रसाध्यय · श्लोक 57-76
एवं पातनयन्त्रेण सप्तवारं तु पातयेत्
सूतमभ्रं द्वयं मर्द्यं काञ्जिकेन समन्ततः ॥
स्थालिकातलमध्येऽपि स्थाप्यं तत् कृतगोलकम्
त्रिफलाराजिकावह्नि विषशिग्रुसमांशकैः ॥
ऊर्ध्वस्थालीं समालिप्य कर्तव्यं सम्पुटं वरम्
संधौ च मृत्स्नयावेष्ट्य डमरुं यन्त्रमुत्तमम् ॥
कार्या चास्योर्ध्वभागे ऽपि कुण्डली विहिता परा
तदधो ज्वालयेदग्निं मन्दं मन्दं त्रियामकम् ॥
अधः स्थालीं परित्यज्य चोर्ध्वस्थाल्यां परिव्रजेत्
कासीसं सैन्धवं सूतं तत्तुल्यं च दिनावधि
कासीसस्य ह्य् अभावेन दातव्या फुल्लतूरिका ॥
स्तोकं स्तोकं क्षिपेत्खल्वे त्रयमेकत्र मर्दयेत्
प्रत्येकं शतनिष्कं स्याद् ऊनं नैवाधिकं क्वचित् ॥
स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत्
ऊर्ध्वलग्नं तु तं शुद्धं पारदं चाहरेत् शुभम् ॥
पत्त्राणि ताम्रस्य लघूनि पिष्टीं कृत्वा रसेन त्रिगुणेन भाण्डे
........... ........... ॥
ताम्रात् सूतं रसात्ताम्रं पातनाय पृथक्कृतम्
द्वयं तथैव सम्पिष्य पीठी कार्या च पूर्ववत् ॥
तां ताम्रसूतयोः पीठीं स्थालिकायां क्षिपेत्पुनः
स्थालीं चाधोमुखीं त्व् अन्यां लिम्पेद् वस्त्रमृदा मुखे ॥
यन्त्रो डमरुकाख्योऽसौ तथा विद्याधराभिधः
उपरि स्थालिकाबुन्धे दातव्यं गोमयं ततः ॥
अधः स्थाल्यास्त्वधो बुन्धे यामं मृद्वग्निना पचेत्
सूतो यात्युपरिस्थाल्यास् ताम्रं तत्रैव तिष्ठति ॥
सप्तवेलमिदं कार्यं सूतोत्थापनमुच्यते
व्यापको जायते स्वच्छः पातितोत्थापितो रसः ॥
शिग्रुवृक्षस्य पत्त्राणि वारिणा वर्तयेद्यथा
जायतेऽतिमृदुः पिण्डः कुर्यात्पिण्डस्य कुल्हडीम् ॥
ताम्रं त्यक्त्वोत्थितं सूतं लुणं द्वात्रिंशदंशकम्
कृतप्राक्कुल्हडीमध्ये आक्षिपेत्तं समग्रकम् ॥
आरनालं क्षिपेत्स्थाल्यां रसं निम्बुकसम्भवम्
कण्ठे काष्ठं च बध्नीयाद् वस्त्रे प्राक्कृतकुल्हडीम् ॥
काष्ठे वस्त्रं च बध्नीयान् न स्पृशेत्काञ्जिकं यथा
पिहितायां तथा स्थाल्यां मृद्वग्निर् ज्वालयेदधः ॥
प्रत्यहं त्व् अष्टयामं च कार्यं सप्तदिनानि वै
प्रत्यहं शिग्रुपत्त्रैश् च कार्या कुल्हडिका नवा ॥
नष्टं नष्टं चारनालं प्रक्षिपेन् नूतनं मुहुः
दोलायन्त्रेण कर्तव्या रसस्य स्वेदने विधिः ॥
स्वेदनैर् वह्निर् उत्पन्नो रसो जातो बुभुक्षितः
सम्प्रत्य् ऊर्ध्वरसो ऽत्यर्थं सहते ऽग्निं विपाचने ॥
मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0