रसाध्यय · श्लोक 96-115
आसां नियामिकानां तु यथालाभं प्रकल्पयेत्
पक्षछिन्नो भवेन् नूनम् ओषध्या पुण्यपाकतः ॥
नियामिकां ततो वच्मि सूतस्य मारकर्मणि
सर्पाक्षी क्षीरिणी वध्या मत्स्याक्षी शङ्खपुष्पिका ॥
काकजङ्घा शिखिशिखा ब्रह्मदण्ड्य् आखुपर्णिका
वर्षाभूः कञ्चुकी मूर्वा माचीकोत्पलचिञ्चिकम् ॥
शतावरी च द्विलता वज्रकन्दादिकर्णिका
मण्डूकपर्णी पाठाली चित्रको ग्रीष्मसंदरः ॥
काकमाची महाराष्ट्री हरिद्रा तिलपर्णिका
श्वेतार्कौ शिग्रुधत्तूर मृगदूर्वा हरीतकी ॥
गुडूची मुसली पुङ्खा भृङ्गराड् रक्तचित्रकम्
नारङ्गं सूरणं मुण्डी मलं कापोतकोकिलम् ॥
सैन्धवं श्वेतवर्षाभू खापरं हिङ्गुमाक्षिकम्
विष्णुक्रान्ता सोमवल्ली ब्रह्मघ्नी यक्षलोचना ॥
व्याघ्रपादी हंसपादी वृश्चिकाली कुतुम्बकम्
स्वयीभुक् कुसमं कुम्भी हस्तिशुण्डीन्द्रवारुणी ॥
बीजीन्य् अरूष्करस्यापि सर्व एते नियामिकाः
एताः समस्ता व्यस्ता वा देया सप्तदशाधिकाः ॥
मारणे मूर्छने बन्धे रसस्यैता नियोजयेत्
अप्रसूतगवां मूत्रैः पिष्टा मूर्वां नियामकाः ॥
तद्द्रावैर् मर्दयेत् सूतं यथा पूर्वोदितं क्रमात्
इत्येवं जारणायुक्तं मारणं परिकीर्तितम् ॥
बीजपूरस्य सद्वृन्तं प्रोत्सार्य कुरु रन्ध्रकम्
निरोधकं सलवणं क्षिप्त्वैकं तेन छादयेत् ॥
काञ्जिकेन भृता स्थाली निम्बुकानां रसाचिता
दोलायन्त्रेण तन्मध्ये ब्रुडन्तं बीजपूरकम् ॥
बद्ध्वा पिधाय सप्ताहं हठाग्निं ज्वालयेद् अधः
प्रत्यहं मातुलिङ्गैश् च नव्यैर् भव्यभवन् मुखम् ॥
ग्रसते चाभ्रक्वादीनि सूतेनास्यं प्रसारितम्
व्यात्तवक्त्रो ग्रसत्येव क्षिप्तं सर्वं च जीर्यति ॥
कर्कोटीफणिनेत्राभ्यां विञ्चिकाम्बुजमार्कवैः
नियम्यो ऽसौ ततः सम्यक् चपलत्वं निवर्तयेत् ॥
मर्दनमूर्छनपातैः कदर्थितो भवति मन्दवीर्यस्तु ।
सृष्ट्याम्बुजैर् निरोधात् तलद्वयप्रायो न खण्डः स्यात् ॥
इत्थंकदर्थिततनुर्गलितात्मवीर्यः सृष्ट्यां चितश् छगणकैः पुटितो वली स्यात्
भूटङ्कणोषणस्वयासुरिशिग्रुपिष्टैः स्विन्नस्त्र्यहे तुषजलेऽथभवेत्सुदीप्तः ॥
त्रिफला चित्रमूलं च सौराष्ट्री नवसादरम्
शिग्रुरसेन संभाव्य मर्दयेच् च दिनत्रयम् ॥
तेनैव मध्यगं कृत्वा नियम्योऽसौ पुनः पुनः
त्रयोदशे ऽह्णि सम्प्राप्ते जायते दीपनं शुभम् ॥
मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0