रसाध्यय · श्लोक 77-95
राजिकालवणवह्निमूलकै रूषणा इकयुतैः कलाशकैः
पारदस्य मृदुवह्नितस्त्विदं स्वेदनं तुषजलेन तन्यते ॥
काञ्जिकौषधपत्त्रान्तः पोटलीमध्यलम्बनः
चुल्हाग्नौ स्वेद्यते स्वेद्यं यत्रेदं दोलयन्त्रकम् ॥
वस्त्रं चतुष्पुटं कृत्वा खगेनापि पुटीकृतम्
स्वेद्यं सूतं च मन्दाग्नौ यथा नोपक्षयं व्रजेत् ॥
व्योषार्द्रशिग्रुकन्दश्च मयूरमूलकासुरी
काञ्जिकेन च संस्वेद्यं सूतं बुद्धिमता दिनम् ॥
गोमहिष्याश् च मेषाणां खरमूत्रैश्च पञ्चभिः
पञ्चभिर्लवणैः क्षारैः स्वेदनीयं रसेश्वरम् ॥
चाङ्गेरी काञ्जिकं निम्बु जम्बीरबीजपूरकैः
रसैः संस्वेदनीयं च पारदं मुखवाञ्छया ॥
उत्तरस्यां भवेत्स्थूलो रक्तसैन्धवखोटकः
तद्गर्भे रन्ध्रकं कृत्वा सूतं च स्वेदितं क्षिपेत् ॥
ततश्च चणकक्षारं दत्त्वा चोपरि नैम्बुकम्
रसं प्रक्षिप्य दातव्यस् तादृक् सैन्धवखोटकः ॥
गर्तां कृत्वाथ भूगर्भे क्षिप्त्वा सैन्धवसम्पुटम्
धूलिम् अष्टाङ्गुलिं दत्त्वा कारीषं दिनसप्तकम् ॥
वह्निं संज्वाल्य तद्ग्राह्यं क्षालयेत्काञ्जिकेन च
अयं नियामको नाम संस्कारो ह्य् अष्टमः स्मृतः ॥
चणकक्षारनाशे च चूर्णं स्यान् नवसारजम्
साजीक्षारस्य तन्नाशे क्षारो झीजरटस्य च ॥
हिङ्गुपूषा च तन्नाशे तथैरण्डफैलानि च
पूषा दत्त्वा च प्रत्येकं प्रक्षिपेन् नैम्बुकं रसम् ॥
अतीवाग्निसहो जातः पारदोऽसौ नियामकः
काचकुम्पे मृदा लिम्पेन् मध्ये नियामकं रसम्
क्षिप्त्वास्ये चीवरं बद्ध्वा छन्नं कोडीयकेन च ॥
भूगर्ते कुम्पिकां क्षिप्त्वा दत्त्वा चोपरि वालुकाम्
कारीषाग्निं प्रतिदिनं ज्वालयेद् दिनसप्तकम् ॥
कुम्पिकाया रसो ग्राह्यो विधिप्रोक्तो निरोधकः
रसनां लेलिहानश्च पीडितो ऽतिबुभुक्षया ॥
स्नुही च गिरिकर्णी च क्षीरिणी वज्रकञ्चुकी
सर्पाक्षी मेघनादा च मत्स्याक्षी मृगभोजनी ॥
शिरःपुङ्खा च चाङ्गेरी वज्रवस्त्री पुनर्नवा ॥
मधुकंसारिवे तिक्ता त्रायन्ती चन्दनामृता ॥
अरण्यतुलसी कृष्णा शाखिनी रविभूलिका
एतानि नियमिका प्रोक्ता रसकर्मणि शम्भुना ॥
मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0