भाषा

ENहिગુ
ग्रंथ पाठ

रसहृदयतन्त्र (टीका सहित) · अध्याय 13

13.1

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयतन्त्रे द्वन्द्वाधिकारात्मको द्वादशोऽवबोधः ॥
*चोम्म्. मुग्धावबोधिनी:
कान्तेत्यादि ॥ ग्र्ह्त्च्म्_12.12:1 ॥
माक्षिकेण मृतं यन्नागं तालं हरितालं शिला मनोह्वा च तत्तथा पूर्वोक्तकल्कसहितं यत्कल्कं रसोपरसादीनां तेन सहितं युक्तं कान्तमुखं यथा ।
अभावेऽभ्रकसत्त्वस्य कान्तसत्त्वं प्रदापयेत् ।
कान्तसत्वस्य वाभावे तीक्ष्णलोहं तु दापयेत् ।
इति ॥ ग्र्ह्त्च्म्_12.12:2 ॥
स्तर्त् ग्र्ह्त् 13.1
माक्षीककान्ततीक्ष्णं तीक्ष्णं माक्षीकम् अभ्रकं बीजम् ।
माक्षीककान्तशुल्बं तीक्ष्णाभ्रकं महाबीजम्

13.2

*चोम्म्. मुग्धावबोधिनी:
मधुनि माधव एव मधुव्रतः प्रकुरुते मुदितो मधुरं रवम् ।
वररवोऽपि सतां च समागमं शबलता किमुपैति न चारुताम् ॥ ग्र्ह्त्च्म्_13.1:1 ॥
संकरबीजानां मध्ये महाबीजसंज्ञान्याह माक्षिकेत्यादि ॥ ग्र्ह्त्च्म्_13.1:2 ॥
एतत्त्रिकं महाबीजं किमेतत् माक्षीककान्ततीक्ष्णं माक्षीककान्तशुल्बं तीक्ष्णाभ्रकं च माक्षीकं ताप्यं कान्तं चुम्बकं शुल्बं ताम्रं तीक्ष्णं लोहजातिर् अभ्रकं गगनं एतत्त्रितयं बीजं महाबीजं एतत्त्रित्रिमुखं प्रत्येकं महासंज्ञम् ॥ ग्र्ह्त्च्म्_13.1:3 ॥
विशेषोऽत्र ।
बीजपाकं प्रवक्ष्यामि जारणार्थं रसस्य तु ।
सूत्रक्रमोऽयं बीजेन समजीर्णेन शुध्यति ।
इति ॥ ग्र्ह्त्च्म्_13.1:4 ॥
अवान्तरत्वेन च प्रत्येकं द्रव्यं बीजसंज्ञाभिमतम् ॥ ग्र्ह्त्च्म्_13.1:5 ॥
स्तर्त् ग्र्ह्त् 13.2
माक्षीककान्तशुल्बं शुल्बाभ्रकमाक्षिकं चापि ।
कान्ताभ्रकमाक्षीकं ताप्यकशुल्बाभ्रकं महाबीजम्

13.3

*चोम्म्. मुग्धावबोधिनी:
तच्चाह माक्षीकेत्यादि ॥ ग्र्ह्त्च्म्_13.2:1 ॥
माक्षीककान्तशुल्बं माक्षीकं ताप्यं कान्तं चुम्बकं शुल्बं ताम्रं एतदपि महाबीजं ज्ञेयम् ॥ ग्र्ह्त्च्म्_13.2:2 ॥
पुनः शुल्बाभ्रकमाक्षीकं पुनः कान्ताभ्रकमाक्षीकं कान्तं कान्तपाषाणं अभ्रकं गगनं माक्षीकं ताप्यं तथा ताप्यकशुल्बाभ्रकं एतदपि च महाबीजं ज्ञेयमिति ॥ ग्र्ह्त्च्म्_13.2:3 ॥
स्तर्त् ग्र्ह्त् 13.3
माक्षीकतीक्ष्णशुल्बं तीक्ष्णशुल्बाभ्रकं महाबीजम् ।
माक्षीककान्तकनकं कनकारुणमाक्षिकं महाबीजम्

13.4

*चोम्म्. मुग्धावबोधिनी:
तच्चाह माक्षीकेत्यादि ॥ ग्र्ह्त्च्म्_13.3:1 ॥
माक्षीकतीक्ष्णशुल्बं माक्षिकं ताप्यं तीक्ष्णं सारलोहजातिः शुल्बं ताम्रम् ॥ ग्र्ह्त्च्म्_13.3:2 ॥
पुनस्तीक्ष्णशुल्बाभ्रकं तीक्ष्णं सारं शुल्बं ताम्रं अभ्रकं गगनम् ॥ ग्र्ह्त्च्म्_13.3:3 ॥
पुनर्माक्षीककान्तकनकं माक्षीकं ताप्यं कान्तं कान्तपाषाणं कनकं स्वर्णम् ॥ ग्र्ह्त्च्म्_13.3:4 ॥
पुनः कनकारुणमाक्षिकं कनकं स्वर्णं अरुणं ताम्रं माक्षिकं स्वर्णमाक्षिकं चेति चतुष्टयं महाबीजं प्रवरबीजम् इत्यर्थः ॥ ग्र्ह्त्च्म्_13.3:5 ॥
चतुर्णां प्रत्येकं महाबीजसंज्ञेति ॥ ग्र्ह्त्च्म्_13.3:6 ॥
स्तर्त् ग्र्ह्त् 13.4
माक्षीकतीक्ष्णतारं तारारुणमाक्षिकं चैवम् ।
कान्तं तु शुल्बताप्यं शुल्बाभ्रताप्यकांचनं चापि

13.5

*चोम्म्. मुग्धावबोधिनी:
तच्चाह माक्षीकतीक्ष्णतारमिति ॥ ग्र्ह्त्च्म्_13.4:1 ॥
माक्षीकं ताप्यं तीक्ष्णं सारं तारं रूप्यम् ॥ ग्र्ह्त्च्म्_13.4:2 ॥
पुनस्तारारुणमाक्षिकं एवमुक्तविधानेन इदमपि तारं रूप्यं अरुणं ताम्रं माक्षीकं ताप्यम् ॥ ग्र्ह्त्च्म्_13.4:3 ॥
पुनः कान्ते चुम्बकेऽभिव्यापके अधिकरणे शुल्बं ताम्रं ताप्यं स्वर्णमाक्षिकं यत् प्रयुक्तम् ॥ ग्र्ह्त्च्म्_13.4:4 ॥
अपीति निश्चयेन ॥ ग्र्ह्त्च्म्_13.4:5 ॥
शुल्बाभ्रताप्यकाञ्चनं वा शुल्बं ताम्रं अभ्रं गगनं ताप्यं स्वर्णमाक्षिकं काञ्चनं हेम एतच्चतुष्टयमपि महाबीजं ज्ञेयम् ॥ ग्र्ह्त्च्म्_13.4:6 ॥
महाबीजसंबन्धः प्रत्येकमिति व्यक्तिः ॥ ग्र्ह्त्च्म्_13.4:7 ॥
स्तर्त् ग्र्ह्त् 13.5
कान्तेन्दुसस्यताप्यं कान्ताभ्रकतीक्ष्णमाक्षिकं चैव ।
हेमाभ्रशुल्बताप्यं हेमाभ्रकशुल्बमाक्षिकं वापि

13.6

*चोम्म्. मुग्धावबोधिनी:
तच्चाह कान्तेन्दुसस्यताप्यमिति ॥ ग्र्ह्त्च्म्_13.5:1 ॥
कान्तं कान्तपाषाणं इन्दुस्तारं सस्यं चपला ताप्यं स्वर्णमाक्षिकं चेति ॥ ग्र्ह्त्च्म्_13.5:2 ॥
पुनः कान्ताभ्रकतीक्ष्णमाक्षिकं तथा हेमाभ्रशुल्बताप्यं पुनर्हेमाभ्रकशुल्बमाक्षिकं वा हेम कनकं अभ्रकं गगनं शुल्बं ताम्रं माक्षीकं ताप्यं एतच्चतुष्टयमपि महाबीजं ज्ञेयम् ॥ ग्र्ह्त्च्म्_13.5:3 ॥
प्रत्येकद्रव्ये बीजसंज्ञा चेति ध्वन्यर्थः ॥ ग्र्ह्त्च्म्_13.5:4 ॥
स्तर्त् ग्र्ह्त् 13.6
कान्ताभ्रशुल्बताप्यं सङ्करबीजं चतुःषष्टिः

13.7

*चोम्म्. मुग्धावबोधिनी:
तच्चाह कान्तेत्यादि ॥ ग्र्ह्त्च्म्_13.6:1 ॥
कान्ताभ्रशुल्बताप्यं कान्तं चुम्बकं अभ्रकं गगनं शुल्बं ताम्रं ताप्यं माक्षिकं इत्यपि महाबीजम् ॥ ग्र्ह्त्च्म्_13.6:2 ॥
एतेषां महाबीजानां चेत् संकरबीजं प्रत्येकं द्रव्यस्य बीजसंज्ञा सा तर्हि चतुःषष्टिप्रमाणा स्यादित्यर्थः ॥ ग्र्ह्त्च्म्_13.6:3 ॥
स्तर्त् ग्र्ह्त् 13.7
<महाबीज:: प्रोदुच्तिओन्>
सर्वेषां बीजानामादौ कृत्वा यथोक्तसंयोगम् ।
शतवाप्यं यद्वह्नौ द्रावितं हि बीजं विशुद्धमिदं

13.8

*चोम्म्. मुग्धावबोधिनी:
बीजविधानम् आह सर्वेषाम् इत्यादि ॥ ग्र्ह्त्च्म्_13.7:1 ॥
आदौ प्रथमं सर्वेषां बीजानां यथोक्तं संयोगं चतुःषष्टीनां उक्तसंज्ञानां द्रव्याणां संयोगं एकत्रीकरणं कृत्वा यदेकत्रीकृतं वह्नौ द्रावितं भवति तत्सर्वं शतवाप्यं बीजं सिद्धं प्रयत्नेन स्यादिति शब्दार्थः ॥ ग्र्ह्त्च्म्_13.7:2 ॥
स्तर्त् ग्र्ह्त् 13.8
<चारण, गर्भ- अन्द् बाह्यद्रुति नेचेस्सर्य् fओर् बन्धन>
न पतति यदि घनसत्वं गर्भे नो वा द्रवन्ति बीजानि ।
न च बाह्यद्रुतियोगस्तत्कथमिह बध्यते सूतः

मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc