्र्ह्त् 16.25
<जारणा अfतेर् सारणा => वेध पोतेन्च्य्>
तत्सारितं रसेन्द्रं ग्रासविधानेन जारयेत्तदनु ।
पुनरपि सारितसूतो विध्यति कोट्यंशतः शुल्बम्

16.26

*चोम्म्. मुग्धावबोधिनी:
किं कृत्वा रसेन्द्रो नियोजितः ज्ञात्वा तत्कर्मकौशल्यं रसेन्द्रकर्मप्रावीण्यं ज्ञात्वेति ॥ ग्र्ह्त्च्म्_16.25:1 ॥
स्तर्त् ग्र्ह्त् 16.26
<सारणा:: wइथ् क्रामणावसा>
क्रामणवसादियोगाद्विधिना सूतः सरत्येव ।
चपलत्वातिलघुत्वाद्बीजं यतोऽथ विप्लुषः कार्यः

16.27

*चोम्म्. मुग्धावबोधिनी:
पूर्वोक्तं दृढीकर्तुमाह क्रामणेत्यादि ॥ ग्र्ह्त्च्म्_16.26:1 ॥
सूतो विधिनोक्तविधानेन क्रामणोचिता या वसा मण्डूकादीनां ता एव आदयो येषां तेषां योगात्सरति सारणा स्यात् पुनर्बीजयुतोऽपि सूतः चपलत्वातिलघुत्वात् चपलत्वं चञ्चलत्वं च अतिलघुत्वं च तस्माद्धेतोः अविप्लुषः स्थिरः कार्यः ॥ ग्र्ह्त्च्म्_16.26:2 ॥
स्तर्त् ग्र्ह्त् 16.27
<सारण, क्रामण:: wइथ् लेअद् एत्च्.>
सरति सुखेन च सूतो दहति मुखं नैव हस्तपादादि ।
क्रमति रसः फणियोगान्माक्षिकयुतहेमगैरिकया

16.28

*चोम्म्. मुग्धावबोधिनी:
पूर्वोक्तगुणानाह सरतीत्यादि ॥ ग्र्ह्त्च्म्_16.27:1 ॥
पूर्वविधाना सूतः सरति सारितः सूतो मुखं न दहति हस्तपादादि च अङ्गविभागं नैव दहति ॥ ग्र्ह्त्च्म्_16.27:2 ॥
पुनः फणियोगात् नागसंयोगतः माक्षिकयुतहेमगैरिकया सह ताप्यमिलितस्वर्णगैरिकया सार्धं क्रामति ॥ ग्र्ह्त्च्म्_16.27:3 ॥
स्तर्त् ग्र्ह्त् 16.28
<द्रुति, सारणा>
माक्षीकसत्त्वयोगात्फणियोगान्नागवद् द्रवति शीघ्रम् ।
द्रवति च कनके सूतः संसार्यते विधिना

16.29

*चोम्म्. मुग्धावबोधिनी:
सुखेन सारणविधानमाह माक्षिकेत्यादि ॥ ग्र्ह्त्च्म्_16.28:1 ॥
कनकं हेम माक्षिकसत्त्वयोगात् फणिसंयोगान्नागसंयोगाच्च शीघ्रं द्रवति कनके द्रवति सति विधिना सारणतैलादिना संसार्यते सारणा क्रियत इति ॥ ग्र्ह्त्च्म्_16.28:2 ॥
स्तर्त् ग्र्ह्त् 16.29
<मेर्चुर्य्:: प्रेपरतिओन् fओर् वेध>
तस्माद् द्रव्यविधायी सूतो बीजेन सारितो लघुना ।
समसारितः सुबद्धो मूषायां स्यात्समावर्तः

16.30

*चोम्म्. मुग्धावबोधिनी:
सारणया पारदगुणानाह तस्मादित्यादि ॥ ग्र्ह्त्च्म्_16.29:1 ॥
तस्माद्धेतोः सूतो द्रव्यविधायी स्यात् इति शेषः द्रव्यकर्तेत्यर्थ ॥ ग्र्ह्त्च्म्_16.29:2 ॥
अलघुना बीजेन अनल्पपरिमाणेन महाबीजेन सारितः सन् समसारितः सन् बद्धो भवेत् इत्यध्याहारः ॥ ग्र्ह्त्च्म्_16.29:3 ॥
मूषायां समावर्तो द्रवणं स्यात् वह्निधमनात् इति शेषः ॥ ग्र्ह्त्च्म्_16.29:4 ॥
स्तर्त् ग्र्ह्त् 16.30
<(प्रति-, अनु-)सारणा>
सारितवर्तितसूतः समानबीजेन मिलति यः सार्यः ।
द्विगुणेन प्रतिसार्यः स चानुसार्यश्च त्रिगुणेन

16.31

*चोम्म्. मुग्धावबोधिनी:
सारणक्रममाह सरित्यादि ॥ ग्र्ह्त्च्म्_16.30:1 ॥
सारितवर्तितसूतः सारितश्चासौ वर्तितश् चेति विग्रहः ॥ ग्र्ह्त्च्म्_16.30:2 ॥
यः समानबीजेन तुल्यमहाबीजेन मिलति स सार्यः यो द्विगुणेन मिलति सः प्रतिसार्यः यश्च त्रिगुणेन सोऽनुसार्य इति सारणाक्रमो दर्शितः ॥ ग्र्ह्त्च्म्_16.30:3 ॥
स्तर्त् ग्र्ह्त् 16.31
<सारण <=> वेध पोतेन्च्य्>
शतवेधी सार्यः प्रतिसारितः स्यात्सहस्रवेधी च ।
अनुसारितोऽयुतेन च विधिनापि बलाबलं ज्ञात्वा

16.32

*चोम्म्. मुग्धावबोधिनी:
सारणक्रमस्य गुणानाह शतेत्यादि ॥ ग्र्ह्त्च्म्_16.31:1 ॥
यः सार्यः समसारितः स शतवेधी स्याद् इत्यभिप्रायः ॥ ग्र्ह्त्च्म्_16.31:2 ॥
पुनः प्रतिसारितः द्विगुणबीजेन सारितो यः सूतः स सहस्रवेधी स्यात् ॥ ग्र्ह्त्च्म्_16.31:3 ॥
च पुनः अनुसारितः त्रिगुणबीजेन सारितः स अयुतेन अयुतवेधी स्यादिति व्यक्तिः ॥ ग्र्ह्त्च्म्_16.31:4 ॥
विधिना इत्युक्तविधानेन ॥ ग्र्ह्त्च्म्_16.31:5 ॥
बलाबलं ज्ञात्वा न्यूनाधिक्यं मत्वा विधिना युक्त इति शेषः ॥ ग्र्ह्त्च्म्_16.31:6 ॥
स्तर्त् ग्र्ह्त् 16.32
अनुसारितेन तु समः स्वच्छः सूतः सारितस्तदनु ।
स भवति लक्षवेधी प्रतिसारितः प्रयुतवेधी च

16.33

*चोम्म्. मुग्धावबोधिनी:
सारितप्रतिसारितादनुसारितस्य विशेषमाह अन्वित्यादि ॥ ग्र्ह्त्च्म्_16.32:1 ॥
तु पुनः स्वच्छः प्रधानसंस्कारैः संस्कृतः सूतः अनुसारितेन समः त्रिगुणबीजेन सारितोऽनुसारितस्तेन तुल्यो यदि स्यात्स च लक्षवेधी स्यात् ॥ ग्र्ह्त्च्म्_16.32:2 ॥
एवं प्रतिसारितः सूतः समेन सारितो ऽयुतवेधी स्यात् ॥ ग्र्ह्त्च्म्_16.32:3 ॥
एवं स्वेच्छातिस्वच्छवृद्धौ वेधस्यापि वृद्धिः स्यादिति रहस्यम् ॥ ग्र्ह्त्च्म्_16.32:4 ॥
स्तर्त् ग्र्ह्त् 16.33
कोटिं विध्यति सूतोऽप्यनुसारितः सरति बीजेन ।
प्रतिसारितोऽनुसारितो दशकोटिं विध्यते सूतः

16.34

*चोम्म्. मुग्धावबोधिनी:
तथोत्तरसत्त्वेन गुणाधिक्यमाह कोटिमित्यादि ॥ ग्र्ह्त्च्म्_16.33:1 ॥
सूते सरितो बीजेन ग्रासन्यायं विहाय समेन बीजेनानुसारितो यः स कोटिसंख्यां धातूनामिति शेषः सूतो विध्यति ॥ ग्र्ह्त्च्म्_16.33:2 ॥
यथोक्तसारिते सूते दशगुणवृद्धिः सर्वत्रैवेति वेदितव्यम् ॥ ग्र्ह्त्च्म्_16.33:3 ॥
स्तर्त् ग्र्ह्त् 16.34
प्रतिसारितस्तथाब्जं त्वनुसारितः खर्ववेधी च ।
एवं सारणयोगात्कुरुते वेधं यथेप्सितं विधिना

16.35

*चोम्म्. मुग्धावबोधिनी:
विशेषमाह प्रतीत्यादि ॥ ग्र्ह्त्च्म्_16.34:1 ॥
प्रतिसारितः सूतो द्विगुणबीजेन वारैकेन सारितो रसः अब्जसंख्यां विध्यति ॥ ग्र्ह्त्च्म्_16.34:2 ॥
तु पुनर् अनुसारितः त्रिगुणेन बीजेन वारैकेन सारितः सूतः खर्ववेधी स्यात् खर्वसंख्याके द्रव्यसंबन्धं करोतीत्यभिप्रायः ॥ ग्र्ह्त्च्म्_16.34:3 ॥
एवमुक्तप्रकारेण विधिना शास्त्रज्ञवार्तिकसंप्रदायेन सारणयोगात् यथेप्सितं वेधं कुरुते यथावाञ्छितम् इत्यर्थः ॥ ग्र्ह्त्च्म्_16.34:4 ॥
स्तर्त् ग्र्ह्त् 16.35
अनुसारितेन सारितो विध्यति शुल्बं निखर्वसंख्याकम् ।
प्रतिसारितस्तु विध्यति पद्मं स्वनुसारितः शङ्खम्

16.36

*चोम्म्. मुग्धावबोधिनी:
पुनर्विशेषमाह अन्वित्यादि ॥ ग्र्ह्त्च्म्_16.35:1 ॥
अनुसारितेन त्रिगुणप्रथमग्रासन्यायेन बीजेन सारितः सूतो निखर्वसंख्याकं शुल्बं विध्यति तु पुनः प्रतिसारितः षड्गुणप्रथमग्रासन्यायेन सारितः सूतः पद्मसंख्याकं विध्यति ॥ ग्र्ह्त्च्म्_16.35:2 ॥
पुनर् अनुसारितो नवगुणग्रासन्यायेन बीजेन सारितः सूतः शङ्खसंख्यां विध्यतीति ॥ ग्र्ह्त्च्म्_16.35:3 ॥
स्तर्त् ग्र्ह्त् 16.36
<लेअद् (?):: वेध (?)>
विध्येद् द्विगुणं द्रव्यं नागं दत्त्वानुवाहयेच्छनकैः ।
तावद्यावत्कनकं दिव्यं प्रोन्मीलयेत्सकलम्

मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc