भाषा

ENहिગુ
ग्रंथ पाठ

रसाध्यय · श्लोक 19-38cd

19

पाषाणाज् जायते जाड्यं वातस्तोमश् च वारिजात्
कुर्यातां चिल्हरी देहे वङ्गनागकपालिके ॥

20

गजचर्माणि दद्रूणि कुरुते कालिका सदा
पाण्डुरोगं तथा मोहं दुभितानि च कामलाम् ॥

21

जायते श्वेतकुष्ठं च श्यामाकञ्चुकसम्भवम्
हन्ति तेजः शरीरस्य मलः पारदसम्भवः ॥

22

सत्त्वघातं करोत्यग्निर् विषं घूर्मं करोति च
दर्पादङ्गं स्फुटत्येवोन्(?) मत्तादुन्मत्तता भवेत् ॥

23

युक्तं द्वादशभिर् दोषैर् यस्तु दद्यात्तु पारदम्
ब्रह्महत्यादिका हत्या भवेयुस् तस्य सर्वदा ॥

24

मुक्तं द्वादशभिर्दोषैर् दद्याद्यः पारदेश्वरम्
महीयान् इह लोके स्यात् परत्र स्वर्गभाग् भवेत् ॥

25

दोषैर्द्वादशभिर्मुक्तो देहं नीरोगयेद् रसः
संस्कारैर् द्वीपसंख्यैश् च संस्कृतो देहलोहकृत् ॥

26

सूतेऽष्टादशसंस्कारास् तत्राद्यः पाटसारणः
द्वितीयो मर्दनो नाम तृतीयः शोधनो मतः ॥

27

मूर्छनोत्थापनस् तुर्यः पञ्चमो रसपातनः
रसस्योत्थापनं षष्ठः सप्तमः स्वेदनो भवेत् ॥

28

नियामको ऽष्टमः प्रोक्तो नवमस्तु निरोधकः
दशमो मुखकारी स्यात् रुद्रसंख्यो हि जारणः ॥

29

सूर्याङ्को बन्धकृत् प्रोक्तो यक्षसंस्थस् तु सारणः
मारणो मनुसंख्यः स्यात् तिथ्यङ्कः प्रतिसारणः ॥

30

क्रामणः षोडशाङ्कः स्याद् वेधः सप्तदशीककः
अष्टादशश्च संस्कारस् तज्ज्ञैर् उद्घाटनो मतः ॥

31

वाससा गालिते सूते संस्कारः पाटसारणः
वङ्गनागादिकाः सर्वा वस्त्रे तिष्ठन्ति विक्रियाः ॥

32

कार्ष्ण्यं त्याजयितुं सूताद् विधेयो लोष्टजीककः
तत्पलैकं च सूतस्य चतुःषष्टिपलानि च ॥

33

खल्वे प्रक्षिप्य संमेल्य मर्दयेद् याममात्रतः
मर्दितो निर्मलीभूतः कृष्णत्वं त्यजति ध्रुवम् ॥

34

वज्रीक्षीरेण सम्पिष्टात् सप्ताहं याति भूमिजः
सप्ताहं चार्कदुग्धेन पिष्टाद् यात्यश्मकञ्चुकः ॥

35

पर्पटान् ब्रह्मवृक्षस्य जलक्लिन्नांश् च वर्तयेत्
तद्रसेन च सप्ताहं पिष्टाद् यात्यम्बुकञ्चुकः ॥

36

चित्रकक्वाथसम्पिष्टात् कापाली याति वङ्गजा
वज्रकन्दरसेनैव पिष्टाद् वङ्गजकालिका ॥

37

कटुतुम्बीपयःपिष्टात् श्यामा नश्यति नागजा
बीयाजलेन सम्पिष्टात् कपाली नागसम्भवा ॥

38cd

सप्तसप्तदिनैः पिष्टात् सूतान् नश्यन्ति कञ्चुकाः

मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc