भाषा

ENहिગુ
ग्रंथ पाठ

रसाध्यय · श्लोक 274xx173x-291xx190x

274xx173x

क्षुण्णं रसेन कुमार्या दुग्धेन तदसंभवे
तस्य पूपाद्द्वयस्यान्तः प्रक्षिपेत् ताम्रपत्त्रकम् ॥

275xx174x

शरावसम्पुटस्यान्तस् तत् क्षिप्त्वा लिप्य मृत्स्नया
संधिवस्त्रमृदा लिप्त्वा कटाहे तत्क्षिपेत् पुटम् ॥

276xx175x

छाणकानि कटाहीतत् क्षिप्त्वाग्निं ज्वालयेत्ततः
ज्वलिते शीतलीभूते ताम्रं ग्राह्यं मृतं बुधैः ॥

277xx176x

बीजपूरस्य यद्वृन्तं कुर्यादुत्तार्य रन्ध्रकम्
तन्मध्ये हीरकं जात्यं क्षिप्त्वा वृन्तेन छादयेत् ॥

278xx177x

बीजपूरं समग्रं तु वेष्टयेद्वस्त्रमृत्स्नया
दैर्घ्ये चाधस्तथा व्यासे गर्तं हस्तप्रमाणकम् ॥

279xx178x

छाणकैः स्थापितैः पूर्णे तद्गर्ते बीजपूरकम्
पिदध्यात्कर्परेणास्यं मध्ये वह्निं क्षिपेत्ततः ॥

280xx179x

ज्वलित्वा शीतलीभूते नवनवैर्बीजपूरकैः(?)
पुनः पुनः प्रकर्तव्यो नववेलमयं विधिः ॥

281xx180x

निसाहायां च संवर्त्य सुसूक्ष्मा वढवा इका
तत्पिण्डान्तः क्षिपेद्वर्जं पिण्डः शरावसम्पुटे ॥

282xx181x

भर्तव्या प्राक्कृता गर्ता छाणकैः स्थापितैः पुनः
तत्पृष्ठं वस्त्रमृल्लिप्तं गर्तां गर्भे पचेत् सुधीः ॥

283xx182x

नून्नाभिर् वडवाइभिर् नवधा संपचेन्मुहुः
ततो राजबदर्याश्च शाखा किसलयात्मिका ॥

284xx183x

तां गृहीत्वाथ तद्गर्भे रन्ध्रं कुर्याद्विचक्षणः
नेसहिङ्गुम् अधश्चोर्ध्वं दत्त्वा तं हीरकं क्षिपेत् ॥

285xx184x

वस्त्रमृदाथ नीरन्ध्र शाखाकिसलयं ततः
प्राक्प्रमुक्तगर्तायां नवधा पूर्वरीतिजा ॥

286xx185x

नेसहिङ्गुमये खोटे रन्ध्रं कृत्वाथ हीरकम्
क्षिप्त्वास्यं हिङ्गुनाच्छाद्य मुषरिमाषपीठिका ॥

287xx186x

क्षिप्त्वा तत्तैलसम्पूर्णे पात्रेऽग्निं ज्वालयेदधः
युक्त्यैवं नवधा कार्यं हिङ्गुखोटे नवे नवे ॥

288xx187x

विधिना त्रिपथो जात्यो हीरको जायते स्फुटम्
थूथाविडेन सम्पिष्य रसे जारयते सुधीः ॥

1

* ततः शीतलीभूते पुनरन्यासां वडवाइकानां पिण्डमध्ये तमेव हीरकं क्षिप्त्वा तथैव ज्वालयित्वा हीरको ग्राह्यः ।
* एवं नववारं नवनवाभिर् वडवाइकाभिः स एव पचनीयः राजबदर्याः किसलयरूपां कोमलां शाखामानीय तस्यां छिद्रं कृत्वा नेसहिङ्गुं तत्राध ऊर्ध्वं च दत्त्वा छिद्रमध्ये तमेव हीरकं क्षिप्त्वा वस्त्रमृत्तिकया निच्छाद्य पूर्वं छाणकपूर्णगर्तायां पचेत् ॥

7

* थूथाविडेन तं हीरकं सम्पिष्य पूर्वोक्ते रसे शनैः शनैर्जारणीयो हीरकः ।
* इत्यन्नपथ्यहीरकजारणं प्रथमम् ॥

289xx188x

कर्णेभ्यो महिषीनां च मला ग्राह्याः समग्रकाः
तैश्च सम्पत्तिदो हीरान् जात्यान् संवेष्टयेत् सुधीः ॥

290xx189x

सूरणक्षुद्रकन्देषु तत् क्षिप्त्वा वस्त्रमृत्स्नया
वेष्टयित्वा पुटं देयं भूमौ कुर्कुटसंनिभम् ॥

291xx190x

वारं वारं श्रुतिमलैः सूरणक्षुद्रकन्दकैः
वस्त्रमृद्भिर्नवीनाभिर् दातव्यानि पुटानि च ॥

मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc