रसहृदयतन्त्र (टीका सहित) · अध्याय 14
*चोम्म्. मुग्धावबोधिनी:
सूतबन्धने हेतूनाह नेत्यादि ॥ ग्र्ह्त्च्म्_13.8:1 ॥
यदि गर्भे रसोदरे घनसत्त्वं अभ्रकसारं न पतति न प्राप्नोति वा गर्भे बीजानि अस्मिन्नध्याये अभिहितानि माक्षिककान्तशुल्बादीनि यावन्नो द्रवन्ति च पुनर्बाह्यद्रुतिस्तस्या योगो रसे द्रुतिमेलनं न स्यात् तत्तस्माद्धेतोः सूत इहास्यां क्रियायामसत्यां कथं बध्यते घनत्वं धत्ते ॥ ग्र्ह्त्च्म्_13.8:2 ॥
गर्भद्रुतिबाह्यद्रुतिभ्यां सूतो बध्यते नियतमित्यभिप्रायः ॥ ग्र्ह्त्च्म्_13.8:3 ॥
स्तर्त् ग्र्ह्त् 14.1
<प्रोदुच्तिओन् ओf गोल्द्:: प्रेपरिन्ग् थे मेर्चुर्य्>
समाद् अधि च यज्जीर्णं बीजं तेनैव चावर्तता कार्या ।
कर्तव्यं तत्करणं यस्मात्खलु जायते हेम
*चोम्म्. मुग्धावबोधिनी:
शरदि शारदमेघो वर्षति वर्षासु वार्षिको वार्दः ।
मधुसमये परपुष्टः प्रवरजवः शोभते सततम् ॥ ग्र्ह्त्च्म्_14.1:1 ॥
बीजजारणात्किं भवति तदाह समादीत्यादि ॥ ग्र्ह्त्च्म्_14.1:2 ॥
समं सूततुल्यं अधिशब्दाद् अपरिमितं समादधिकं यज्जीर्णं जारणमाप्तं बीजं निष्पन्नबीजं तेनैव जीर्णेन बीजेन सह आवर्तता कार्या आवर्त इति आवर्तः ॥ ग्र्ह्त्च्म्_14.1:3 ॥
किं तत् यस्माद्विधानाद्धेम कनकं जायते खलु निश्चयेन तत्करणं तस्य विधानस्य करणम् ॥ ग्र्ह्त्च्म्_14.1:4 ॥
समादिजीर्णस्य सूतस्य रूप्यादिषु प्रयोगात्कनकं भवेदिति व्यक्तिः ॥ ग्र्ह्त्च्म्_14.1:5 ॥
स्तर्त् ग्र्ह्त् 14.2-9
<रसबीज:: प्रोदुच्तिओन्>
प्रद्राव्य शस्त्रपात्रे गन्धपादेन सूतकं दद्यात् ।
स्वरसेन चौषधीनां वटिकां निष्पिष्य कुर्वीत
संस्थाप्य लोहफलके छायाशुष्कां तु तां वटिकाम् ।
लघुलोहकटोरिकया स्थगयित्वा लेपयेत्सुदृढम्
लवणार्द्रमृदा लिप्तां सुदृढं कुर्वीत धूम्ररोधाय ।
दत्त्वा सुदृढांगारान् भस्त्राद्वयवह्निनैव निर्धूमे
तावद्यावद्ध्माता रक्ताभा खोटिका भवति ।
अपनीय ततोऽङ्गारान् स्वभावशीतां कटोरिकां मत्वा
उत्खन्योत्खन्य ततः कटोरिकाया रसो ग्राह्यः ।
एषः मृतसूतराजो गोलकवद्भवति च स सुखाध्मातः
शिखिगलताम् एकरसोऽतिध्मातः काचटंकणतः ।
त्रिगुणं वङ्गं दद्यात्क्रमेण नागम् अल्पाल्पदानेन
पश्चाद्धेम्ना योज्यं रसबीजं सूतबन्धकरम् ।
सूतमारणविधानम् आह प्रद्राव्येत्यादि ॥ ग्र्ह्त्च्म्_14.2-7:1 ॥
शस्त्रपात्रे तीक्ष्णमयपात्रे औपश्लेषिकेऽधिकरणे सप्तमी ॥ ग्र्ह्त्च्म्_14.2-7:2 ॥
गन्धपादेन गन्धस्य तुर्यांशविभागेन सूतकं दद्यात् तत्पात्रोपरिभागे दत्तं प्रद्राव्य वह्निना इति शेषः ॥ ग्र्ह्त्च्म्_14.2-7:3 ॥
पुनः ओषधीनां स्वरसेन औषध्यो ग्रन्थान्तरे यथा ।
मृद्नीयात्खलु तावत् पिष्टमञ्जनसदृशं भवेद्यावत् ।
तदनु च नियामकानां शतावरीकन्दुकीसुधादीनाम् ।
इति ॥ ग्र्ह्त्च्म्_14.2-7:4 ॥
शतावर्यादीनां स्वकीयरसेन निष्पिष्य प्रमर्द्य वटिकां बदराकरां कुर्वीतेति ॥ ग्र्ह्त्च्म्_14.2-7:5 ॥
तच्चाह संस्थाप्येत्यादि ॥ ग्र्ह्त्च्म्_14.2-7:6 ॥
तां पूर्वोक्तां वटिकां छायाशुष्कां लोहफलके शस्त्रपात्रे संस्थाप्य पुनः लघुलोहकटोरिकया पूर्वोक्तलोहफलकात् लघ्वी या लोहकटोरिका तया स्थगयित्वा आच्छाद्य दृढं गाढं यथा स्यात्तथा लेपयेत् वक्ष्यमाणेनेति शेषः ॥ ग्र्ह्त्च्म्_14.2-7:7 ॥
तच्चाह लवणेत्यादि ॥ ग्र्ह्त्च्म्_14.2-7:8 ॥
तां पूर्वोदितां लघुलोहकटोरिकां सुदृढं यथा स्यात्तथा लवणार्द्रमृदा लवणेन सैन्धवादिना युता या आर्द्रा जलसिक्ता मृत् तया लिप्तां कुर्वीत ॥ ग्र्ह्त्च्म्_14.2-7:9 ॥
किमर्थं धूम्ररोधाय यथा यन्त्राद्बहिर्धूमोद्गमो न स्यात् ॥ ग्र्ह्त्च्म्_14.2-7:10 ॥
पुनः सुदृढाङ्गारान् खदिरादीनां दत्त्वा भस्त्राद्वयवह्निना खलु द्वयाग्निना धम्याद् इति अग्रिमश्लोकसंबन्धात् ॥ ग्र्ह्त्च्म्_14.2-7:11 ॥
क्व सति निर्धूमे सति रसे धूमनिःसरणवर्जिते सति ॥ ग्र्ह्त्च्म्_14.2-7:12 ॥
तच्चाह तावदित्यादि ॥ ग्र्ह्त्च्म्_14.2-7:13 ॥
सन्धिलिप्ता पूर्वोक्ता लोहशराविका तावदवधौ ध्माता कार्या यावत्कालप्रमाणं रक्ताभा रक्तद्युतियुक्ता खोटिका भवति खोटस्येव आकृतिर्यस्याः सा खोटिका ॥ ग्र्ह्त्च्म्_14.2-7:14 ॥
ततोऽनन्तरं कटोरिकां स्वभावशीतलां स्वतो हिमां मत्वा ज्ञात्वा पुनरङ्गारानपनीय अपसार्य कटोरिकामुत्खन्य रसो ग्राह्य इति शेषः आगमिश्लोकसंबन्धात् ॥ ग्र्ह्त्च्म्_14.2-7:15 ॥
तच्चाह उत्खन्येत्यादि ॥ ग्र्ह्त्च्म्_14.2-7:16 ॥
ततोऽनन्तरं लघुलोहकटोरिकां पूर्ववर्णितां उत्खन्योत्खन्य प्रबलत्वेनोत्पाट्य रसः सूतो ग्राह्यः ॥ ग्र्ह्त्च्म्_14.2-7:17 ॥
उत्खन्योत्खन्येति कठिनतरत्वाद्वा अत्यादरेण वीप्सा ॥ ग्र्ह्त्च्म्_14.2-7:18 ॥
कुतः कटोरिकासकाशात् एष इत्थमुत्पन्नो मृतसूतराजो ज्ञेयः ॥ ग्र्ह्त्च्म्_14.2-7:19 ॥
स च सुखाध्मातः सन् गोलकवद्भवति वज्रमूषायां इति शेषः ॥ ग्र्ह्त्च्म्_14.2-7:20 ॥
काचः प्रतीतः टङ्कणं सौभाग्यं ततः रसो ऽति मर्यादामतिक्रम्य ध्मातः सन् एकरसो भवति समरस इत्यर्थः ॥ ग्र्ह्त्च्म्_14.2-7:21 ॥
केषां शिखिगलतां शिखिनि गलन्तीति विग्रहः शिखिगलतां धातूनां एवं गलिते रसे त्रिगुणं वङ्गं रङ्गं दद्यात् ततो वङ्गदानानन्तरं क्रमेण अल्पमल्पदानेन नागं सीसकं च दद्यादिति ॥ ग्र्ह्त्च्म्_14.2-7:22 ॥
तच्चाह पश्चादित्यादि ॥ ग्र्ह्त्च्म्_14.2-7:23 ॥
पश्चात् त्रिगुणसीसकदानानन्तरं हेम्ना कनकेन सह रसबीजं महाबीजं योज्यं हेम्ना सार्धं महाबीजं कीदृग्भवति ॥ ग्र्ह्त्च्म्_14.2-7:24 ॥
स्तर्त् ग्र्ह्त् 14.8-9
<मेर्चुर्य्:: मारण>
तालकसूतेनापि च कृत्वा वटिकां नियामकौषधिभिः
एवं निगृह्य धूमं सुधिया रसमारणं कार्यम् ।
रसबन्धकरं पारदबन्धप्रदं च पुनः तालकं हरितालं सूतो रसः तेनापि नियामकौषधिभिश्च शतावर्यादिभिः पूर्वोक्ताभिर् गुटिकां कृत्वा निगृह्य धूमं रुन्धितधूमं यथा स्यात्तथा सुधिया मतिमता रसज्ञेन एवममुना विधिना रसमारणं कार्यं पारदबन्धः कार्य इत्यर्थः ॥ ग्र्ह्त्च्म्_14.8:1 ॥
स्तर्त् ग्र्ह्त् 14.9
<मेर्चुर्य्:: मारण>
अथवा शिलया सूतो माक्षिकयोगेन वा सिद्धः ।
जायेत शुक्लवर्णो धूमरोधेन ताभ्यां वा
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह अथवेत्यादि ॥ ग्र्ह्त्च्म्_14.9:1 ॥
अथवा विध्यन्तरे शिलया मनोह्वया कृत्वा वा माक्षिकयोगेन ताप्यसंयोगं कृत्वा साधितस्तालकयोगवत् सूतो रसः शुक्लवर्णो जयेत ॥ ग्र्ह्त्च्म्_14.9:2 ॥
केन धूमरोधेन सैन्धवार्द्रमृदा लेपेन वा ताभ्यां शिलामाक्षिकाभ्याम् उभाभ्यां तालकयोगवत् साधितः सन् सूतः शुक्लवर्णो भवेद् इति ॥ ग्र्ह्त्च्म्_14.9:3 ॥
स्तर्त् ग्र्ह्त् 14.10
<मेर्चुर्य्:: मृत:: मेदिच्. उसे>
मृतशुल्वताप्यचूर्णं कान्तयुतं तेन रञ्जयेत्खोटम् ।
निर्व्यूढं घनसत्वहेमयुतं तद्रसायने योज्यम्
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह मृतेत्यादि ॥ ग्र्ह्त्च्म्_14.10:1 ॥
मृतशुल्बताप्यचूर्णं मृतं च यत् शुल्बं ताम्रं ताप्यं स्वर्णमाक्षिकं च तच्चूर्णं किंविशिष्टं कान्तयुतं चुम्बकमिश्रितं तेन मृतशुल्बताप्यचूर्णेन कान्तयुतेन पूर्वं निष्पन्नं खोटं रञ्जयेत् ॥ ग्र्ह्त्च्म्_14.10:2 ॥
किंविशिष्टं घनसत्त्वहेमयुतं अभ्रसत्वस्वर्णमिश्रितम् ॥ ग्र्ह्त्च्म्_14.10:3 ॥
एवंविधं तत्खोटं रसायने जराव्याधिनाशने योज्यम् ॥ ग्र्ह्त्च्म्_14.10:4 ॥
स्तर्त् ग्र्ह्त् 14.11-12
<??>
बलिना त्रिगुणेन रसात् पर्पटिकयुतेन मर्दितं सूतम् ।
नियामकदिव्यौषधिभिश्छायाशुष्का कृता वटिका
<??>
मूषाधृतपर्पटिकामध्ये संछाद्य निगूढसुदृढेन ।
ध्मातं गच्छति खोटं हेमयुतं सूतबन्धकरम्
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह बलिनेत्यादि ॥ ग्र्ह्त्च्म्_14.11-12:1 ॥
त्रिगुणेन बलिना गन्धकेन सह रसं सूतं सुदृढं यथा स्यात्तथा मर्दितं कुर्यात् इत्यध्याहारः ॥ ग्र्ह्त्च्म्_14.11-12:2 ॥
किंविशिष्टेन बलिना पर्पटिकयुतेन पर्पटिको लोहपर्पटिकः प्रतीतस्तेन युतेन मिलितेन नियमसंस्कारोक्ताः नियमकाः दिव्यौषधयः शतावरीप्रमुखास् ताभिः ततो वटिका छायाशुष्का कार्या छायाघर्मरूपा शुष्का नीरसा तथा कार्या इति ॥ ग्र्ह्त्च्म्_14.11-12:3 ॥
अन्यच्चाह मूषेत्यादि ॥ ग्र्ह्त्च्म्_14.11-12:4 ॥
मूषाधृतपर्पटिका मूषायां या पर्पटिका पूर्वोक्तलोहपर्पटिका सा निगूढसुदृढेन निगूढश्चासौ सुदृढश्च तेन मूलकादिक्षारबिडेन कृत्वा मध्ये स्वान्तः आच्छाद्य ध्मातं क्रियते पुनस् तदूध्मातं सत् खोटं गच्छति खोटत्वमाप्नोति ॥ ग्र्ह्त्च्म्_14.11-12:5 ॥
तत्खोटं हेमयुतं स्वर्णमिलितं सूतबन्धकरं स्यात् रसबन्धनप्रदम् इत्यर्थः ॥ ग्र्ह्त्च्म्_14.11-12:6 ॥
स्तर्त् ग्र्ह्त् 14.13-14
<मेर्चुर्य्:: मारण, खोट>
बलियुक्ता पर्पटिका मृदिता स्नुह्यर्कभाविता गुटिका ।
मध्ये गर्ता कार्या सूतभृताच्छादिता तदनु
बाह्ये दत्त्वा निगडं सुलिप्तमूषोदरे दृढं न्यस्तम् ।
सूतः पुटितो म्रियते ध्मातः खोटं भवत्येव
*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह बलीत्यादि ॥ ग्र्ह्त्च्म्_14.13-14:1 ॥
पूर्वोक्ता या पर्पटिका लोहपर्पटिका बलियुक्ता गन्धकमिश्रिता स्नुह्यर्कभाविता च स्नुही वज्री अर्को मन्दारस् ताभ्यां भाविता प्लुता एतयोः पयसेति भावः मृदिता च घर्षिता च एवं कृतविधाना पर्पटिका सति गुटिका वटिका कार्या मध्ये गुटिकान्तः गर्ता कार्या सा गर्ता ततः सूतभृता सूतपूरिता सती तदनु गर्तकरणानन्तरं आच्छादिता कार्या पर्पटिकयेति भावः ॥ ग्र्ह्त्च्म्_14.13-14:2 ॥
तच्चाह बाह्य इत्यादि ॥ ग्र्ह्त्च्म्_14.13-14:3 ॥
बाह्ये सूतोदरगुटिकोपरि निगडं दत्त्वा सुलिप्तमूषोदरे सुलिप्ता सारणकर्माभिहितौषधीरिति शेषः एवंविधा या मूषा तस्या यदुदरं तस्मिन्दृढं यथा स्यात्तथा निगडं न्यस्तं स्थापितं कुर्यादिति शेषः ॥ ग्र्ह्त्च्म्_14.13-14:4 ॥
मूषोदरगुटिकान्तस्थः सूतः पुटितो वह्नियोगात् म्रियते पञ्चत्वमाप्नोति ॥ ग्र्ह्त्च्म्_14.13-14:5 ॥
पुनः ध्मातः सन् खोटो भवति ॥ ग्र्ह्त्च्म्_14.13-14:6 ॥
एवाव्ययमन्यनिषेधवाचि ॥ ग्र्ह्त्च्म्_14.13-14:7 ॥
स्तर्त् ग्र्ह्त् 14.15
<मेर्चुर्य्:: मारण, खोट>
एवं तालशिलाभ्यां माक्षिकरसकैश्च दरदशिखिसहितैः ।
म्रियते पुटसंयोगाद् ध्मातं खोटं कृतं विमलम्
*चोम्म्. मुग्धावबोधिनी:
अन्यच्चाह एवमित्यादि ॥ ग्र्ह्त्च्म्_14.15:1 ॥
एवं लोहपर्पटिकाविधानेन तालशिलाभ्यां ध्मातं सत् युतं यत् खोटं तद्विमलं मलवर्जितं स्यात् ॥ ग्र्ह्त्च्म्_14.15:2 ॥
च पुनः माक्षिकरसकैस्ताप्यखर्परिकैः दरदशिखिसहितैश्च हिङ्गुलशिखिमिलितैश्च करणरूपैर्विमलं च पुनः पुटयोगाद् वह्निसंपर्कात् ध्मातं म्रियते ॥ ग्र्ह्त्च्म्_14.15:3 ॥
आदौ मललक्षणमुक्तम् ॥ ग्र्ह्त्च्म्_14.15:4 ॥
स्तर्त् ग्र्ह्त् 14.16
<मेर्चुर्य्:: मारण>
किट्टकपुरसंयोगाद् ध्मातैः किट्टस्तु किट्टतः सत्वम् ।
निपतति सत्वं रससाकं जनयति तद्भस्म तस्यापि
*चोम्म्. मुग्धावबोधिनी:
तच्चाह किट्टपुरसंयोगात् ॥ ग्र्ह्त्च्म्_14.16:1 ॥
किट्टं लोहमलं पुरो गुग्गुलुः तयोः संयोगात् ध्मातैः माक्षिकरसदरदरूपैः पूर्वोक्तैः किट्टो भवेत् पुनः किट्टतो रससाकं सूतमिश्रितं सत्त्वं सारं निपतति तत्सत्त्वं भस्म जनयति उत्पादयति ॥ ग्र्ह्त्च्म्_14.16:2 ॥
तस्यापि भस्मनः सत्त्वं च निपततीत्यर्थः ॥ ग्र्ह्त्च्म्_14.16:3 ॥
स्तर्त् ग्र्ह्त् 14.17
<रञ्जन wइथ् स्मोके अन्द् wइथोउत् मेर्चुर्य् (????)>
वङ्गरसगन्धतालं खटिकाया योगतः सुपर्पटिका ।
रञ्जयति सत्वतालं धूमेन विनापि सूतम्
*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह वङ्गरसगन्धतालमिति ॥ ग्र्ह्त्च्म्_14.17:1 ॥
वङ्गं त्रपु रसः सूतः गन्धको बलिः तालं हरितालं एतच्चतुष्टयं खटिकाया योगतः खटिका चित्रकरजस्तस्या योगतः सुपर्पटिकां पूर्वोक्तां लोहपर्पटिकां रञ्जयति सूतेन विनापि किमुत रसमिलितेन तालसत्त्वेनेति व्यक्तिः ॥ ग्र्ह्त्च्म्_14.17:2 ॥
स्तर्त् ग्र्ह्त् 14.18
<बीज:: fओर् रञ्जन>
एवं खोटं बीजं कृत्वा रञ्जनविधिना सुरञ्जनं कार्यम् ।
त्रिगुणं रसस्य हेम संयोज्यं तस्य वरबीजम्
मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0