भाषा

ENहिગુ
ग्रंथ पाठ

रसाध्यय · श्लोक 38cd-56

38cd

त्रिफलाक्वाथसम्पिष्टाद् व्रजत्येवं क्षयं मलः ॥

39

चित्रकक्वाथसम्पिष्टाद् अग्निदोषः प्रणश्यति
अश्वगन्धारसेनैवं विषदोषः प्रशाम्यति ॥

40

नाह्यारसेन सम्पिष्टाद् दर्पदोषो विनश्यति
पिष्टात् कुध्यरसेनैवम् उन्मत्तो ऽपि विलीयते ॥

41

सप्तसप्तदिनैः पिष्टाद् दोषा नश्यन्ति पञ्च वै
इत्थं द्वादशभिर् दोषैर् मुक्तः शुद्धो भवेद् रसः ॥

42

औषधस्यौषधस्यान्ते क्षालयेत् काञ्जिकेन च
कर्तव्या सूतसंशुद्धिर् एकादशभिरौषधैः ॥

43

क्वाथेन त्रिकटोः क्षुण्णं प्राकृतं शोधितं रसम्
रसेनासन्नदूधिल्यास् तथार्द्राया रसेन च ॥

44

काकमाचीरसेनैवं देवदालीरसेन च
शुष्कं शुष्कं पुनः क्षुण्णं संमर्द्यामर्द्य शोषयेत् ॥

45

औषधस्यौषधस्यान्ते क्षालयेत् काञ्जिकेन च
प्रत्यौषधं दिनानीह सप्त सप्तैव मर्दयेत् ॥

46

मूर्छितोत्थापनं सूते कार्यं पञ्चभिर् औषधैः
तेजस्वी जायते ऽवश्यं मूर्छितोत्थितपारदः ॥

47

कज्जलाभो यदा सूतो विहायघनचापलन्
संमूर्छितस् तदा ज्ञेयो नानावर्णो ऽपि तत् क्वचित् ॥

48

उत्थापयेन् निरुध्याथ पात्रसम्पुटमध्यगम्
पुनस् तन् मूर्छयेत् सूतं कञ्चुकीर् नाशयेत् ततः ॥

49

एवम् एतत् क्रमेणैतत् सप्तवारांस् तु मूर्छयेत्
इत्थं संमूर्छितः सूतो दोषशून्यः प्रजायते ॥

50

आरनालमृते सूतम् उत्थाप्यं रसधीमता
मूर्छितोत्थितसूतस्य चतुःषष्टिपलानि च ॥

51

पलानि ताम्रचूर्णस्य खल्वे प्रक्षिप्य षोडश
निम्बुकं च रसं क्षिप्त्वा लूनं द्वात्रिंशदंशकम् ॥

52ab

तावत् संमर्दयेद् यावत् पीठी स्यान् मृक्षणोपमा

52c-f

उक्त्वा कटाहबुन्धे तां प्रदद्याद् वस्त्रसम्पुटम्
वस्त्रान्तानि मृदा लिम्पेज् जारितानीव बुन्धके ॥

53

सजलस्थालिकावक्त्रे कटाहं प्रध्वरं क्षिपेत्
कण्ठं कटाहबन्धं च लिम्पेद् वस्त्रं मृदा तथा ॥

54

छाणकानि कटाहात्ते यामार्धं ज्वालयेद्यथा
जलमध्ये रसो याति ताम्रं तिष्ठति बुन्धके ॥

55

सप्तवारमिदं कार्यं शुद्धं स्याद् रसपातनम्
सूक्ष्मदोषा विलीयते मूर्छितोत्थितपातने ॥

56

खल्वेन सहितं सूतं मर्दयेच् च दिनत्रयम्
पूर्ववत्पातयेत्तं तु अधोर्ध्वं तिर्यगं च तत् ॥

मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc