रसहृदयतन्त्र (टीका सहित) · अध्याय 11
*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह चूर्णितेत्यादि ॥ ग्र्ह्त्च्म्_10.15-17:1 ॥
चूर्णितसत्वसमानं चूर्णितं पिष्टं यत् सत्वं सारं तत्समानं विशुद्धत्वात् सत्वसमानं धातुरसोपरसचूर्णं इति शेषः ॥ ग्र्ह्त्च्म्_10.15-17:2 ॥
एवंविधं विशुद्धं चूर्णं आदरेण प्रीत्या आदौ संगृह्य टङ्कणपलसप्तयुतं कुर्यात् सौभाग्यस्य पलैः सप्तसंख्याकैः सहितं कुर्यादित्यर्थः ॥ ग्र्ह्त्च्म्_10.15-17:3 ॥
विशुद्धे चूर्णे त्रिंशत्पले सप्तपलं सौभाग्यं योज्यं एवं टङ्कणविधानेन च पुनः गुञ्जापलत्रितयेन रक्तिकापलत्रितयपरिमाणेन योजितं कुर्याद् इति ॥ ग्र्ह्त्च्म्_10.15-17:4 ॥
तिलचूर्णककिट्टपलैः तिलं प्रतीतं तेषां चूर्णकं किट्टं मुण्डादीनां मलं तयोः पलैः पलमानैर्गोधूमबद्धपिण्डी बहुशो बहुवारं गोपञ्चकभावितं गवां क्षीराज्यदधिमूत्रविट्केन भाविता किं कृत्वा मत्स्यैर् आलोड्य मत्स्यैः क्षुद्रजलचरैर् आलोड्य संमिश्र्येत्यर्थः ॥ ग्र्ह्त्च्म्_10.15-17:5 ॥
कोष्ठके कोष्ठिकायन्त्रे धमनविधिना उत्क्षिप्योत्क्षिप्य धमनेन भस्त्रानलेन तत् सत्वं पतति पूर्वसंबन्धात् ताप्यादीनां इति शेषः ॥ ग्र्ह्त्च्म्_10.15-17:6 ॥
च पुनरभ्रसत्वं अभ्रकात्सारं संद्रवति ॥ ग्र्ह्त्च्म्_10.15-17:7 ॥
तथैवोक्तविधानेन सर्वाणि समस्तानि सत्वानि साराणि पतन्ति अनुक्तानां इति शेषः ॥ ग्र्ह्त्च्म्_10.15-17:8 ॥
स्तर्त् ग्र्ह्त् 11.1-2
अथ बीजनिर्वाहणम् आरभ्यते ।
<स्वर्णमाक्षिक:: fओर् प्रोदुच्तिओन् ओf गोल्द् (?)>
स्वीकृत्य सर्वसरितो गङ्गा जलधौ यथा तथा हैमम् ।
प्रविशति रसे गृहीत्वा संमिलिति सर्वलोहगुणान्
जीर्यति मिलति च शुल्बे तत्सत्वं किट्टतां याति ।
सुवृत्तः सद्रृतारम्भः सुज्ञः संज्ञानदर्शकः ।
अभूच्च धनधर्मज्ञो हारी कुञ्जनसंपदाम् ॥ ग्र्ह्त्च्म्_11.1:1 ॥
आदौ हैमप्रशंसाम् आह स्वीकृत्येत्यादि ॥ ग्र्ह्त्च्म्_11.1:2 ॥
हैमं स्वर्णमाक्षिकसत्वं संमिलिति किंकृत्वा सर्वलोहगुणान् सर्वलोहेषु समस्तधातुषु संमिलिता मिश्रिताः ये गुणास् तान् गृहीत्वा तथा रसे प्रविशति यथा गङ्गा सर्वा नद्यः सरितः स्वीकृत्य अङ्गीकृत्य जलधौ समुद्रे प्रविशति ॥ ग्र्ह्त्च्म्_11.1:3 ॥
ताप्यसत्वाधिकारम् आह जीर्यतीत्यादि ॥ ग्र्ह्त्च्म्_11.1:4 ॥
तत् हैमं ताप्यसत्वं शुल्बे ताम्रे मिलति सति सत्त्वं जीर्यति जारणत्वमाप्नोति रसे इति शेषः ॥ ग्र्ह्त्च्म्_11.1:5 ॥
तस्मिन् सत्वे शुल्बे मिलति सति किट्टतां याति लोहमलसदृशं स्यात् ॥ ग्र्ह्त्च्म्_11.1:6 ॥
स्तर्त् ग्र्ह्त् 11.2
<पस्सेन्दे स्तोffए füर् स्वर्ण-, तारक्रिया>
हेमक्रियासु करिणा त्रपुणा तारक्रियासु निर्व्यूढम्
*चोम्म्. मुग्धावबोधिनी:
प्रथमं तत्सत्वं करिणा नागेन सह हेमक्रियासु स्वर्णकार्येषु निर्व्यूढं रसे निर्वाहितं कुर्यादित्यर्थः ॥ ग्र्ह्त्च्म्_11.2:1 ॥
पुनस्त्रपुणा वङ्गेन सह तारक्रियासु रूप्यकार्येषु निर्व्यूढं कुर्यात् नागवङ्गौ सर्वत्र पीतसितकार्येषु प्रशस्तावित्यर्थः ॥ ग्र्ह्त्च्म्_11.2:2 ॥
स्तर्त् ग्र्ह्त् 11.3
<हेर्स्तेल्लुन्ग् एइनेस् बीजस्>
घनसत्वं खलु रविणा रसायने द्वंद्वकं योज्यम् ।
रक्तगणपातभावितगिरिजतुमाक्षिकगैरिकदरदैः
*चोम्म्. मुग्धावबोधिनी:
अभ्रसत्वयोगमाह घनसत्वम् इत्यादि ॥ ग्र्ह्त्च्म्_11.3:1 ॥
खलु निश्चये वाक्यालङ्कारे वा घनसत्वम् अभ्रसारं रविणा ताम्रेण सह रसायने जराव्याधिनाशने द्वंद्वकं घनसत्वताम्रं योज्यं पुनः रक्तगणपातभावितगिरिजतुमाक्षिकगैरिकदरदैः रक्तगणस्य यः पातः पातनं निक्षेपो वा तेन भावितानि घर्मपुटितानि गिरिजतुमाक्षिकगैरिकदरदानि गिरिजतु शिलाजतु माक्षिकं प्रतीतं दरदं हिङ्गुलं एतैर्बीजशेषं कुर्याद् इत्यागामिश्लोकाज्ज्ञेयम् ॥ ग्र्ह्त्च्म्_11.3:2 ॥
स्तर्त् ग्र्ह्त् 11.4
<गोल्द्:: बीज>
मृदुलताम्रकान्तघनसत्वं मृतनागतीक्ष्णकनकं च ।
कुर्वीत बीजशेषं दरदशिलातालमाक्षिकैर्वापात्
*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह मृदुलेत्यादि ॥ ग्र्ह्त्च्म्_11.4:1 ॥
मृदुलं नेपालसंज्ञिकं ताम्रं कान्तं लोहजाति घनसत्वमभ्रसारं पुनर्मृतं नागं सीसकं तीक्ष्णं लोहजाति कनकं हेम एतत्त्रयं बीजं शुल्बादित्रयं च बीजसंज्ञकं दरदशिलातालमाक्षिकैर्वापात् दरदं हिङ्गुलं शिला मनोह्वा तालं हरितालं एतैः कृत्वा वापः वह्नितप्ते परिक्षेपः तस्मात् बीजशेषं कुर्वीत उभयोर्बीजे अभ्रसत्वहेम्नः शेषे कुर्यादित्यर्थः वा एवं कृते यच्छेषं तिष्ठति तद्बीजमिति ॥ ग्र्ह्त्च्म्_11.4:2 ॥
स्तर्त् ग्र्ह्त् 11.5
<गोल्द्, सिल्वेर्:: बीज>
मृतनागं वङ्गं वा शुल्वं घनसत्वतारकनकं वा ।
ध्मातं तदेव सर्वं गिरिणाधिकशोधनैर्वापात्
*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह मृतं नागम् इत्यादि ॥ ग्र्ह्त्च्म्_11.5:1 ॥
मयन्नागं सीसकं तन्मृतनागं च मृतं यद्वङ्गं रक्तगणावापमृतं च यच्छुल्वं वा घनसत्वतारकनकं घनसत्वमभ्रसारं तारं रूप्यं कनकं हेम एतन्नदुगणसर्वं वा प्रत्येकं पृथक् गिरिणा शिलाजतुना सह ध्मातं कुर्यात् अधिकशोधनैः दरदशिलातालैर्वापात् बीजशेषं कुर्यादिति पूर्वसंबन्धः ॥ ग्र्ह्त्च्म्_11.5:2 ॥
स्तर्त् ग्र्ह्त् 11.6-7
<गोल्द्:: बिज (?)>
रक्तगणं पीतं वा माक्षिकराजावर्तम् अथो विमलम् ।
एकतमं वा गैरिककुनटीक्षितिगन्धकखगैर्वा
निर्व्यूढैरेव रसो रागादि गृह्णाति बन्धमुपयाति ।
मृतलोहोपरसाद्यैर् निर्व्यूढं भवति शृङ्खलाबीजम्
*चोम्म्. मुग्धावबोधिनी:
रक्तगणं दाडिमकिंशुकादिकं वा पीतगणं यथा ।
किंशुकः कर्णिकारश्च हरिद्राद्वितयं तथा ।
पीतवर्गोऽयमुद्दिष्टो रसराजस्य कर्मणि इति ॥ ग्र्ह्त्च्म्_11.6-7:1 ॥
वा माक्षिकं ताप्यं वा राजावर्तं राजवर्तो लाजवरद इति भाषायां अथ विमलं तारमाक्षिकं इत्येकतमं सर्वमेव वा गैरिककुनटीक्षितिगन्धकखगैः गैरिकं प्रतीतं कुनटी मनोह्वा क्षितिः स्फटकी गन्धकः प्रतीतः खगः कासीसं एतैरिति ॥ ग्र्ह्त्च्म्_11.6-7:2 ॥
एतैः पूर्वोक्तैरेव रसे निर्व्यूढे रसो रागादि रञ्जनादि गृह्णाति आदिशब्दात् सारणं च विज्ञेयं पुनर्बन्धम् उपयाति बन्धनमाप्नोति पुनः मृतलोहोपरसाद्यैः मृताश्च ते लोहाश्च धातवश्च त एव उपरसा गन्धकाद्याः आद्यशब्दात् रसा अपि तैर्निर्व्यूढैः कृत्वा शृङ्खलाबीजं उत्तरोत्तरं रञ्जकं भवतीत्यर्थः ॥ ग्र्ह्त्च्म्_11.6-7:3 ॥
स्तर्त् ग्र्ह्त् 11.8
<बीज fओर् रञ्जन अन्द् बन्धन ओf मेर्चुर्य्>
आयसशलाकिकाभ्याम् अद्वन्द्वाख्यैश्च सङ्कराख्यैश्च ।
निर्व्यूढं रसलोहैर्जारणकर्मोचितं भवति
*चोम्म्. मुग्धावबोधिनी:
रसलोहैरिति रसा वैक्रान्तादयो लोहा धातवः प्रतीतास् तैर् निर्व्यूढं किंविशिष्टैः अद्वन्द्वाख्यैः एकात्मैः संकरैर्वा सर्वैः संकरोऽवकरे इत्यमरः एवं निष्पन्ने बीजं जारणयोग्यं सदित्यर्थः ॥ ग्र्ह्त्च्म्_11.8:1 ॥
स्तर्त् ग्र्ह्त् 11.9
बीजमिदं रक्तगणे निषेचितं तेन कृतवापम् ।
चारितजारितमात्रं सूतं रञ्जयति बध्नाति
*चोम्म्. मुग्धावबोधिनी:
विशेषविध्यन्तरमाह बीजमित्यादि ॥ ग्र्ह्त्च्म्_11.9:1 ॥
इदं निष्पन्नबीजं रक्तगणे निषेचितं कुर्यात् ॥ ग्र्ह्त्च्म्_11.9:2 ॥
पुनस्तेन रक्तगणेन कृतवापं कृतो वापो यस्मिन् तत् ॥ ग्र्ह्त्च्म्_11.9:3 ॥
पुनस्तद्बीजं चारितजारितमात्रं पूर्वं च पश्चात् जारितं सन्तं सूतं रञ्जयति रागं प्रापयति बध्नाति चेति ॥ ग्र्ह्त्च्म्_11.9:4 ॥
स्तर्त् ग्र्ह्त् 11.10
<बीज:: fउर्थेर् प्रोचेस्सिन्ग्>
रक्तस्नेहविशोधितमृतलोहरसादिभिस्तु सर्वेषाम् ।
बीजानां कुरु वापं रक्तस्नेहे निषेकं च
*चोम्म्. मुग्धावबोधिनी:
तच्चाह रक्तेत्यादि ॥ ग्र्ह्त्च्म्_11.10:1 ॥
रक्तस्नेह इति रक्तगणो दाडिमकिंशुकादिकः स्नेहः कङ्गुण्यादीनां एतैर्विशोधिताः पश्चान्मृता ये धातवो रसादयश्च रसोपरसास्तैः सर्वेषां बीजानां पूर्वोक्तानां वापं कुरु रसे इति शेषः वा रक्ते रक्तवर्णे स्नेहे स्नेहवर्गे निषेकं च विधानद्वयमिदम् ॥ ग्र्ह्त्च्म्_11.10:2 ॥
स्तर्त् ग्र्ह्त् 11.11
<सिल्वेर्:: बीजस्>
वङ्गाभ्रम् अभ्रतारं सितशैलमलाहतौ च सितवङ्गौ ।
रक्तं सितताप्यहतं रमति निर्व्यूढवङ्गाभ्रम्
*चोम्म्. मुग्धावबोधिनी:
पीतक्रियायां बीजान्युक्तानि अथ श्वेतक्रियायां बीजान्याह वङ्गेत्यादि ॥ ग्र्ह्त्च्म्_11.11:1 ॥
वङ्गाभ्रमिति वङ्गं रङ्गं अभ्रं गगनं एते बीजहेतवे इति शेषः ॥ ग्र्ह्त्च्म्_11.11:2 ॥
पुनरभ्रतारं अभ्रं गगनं तारं रूप्यं इति च सितं श्वेतं यच्छैलमलं शिलाजतु तेन आहतौ सम्यक् मृतौ सितवङ्गौ ताररङ्गौ कार्यौ पुनः रक्तं हेम सितं तारं ताप्यं माक्षिकं ताभ्यां हतं मारितं कुर्यात् ॥ ग्र्ह्त्च्म्_11.11:3 ॥
पुनस्तारं रूप्यं निर्व्यूढं वङ्गं चाभ्रं च यत्र तदेवंविधं कुर्यात् ॥ ग्र्ह्त्च्म्_11.11:4 ॥
एतत्सर्वं रसे तारक्रियासु योज्यमित्यर्थः ॥ ग्र्ह्त्च्म्_11.11:5 ॥
स्तर्त् ग्र्ह्त् 11.12
निर्वाहणविधिरेषः प्रकाशितोऽशेषदोषशमनाय ।
बीजानामप्येवं घनसत्वं युज्यते प्रथमम्
*चोम्म्. मुग्धावबोधिनी:
बीजेऽभ्रसत्वं प्रधानमाह निर्वाहणेत्यादि ॥ ग्र्ह्त्च्म्_11.12:1 ॥
एषः किमर्थः अशेषदोषशमनाय धात्वादीनां समस्तदोषनाशनायेत्यर्थः ॥ ग्र्ह्त्च्म्_11.12:2 ॥
एवममुना प्रकारेण यथा धातुनिर्वाहणविधिस्तथा बीजानां रसे निर्वाहणं कुर्यात् सर्वबीजनिर्वाहणे अभ्रकसत्वं प्रथमं निर्वाह्यमिति ज्ञेयम् ॥ ग्र्ह्त्च्म्_11.12:3 ॥
स्तर्त् ग्र्ह्त् 11.13
<च्रुचिब्ले fओर् बीजनिर्वाहण>
छागास्थिभस्मनिर्मितमूषां कृत्वैव मल्लकाकाराम् ।
दलयोगे घनरन्ध्रां टङ्कणविषगुञ्जाकृतलेपाम्
मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0