रसहृदयतन्त्र (टीका सहित) · अध्याय 12
*चोम्म्. मुग्धावबोधिनी:
निर्वाहणविधानमाह छागेत्यादि ॥ ग्र्ह्त्च्म्_11.13:1 ॥
एवंविधां मूषां कृत्वा धातुनिर्वाहणं कुर्यात् इति शेषः ॥ ग्र्ह्त्च्म्_11.13:2 ॥
किंभूतां छागास्थिभस्मनिर्मितमूषामिति छागो बस्तस्तस्यास्थीनि तद्भस्मना निर्मिता कृता या मूषा ताम् ॥ ग्र्ह्त्च्म्_11.13:3 ॥
पुनः किंभूतां मल्लकाकारां गोस्तनसदृशीम् ॥ ग्र्ह्त्च्म्_11.13:4 ॥
पुनः किंविशिष्टां घनरन्ध्रां निबिडछिद्राम् ॥ ग्र्ह्त्च्म्_11.13:5 ॥
पुनः टङ्कणविषगुञ्जाकृतलेपां टङ्कणं सौभाग्यं विषं सक्तुकं गुञ्जा रक्तिका ताभिः कृतो लेपो यस्यां सा ताम् ॥ ग्र्ह्त्च्म्_11.13:6 ॥
एवंभूता मूषा दलयोगे पत्रमेलने कार्येत्यर्थः ॥ ग्र्ह्त्च्म्_11.13:7 ॥
स्तर्त् ग्र्ह्त् 12.1
अथ द्वन्द्वमेलनमभिधास्यते ।
<मोतिवतिओन् füर् द्वन्द्वमेलन>
यावन् नाङ्गाङ्गतया न मिलन्ति लोहानि सर्वसत्त्वेषु ।
तावत्सर्वाङ्गं न च चरति रसो द्वन्द्वयोगेन
*चोम्म्. मुग्धावबोधिनी:
वाचां विलासेन सुधानुकारी नु जगत्करोति ।
किंचित्स्वयं यत्पुरुषत्वमेव सुधाद्विजिह्वाश्रितम् इत्यदोषः ॥ ग्र्ह्त्च्म्_12.1:1 ॥
अथ द्वन्द्वयोगप्रकारमाह यावदित्यादि ॥ ग्र्ह्त्च्म्_12.1:2 ॥
यावदित्यवधौ ॥ ग्र्ह्त्च्म्_12.1:3 ॥
लोहानि हेमादीनि नागाङ्गतया भुजङ्गशरीरतया न मिलन्ति सुगमत्वेन एकशरीरतां नाप्नुवन्ति ॥ ग्र्ह्त्च्म्_12.1:4 ॥
केषु सर्वसत्त्वेषु अभ्रादीनां सारेषु सत्त्वस्य काठिन्याद्विनोपायं नैकतां यान्ति लोहानि ॥ ग्र्ह्त्च्म्_12.1:5 ॥
अतस्तावद्रसः सर्वाङ्गं न चरति ॥ ग्र्ह्त्च्म्_12.1:6 ॥
केन कृत्वा सत्वेषु लोहानि मिलन्ति द्वन्द्वयोगेन दरदादिना वा गुडपुरटङ्कणादिनेति ॥ ग्र्ह्त्च्म्_12.1:7 ॥
स्तर्त् ग्र्ह्त् 12.2
<मेतल्स्:: प्रेपरतिओन् fओर् द्व्.~>
माक्षीकरसकसस्यकदरदान्यतमेन वापितं लोहम् ।
संत्यजति निबिडभावं सत्वे संमिलति सुध्मातम्
*चोम्म्. मुग्धावबोधिनी:
सत्त्वमेलनविधानम् आह माक्षिकेत्यादि ॥ ग्र्ह्त्च्म्_12.2:1 ॥
लोहं स्वर्णादि ॥ ग्र्ह्त्च्म्_12.2:2 ॥
माक्षिकं ताप्यं रसकं खर्परिकं सस्यकं चपला दरदं हिङ्गुलं एतेन चतुष्केण वा एभ्यो ऽन्यतमेनोक्तरसोपरसेन वापितं सुध्मातं शोभनयुक्त्या ध्मातं च सत् निविडभावं संत्यजति सत्त्वे संमिलति च ॥ ग्र्ह्त्च्म्_12.2:3 ॥
स्तर्त् ग्र्ह्त् 12.3
<द्वन्द्वमेलापक:: प्रेपरतिओन्>
गुडपुरटङ्कणलाक्षासर्जरसैर् धातकीसमायुक्तैः ।
स्त्रीस्तन्येन तु पिष्टैः रसायने द्वंद्वितं योज्यम्
*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह गुडेत्यादि ॥ ग्र्ह्त्च्म्_12.3:1 ॥
इदं द्वंद्वितं द्वंद्वीकृतं लोहं सत्त्वेन मिलितं रसायने जराव्याधिनाशने योज्यम् ॥ ग्र्ह्त्च्म्_12.3:2 ॥
कैर्द्वन्द्वमेलापकैः कृत्वा द्वंद्वितमित्याह गुडेत्यादि ॥ ग्र्ह्त्च्म्_12.3:3 ॥
गुडः प्रतीतः पुरो गुग्गुलुः टङ्कणं सौभाग्यं लाक्षा जतु सर्जरसो राला एतैः धातकीसमायुक्तैः धातकी प्रतीता तत्समायुक्तैः पुनः स्त्रीस्तन्येन नारीदुग्धेन पिष्टैर्मर्दितैः एतैर्द्वन्द्वमेलापकैः कृत्वा ॥ ग्र्ह्त्च्म्_12.3:4 ॥
स्तर्त् ग्र्ह्त् 12.4
<द्वन्द्वमेलापक>
ऊर्णाटङ्कणगिरिजतुकर्णाक्षिमलेन्द्रगोपकर्कटकैः ।
नारीपयसा पिष्टैः सर्वे द्वन्द्वेषु हि मिलन्ति
*चोम्म्. मुग्धावबोधिनी:
सर्वे द्वन्द्वेषु सत्वं प्रति द्वन्द्वेषु मिलन्ति एकीभवन्ति लोहानि इति शेषः ॥ ग्र्ह्त्च्म्_12.4:1 ॥
एतैः कैः ऊर्णादिभिः ॥ ग्र्ह्त्च्म्_12.4:2 ॥
ऊर्णा प्रतीता टङ्कणं सौभाग्यं गिरिजतु शिलाजतु कर्णाक्षिमलं मनुष्यस्य इन्द्रगोपको जीवविशेषः कर्कटकश्चकुलीरः स्यात्कुलीरः कर्कटकः इत्यमरः एतैः ॥ ग्र्ह्त्च्म्_12.4:3 ॥
किंविशिष्टैः नारीपयसा स्त्रीदुग्धेन पिष्टैः कल्कितैः त्रयोऽपि द्वन्द्वमेलापकयोगा इति ॥ ग्र्ह्त्च्म्_12.4:4 ॥
स्तर्त् ग्र्ह्त् 12.5
<द्व.~ ओf रसवैक्रान्त अन्द् गोल्द् => बन्धन ओf मेर्चुर्य्>
रसवैक्रान्तकमेवं मिलति द्वन्द्वान्वितं समं हेम्ना ।
निर्व्यूढं तत्सत्वं तेन रसो बन्धमुपयाति
*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह रसेत्यादि ॥ ग्र्ह्त्च्म्_12.5:1 ॥
एवमुक्तविधानेन रसवैक्रान्तकं द्वन्द्वान्वितं स्वकीयद्वन्द्वसहितं मिलति पृथग्भावं त्यजति ॥ ग्र्ह्त्च्म्_12.5:2 ॥
केन समं हेम्ना सह ॥ ग्र्ह्त्च्म्_12.5:3 ॥
तद्रसवैक्रान्तसत्त्वं हेम्ना सह निर्व्यूढं कुर्यात् तेन रसवैक्रान्तसत्त्वहेमयोगेन रसो बन्धमुपयाति बद्धो भवतीति ॥ ग्र्ह्त्च्म्_12.5:4 ॥
स्तर्त् ग्र्ह्त् 12.6
<द्वन्द्वमेलापक>
शस्तं सर्वद्वन्द्वे गिरिजतुलेलीतकेन्द्रगोपाद्यैः ।
महिषीकर्णमलाद्यैः स्याद्बीजं टङ्कणालविषैः
*चोम्म्. मुग्धावबोधिनी:
अथ विशेषविध्यन्तरमाह शस्तमित्यादि ॥ ग्र्ह्त्च्म्_12.6:1 ॥
एवंविधं बीजं शस्तं क्व सर्वद्वन्द्वे ॥ ग्र्ह्त्च्म्_12.6:2 ॥
पुनरेतैः कृत्वा बीजं शस्तं स्यात् ॥ ग्र्ह्त्च्म्_12.6:3 ॥
कैः गिरिजतुलेलीतकेन्द्रगोपाद्यैः गिरिजतु शिलाजतु लेलीतको गन्धकः इन्द्रगोपः सुरेन्द्रगोपो जीवविशेषः एते आद्या येषां तैः ॥ ग्र्ह्त्च्म्_12.6:4 ॥
न केवलमेतैर् महिषीकर्णमलाद्यैश्च महिष्याः कर्णयोर्मल आद्यो येषां ते आद्यशब्दान्नासाक्षिमलं च ॥ ग्र्ह्त्च्म्_12.6:5 ॥
पुनष्टङ्कणालविषैः टङ्कणं सौभाग्यं आलं हरितालं विषं कन्दजं एतैः पिष्टैर्द्वन्द्वमेलापः स्यादिति पुनः संबन्धः ॥ ग्र्ह्त्च्म्_12.6:6 ॥
स्तर्त् ग्र्ह्त् 12.7
<द्वन्द्वमेलापक>
मधुसहितैरप्येतैस्ताराभ्रं मिलति ताप्यकनकं च ।
एरण्डतैलटङ्कणकंकुष्ठशिलेन्द्रगोपैस्तु
*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह मध्वित्यादि ॥ ग्र्ह्त्च्म्_12.7:1 ॥
एतैः पूर्वोक्तैर् योगैः मधुसहितैः क्षौद्रयुतैः ताराभ्रं रूप्यगगनं मिलति ॥ ग्र्ह्त्च्म्_12.7:2 ॥
च पुनस्ताप्यकनकं माक्षिकस्वर्णं इदं द्वन्द्वं च मिलति ॥ ग्र्ह्त्च्म्_12.7:3 ॥
न केवलं पूर्वोक्तयोगैर् मिलति पुनरेतैर् एरण्डतैलटङ्कणकङ्कुष्ठशिलेन्द्रगोपैश्च एरण्डतैलं वातारिस्नेहः टङ्कणं सौभाग्यं कङ्कुष्ठं विरङ्गं शिला मनोह्वा इन्द्रगोपको जीवविशेषः एतैश्च मधुसहितैः कृत्वा द्वन्द्वं मिलतीत्यवश्यम् ॥ ग्र्ह्त्च्म्_12.7:4 ॥
स्तर्त् ग्र्ह्त् 12.8
<मेलापन ओf मेर्चुर्य्, गोल्द्, अन्द् अभ्र>
सूतेन शुद्धकनकं निष्पिष्य समाभ्रयोजितं कृत्वा ।
पादेन तु पूर्वोक्तद्वन्द्वान्यतमकं कल्प्यम्
*चोम्म्. मुग्धावबोधिनी:
तद्विधानमाह सूतेनेत्यादि ॥ ग्र्ह्त्च्म्_12.8:1 ॥
प्रथमं सूतेन रसेन सह शुद्धकनकं निष्पिष्य संमर्द्य पुनः समाभ्रयोजितं कृत्वा समं च तदभ्रं च तेन योजितं कृत्वा पश्चात्पादेन चतुर्थांशविभागेन पूर्वोक्तद्वन्द्वान्यतमकं कल्प्यं पूर्वोक्तद्वन्द्वम् एरण्डतैलादिकं गिरिजत्वादिकं च तेभ्यो ऽन्यतमकं द्वन्द्वं योज्यमिति ॥ ग्र्ह्त्च्म्_12.8:2 ॥
स्तर्त् ग्र्ह्त् 12.9-10
<मेलापन ओf गोल्द् अन्द् अभ्र>
रसोपरसस्य हेम्नो द्विगुणं शुद्धमाक्षिकं दत्त्वा ।
स्वरसेन काकमाच्या रम्भाकन्देन मृद्नीयात्
कृतमित्येतत्पिण्डं हेमाभ्रं मिलति वज्रमूषायाम् ।
विध्यन्तरमाह रसेत्यादि ॥ ग्र्ह्त्च्म्_12.9:1 ॥
रसोपरसस्य वैक्रान्तगन्धकादेर्मध्ये शुद्धमाक्षिकं निर्दोषं ताप्यं हेम्नो द्विगुणं कनकाद्द्विगुणितं दत्त्वा द्विगुणमाक्षिकयुतं हेम दत्त्वेत्यर्थः ॥ ग्र्ह्त्च्म्_12.9:2 ॥
एतद्रसोपरसादिकं काकमाच्या वायस्याः स्वरसेन मृद्नीयात् मर्दनं कुर्यात् ॥ ग्र्ह्त्च्म्_12.9:3 ॥
रम्भाकन्देन च कदलीकन्देनापीत्यर्थः ॥ ग्र्ह्त्च्म्_12.9:4 ॥
एतत्पूर्वौषधं पिण्डं गोलाकारं कुर्यात् ॥ ग्र्ह्त्च्म्_12.9:5 ॥
इतिविधानेन हेमाभ्रं मिलति हेमताप्यं चेति ॥ ग्र्ह्त्च्म्_12.9:6 ॥
क्व वज्रमूषायाम् ॥ ग्र्ह्त्च्म्_12.9:7 ॥
तथाह ।
मृदस्त्रिभागाः शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः ।
किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्वपाते ।
इति ॥ ग्र्ह्त्च्म्_12.9:8 ॥
स्तर्त् ग्र्ह्त् 12.10
<मेलापन ओf अभ्रसत्त्व wइथ् दिff. सुब्स्तन्चेस्>
रविशशितीक्ष्णैरेवं मिलन्ति गगनादिसत्वानि
*चोम्म्. मुग्धावबोधिनी:
एवम् अमुना विधिना रविशशितीक्ष्णैः सह रविस्ताम्रं शशी रूप्यं तीक्ष्णं लोहजातिः एतैः सार्धं गगनादिसत्वानि अभ्रादीनां साराणि मिलन्तीति युग्मम् ॥ ग्र्ह्त्च्म्_12.10:1 ॥
स्तर्त् ग्र्ह्त् 12.11
<मेलापन fओर् सङ्करबीजस्>
सङ्करबीजानामपि विधानमित्यादि गगनसत्वयोगेन ।
माक्षीकयोगादन्यं योज्यमवश्यं तु सर्वत्र
*चोम्म्. मुग्धावबोधिनी:
अभ्रसत्वस्याधिकारमाह संकरेत्यादि ॥ ग्र्ह्त्च्म्_12.11:1 ॥
सङ्करबीजानामपि विधानं कर्तव्यार्थोपदेश इति यावत् ॥ ग्र्ह्त्च्म्_12.11:2 ॥
इत्यादि पूर्वोक्तं तु पुनः गगनसत्वयोगेन अभ्रकसत्त्वेन सार्धं माक्षीकयोगाद् अन्यं योज्यं अभ्रसत्वेन सह माक्षीकं न स्यादिति व्यक्तिः ॥ ग्र्ह्त्च्म्_12.11:3 ॥
स्तर्त् ग्र्ह्त् 12.12
कान्तमुखं सर्वेषां सत्त्वानां मेलकं प्रथमम् ।
पूर्वोक्तकल्कसहितं माक्षीकमृतनागतालशिलम्
मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0