भाषा

ENहिગુ
ग्रंथ पाठ

रसहृदयतन्त्र (टीका सहित) · अध्याय 15

15.1

*चोम्म्. मुग्धावबोधिनी:
महाबीजानां बीजानां च विशेषविधानमाह एवमित्यादि ॥ ग्र्ह्त्च्म्_14.18:1 ॥
एवम् उक्तविधानेन बीजं विधाय रञ्जनविधिना रञ्जनविधानेन सुरञ्जनं कार्यम् ॥ ग्र्ह्त्च्म्_14.18:2 ॥
तत्कार्ये रसस्य सूतस्य त्रिगुणं हेम संयोज्यं पुनस् तस्य हेम्नः त्रिगुणं वरबीजं योज्यं इति विशेषविधिः ॥ ग्र्ह्त्च्म्_14.18:3 ॥
स्तर्त् ग्र्ह्त् 15.1
<अभ्र:: सत्त्व:: द्रुति:: चौसेस् बन्धन ओf मेर्चुर्य्>
वक्ष्ये त्वभ्रकसत्वाद् विमलद्रुतिम् अखिलगुणगणाधाराम् ।
सा हि निबध्नाति रसं संमिलिता मिलति च सुखेन

15.2

*चोम्म्. मुग्धावबोधिनी:
भारती भरतखण्डमण्डिता पचरेमानन्दमञ्जरी ।
कस्तया न रसमलं कुतो जया वक्रपद्ममधिस्थया सदा ॥ ग्र्ह्त्च्म्_15.1:1 ॥
बाह्यद्रुतिप्रशंसामाह वक्ष्य इत्यादि ॥ ग्र्ह्त्च्म्_15.1:2 ॥
अहं कविः अभ्रकसत्त्वाद्गगनसारतो विमलद्रुतिं पक्षे विमला चासौ द्रुतिश्चेति विग्रहः ॥ ग्र्ह्त्च्म्_15.1:3 ॥
किंविशिष्टां अखिलगुणगणाधाराम् अखिलाश्च ते गुणगणाश्च गुणपटलाश्च तेषां या आधारा तां बहवो गुणास् तिष्ठन्त्यस्यामिति व्यक्तिः ॥ ग्र्ह्त्च्म्_15.1:4 ॥
सा रसभूता द्रुतिः रसं सूतां निबध्नाति निश्चयेन बध्नातीत्यर्थः ॥ ग्र्ह्त्च्म्_15.1:5 ॥
किंभूता सती ॥ ग्र्ह्त्च्म्_15.1:6 ॥
मिलिता सती तुल्यमिश्रिता सती पुनः द्रुतिः सुखेन मिलति पत्रादेर् दुर्मिलापत्वात् ॥ ग्र्ह्त्च्म्_15.1:7 ॥
स्तर्त् ग्र्ह्त् 15.2
<अभ्र:: सत्त्व:: द्रुति:: प्रोदुच्तिओन्>
वज्रवल्ल्याः स्वरसेन गगनं सौवर्चलान्वितं पिष्टम् ।
परिपक्वं निचुलपुटैर्निर्लेपं भवति रसरूपम्

15.3

*चोम्म्. मुग्धावबोधिनी:
द्रुतिविधानमाह वज्रवल्ल्या इत्यादि ॥ ग्र्ह्त्च्म्_15.2:1 ॥
वज्रवल्ल्याः स्वरसेन स्वकीयेन रसेन गगनमभ्रसत्त्वं सौवर्चलान्वितं रुचकसहितं पिष्टं कुर्यात् इति शेषः ॥ ग्र्ह्त्च्म्_15.2:2 ॥
किंविशिष्टं गगनं निचुलपुटैर् वेतसद्रवभावनाभिः पक्वं वह्निपुटितं तत्पक्वं सन् निर्लेपं संपर्कवर्जितं रसरूपं भवति पारदस्य रूपमित्यर्थः ॥ ग्र्ह्त्च्म्_15.2:3 ॥
स्तर्त् ग्र्ह्त् 15.3
<अभ्र:: सत्त्व:: द्रुति:: प्रोदुच्तिओन्>
अजजलशतपरिप्लावितकपितिन्दुकचूर्णवापमात्रेण ।
द्रुतजातमभ्रकसत्वं मूषायां रसनिभं भवति

15.4

*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह अजेत्यादि ॥ ग्र्ह्त्च्म्_15.3:1 ॥
द्रुजातरभ्रकसत्त्वं अभ्रकसत्वं गगनसारं मूषायां वज्रसंज्ञायां द्रुतं सत् रससंनिभं भवति पारदभूतम् इत्यर्थः ॥ ग्र्ह्त्च्म्_15.3:2 ॥
केन अजजलशतपरिभावितकपितिन्दुकचूर्णवापमात्रेण अजः छागस्तस्य जलेन मूत्रेण शतं शतवारं परिभावितं घर्मपुटितं यत्कपितिन्दुकचूर्णं तस्य वापमात्रेण द्रुतेऽभ्रसत्त्वे वापे ॥ ग्र्ह्त्च्म्_15.3:3 ॥
स्तर्त् ग्र्ह्त् 15.4
<अभ्र:: सत्त्व:: द्रुति:: प्रोदुच्तिओन्>
निजरसशतप्लावितकञ्चुकिकन्दोत्थचूर्णकृतपरिवापम् ।
द्रुतमास्तेऽभ्रकसत्त्वं तद्वत्सर्वाणि लोहानि

15.5

*चोम्म्. मुग्धावबोधिनी:
अभ्रकसत्त्वं वह्नियोगेन द्रुतं आस्ते द्रवरूपमेवावतिष्ठते ॥ ग्र्ह्त्च्म्_15.4:1 ॥
किंविशिष्टं सत्त्वं निजरसशतपरिभावितेत्यादि निजरसेन स्वकीयद्रवेण परिभावितं यत्कञ्चुकिकन्दोत्थचूर्णं तस्य आवापेन यथा शतभावितकञ्चुकिकन्दोत्थचूर्णेन सत्त्वं द्रुतमास्ते तद्वत्सर्वाणि लोहानि द्रुतानि तिष्ठन्ति ॥ ग्र्ह्त्च्म्_15.4:2 ॥
स्तर्त् ग्र्ह्त् 15.5
<अभ्र:: सत्त्व:: द्रुति:: प्रोदुच्तिओन्>
गगनं चिकुरतैलघृष्टं गोमयलिप्तं च कुलिशमूषायाम् ।
सुध्मातमत्र सत्त्वं प्लवति जलाकारमचिरेण

15.6

*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह गगनेत्यादि ॥ ग्र्ह्त्च्म्_15.5:1 ॥
गगनं अभ्रसारं चिकुरतैलघृष्टं चिकुरतैलं केशतैलं प्रतीतं ग्रन्थेषु तेन घृष्टं मर्दितं गोमयलिप्तं गोमयेन लिप्तं यथा स्यात्तथा कुलिशमूषायां वज्राभिधानायां सुध्मातं सत् अचिरेणाल्पकालेन जलाकारं भवतीत्यन्वयः ॥ ग्र्ह्त्च्म्_15.5:2 ॥
स्तर्त् ग्र्ह्त् 15.6
<अभ्र:: सत्त्व:: द्रुति:: गेनेरल् रुले>
गगनद्रुतिरिह सत्वे ज्ञेयो हि रसस्य सम्प्रदायो ऽयम् ।
प्रथमं निपात्य सत्वं देयो वापो द्रुते तस्मिन्

15.7

*चोम्म्. मुग्धावबोधिनी:
सामान्येनाभ्रद्रुतिविधानमाह गगनेत्यादि ॥ ग्र्ह्त्च्म्_15.6:1 ॥
इहास्मिन् शास्त्रे सत्त्वे गगनसारे जाते साङ्गतया गगनद्रुतिः भवतीत्यध्याहार्यम् ॥ ग्र्ह्त्च्म्_15.6:2 ॥
अयं प्रत्यक्षान्तर्गतः हि निश्चितं रसस्य सूतस्य संप्रदायो ज्ञेयः ॥ ग्र्ह्त्च्म्_15.6:3 ॥
पुनः प्रथमादौ सत्त्वं अभ्रसारं निपात्य तस्मिन्द्रुते सत्त्वे वह्निना द्रवरूपे सति वापः कार्यः कथितौषधीनां इति शेषः ॥ ग्र्ह्त्च्म्_15.6:4 ॥
स्तर्त् ग्र्ह्त् 15.7
<गोल्द्:: द्रुति>
सुरगोपकदेहरजः सुरदालिफलैः समांशकैर्देयः ।
वापो द्रुते सुवर्णे द्रुतमास्ते तद्रसप्रख्यम्

15.8

*चोम्म्. मुग्धावबोधिनी:
अथ सुवर्णद्रुतिविधानमाह सुरगोपकदेहरज इति ॥ ग्र्ह्त्च्म्_15.7:1 ॥
इन्द्रगोपशरीरचूर्णं सुरदालीफलैः समांशकैः सुरगोपचूर्णतुल्यभागैः कृत्वा वापो देयः द्रुते सत्युपरिक्षेप इति सुवर्णे वापे कृते सुवर्णं द्रुतमास्ते किंविशिष्टं रसप्रख्यं जलतुल्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_15.7:2 ॥
स्तर्त् ग्र्ह्त् 15.8
<गोल्द्:: द्रुति>
अथ निजरसपरिभावितसुरदालीचूर्णवापमात्रेण ।
द्रुतमेवास्ते कनकं लभते भूयो न कठिनत्वम्

15.9

*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह अथेत्यादि ॥ ग्र्ह्त्च्म्_15.8:1 ॥
अथेन्द्रगोपदेवदालीयोगकथनानन्तरं कनकं हेम निजरसपरिभावितं यत् सुरदालीचूर्णं तस्य वापमात्रेण गलिते हेम्नि क्षेपमात्रेण द्रुतमेवास्ते गलितम् एवावतिष्ठतीत्यर्थः पुनः कनकं काठिन्यं स्थिरत्वं न लभते इति चिरकालप्रयोजनम् ॥ ग्र्ह्त्च्म्_15.8:2 ॥
स्तर्त् ग्र्ह्त् 15.9
<तीक्ष्णलोह:: द्रुति>
सुरदालीभस्म गलितं त्रिःसप्तकृत्वाथ गोजलं शुष्कम् ।
वापेन सलिलसदृशं कुरुते मूषागतं तीक्ष्णम्

15.10

*चोम्म्. मुग्धावबोधिनी:
अथ तीक्ष्णविधानमाह सुरदालीत्यादि ॥ ग्र्ह्त्च्म्_15.9:1 ॥
सुरदालीभस्मगलितं सुरदाली देवदाली तस्याः भस्म दाहसम्भूतं तेन गलितं त्रिसप्तकृत्वा एकविंशतिवारं गोजलं सुरभिमूत्रं भावितं कुर्यादित्यध्याहारः ॥ ग्र्ह्त्च्म्_15.9:2 ॥
अथ मूषागतं वज्रसंज्ञायां स्थितं तीक्ष्णं सारं वापेन निक्षेपणेन जलसदृशं जलतुल्यं कुरुते कर्मविदिति शेषः ॥ ग्र्ह्त्च्म्_15.9:3 ॥
स्तर्त् ग्र्ह्त् 15.10
<माक्षिकसत्त्वद्रुति>
कूर्मास्थिशिलाजतुकमेषीमृगगोऽस्थिवापिता काञ्ची ।
जलसदृशी भवति सदा वापो देयो द्रुतायां तु

15.11

*चोम्म्. मुग्धावबोधिनी:
अथ माक्षिकद्रुतिविधानमाह कूर्मेत्यादि ॥ ग्र्ह्त्च्म्_15.10:1 ॥
कूर्मास्थि शिलाजतुकं प्रतीतं मेषी मेषपत्नी मृगो हरिणः गौः प्रतीता प्रतीतो वा तेषां यान्यस्थीनि तैर् निर्वापिता या काञ्ची स्वर्णमाक्षिकं सा जलसदृशी भवति कियत्कालपरिमाणं सदा नित्यं पुनः द्रुतायां गलितायां वापो देयः वापो निक्षेपणम् ॥ ग्र्ह्त्च्म्_15.10:2 ॥
स्तर्त् ग्र्ह्त् 15.11
<अभ्र:: द्रुति:: अल्छेम्. प्रोपेर्तिएस्>
अभ्रकद्रुतिरविशेषा निर्लेपा योजिता समासात्तु ।
आरोटं रसराजं बध्नाति हि द्वन्द्वयोगेन

15.12

*चोम्म्. मुग्धावबोधिनी:
सामान्याभ्रद्रुतेर् अधिकारमाह अभ्रद्रुतिरित्यादि ॥ ग्र्ह्त्च्म्_15.11:1 ॥
गगनद्रवः अविशेषा सामान्यापि विधानेन कृता निर्लेपा अस्पर्शा समा सूततुल्यभागयोजिता सती आरोटं रसनजं पूर्वसंस्कारैः संस्कृतं सूतं बध्नाति केन द्वन्द्वयोगेन उभयमेलापकौषधेन ॥ ग्र्ह्त्च्म्_15.11:2 ॥
हिशब्दो युक्तार्थ इति ॥ ग्र्ह्त्च्म्_15.11:3 ॥
स्तर्त् ग्र्ह्त् 15.12
<रेचेइपे fओर् द्वन्द्वन ओf द्रुति अन्द् मेर्चुर्य्>
कृष्णागरुनाभिसितै रसोनसितरामठैरिमा द्रुतयः ।
सोष्णे मिलन्ति रसेन मृदिताः स्त्रीकुसुमपलाशबीजरसैः

15.13

*चोम्म्. मुग्धावबोधिनी:
पूर्वोक्तानां मेलनम् आह कृष्णेत्यादि ॥ ग्र्ह्त्च्म्_15.12:1 ॥
इमा द्रुतयः सोष्णतुषकरीषादिना तापिते खल्वे मृदिताः सत्यो मिलन्ति रसेन सह तथा कार्यम् ॥ ग्र्ह्त्च्म्_15.12:2 ॥
कैः कृत्वा कृष्णागरुनाभिसितैः ॥ ग्र्ह्त्च्म्_15.12:3 ॥
कृष्णागरुकस्तूरिकाघनसारैः कृत्वा न केवलमेतैः रसोनसितरामठैश्च लशुनशर्कराहिङ्गुभिः पुनः स्त्रीकुसुमपलाशबीजरसैः स्त्रीकुसुमं च पलाशस्य बीजानि च रसश्चेति द्वंद्वः एतैस्त्रिभिर्योगैः पृथग्भूतैर्मिलन्ति सर्वैश्चेति ॥ ग्र्ह्त्च्म्_15.12:4 ॥
स्तर्त् ग्र्ह्त् 15.13
<मेर्चुर्य्:: बद्ध:: चौसेस् लोन्गेवित्य्>
इति बद्धो रसराजो गुञ्जामात्रोपयोजितो नित्यम् ।
एकेनैव पलेन तु कल्पायुतजीवितं कुरुते

15.14

*चोम्म्. मुग्धावबोधिनी:
इत्थं बद्धरसराजस्य माहात्म्यमाह इतीत्यादि ॥ ग्र्ह्त्च्म्_15.13:1 ॥
इति पूर्वोक्तेन द्रुतिविधानेन बद्धो रसराजः सूतः एकेन पलेन षोडशिकया कल्पायुतं जीवितं कुरुते कल्पानाम् अयुतं सहस्रपरिमाणं जीवितमिति ॥ ग्र्ह्त्च्म्_15.13:2 ॥
कस्मात् नित्यं यथा स्यात्तथा गुञ्जामात्रोपयोगतः दिनं दिनं प्रति रक्तिकापरिमाणस्य रसस्य योऽसौ उपयोगस्तेन ॥ ग्र्ह्त्च्म्_15.13:3 ॥
स्तर्त् ग्र्ह्त् 15.14
अथ पूर्वोक्तग्रासक्रमाज्जरते रसो विधिवत् ।
एताः पूर्वद्रुतयो भवन्ति रसराजफलदाश्च

15.15

*चोम्म्. मुग्धावबोधिनी:
विधिना ग्रासजारितो रसो गुणवानित्याह अथेत्यादि ॥ ग्र्ह्त्च्म्_15.14:1 ॥
अथ द्रुतियोगानन्तरं रसः सूतः पूर्वोक्तग्रासक्रमात् योजितकवलक्रमात् विधिवत् शास्त्रोक्तविधानेन बिडादिना जरते च पुनरेताः पूर्वोक्तद्रुतयो रसराजफलदा भवन्ति सूते प्रयुक्ताः फलदाः स्युरित्यर्थः ॥ ग्र्ह्त्च्म्_15.14:2 ॥
स्तर्त् ग्र्ह्त् 15.15
<द्रुतिजारण => वेध पोतेन्च्य्>
समजीर्णः शतवेधी द्विगुणेन रसः सहस्रवेधी च ।
क्रमशो हि कोटिवेधी द्विगुणद्विगुणद्रुतेश्चरणात्

15.16

*चोम्म्. मुग्धावबोधिनी:
अधिकद्रुतेर् जारणाद् अधिकगुणे रसो भवतीत्याह समजीर्ण इति ॥ ग्र्ह्त्च्म्_15.15:1 ॥
इति समा तुल्यभागा द्रुतिर्जीर्णा यस्मिन्निति ॥ ग्र्ह्त्च्म्_15.15:2 ॥
द्रुते द्विगुणा या द्रुतिः तस्याश्चरणात् क्रमशः कोटिवेधी कोट्यंशेन वेधकः स्यात् ॥ ग्र्ह्त्च्म्_15.15:3 ॥
द्रुतिभागो वृद्धौ ह्यधिकः स्यादिति व्यक्तिः ॥ ग्र्ह्त्च्म्_15.15:4 ॥
स्तर्त् ग्र्ह्त् 15.16
षोडश वा द्वात्रिंशद्वा ग्रासा जीर्णाश्चतुःषष्टिः ।
विध्यति तदा रसेन्द्रो लोहं धूमावलोकनतः

मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc