रसाध्यय · श्लोक 254xx153x-273xx172x
कुम्पोदरं भवेद्रिक्तं सत्त्वं गलति कण्ठके
कुम्पं भङ्क्त्वा शिलासत्त्वं ग्राह्यं यत्नेन धीमता ॥
भावेनापि मृतो भेको यत्र कुत्रापि लभ्यते
स्फटिकष्टङ्कणक्षारस् तस्य खोटा तु सूक्ष्मका ॥
भेकोदरं विदार्याथ ते क्षेप्याः सूक्ष्मखोटकाः
घृततैलादिना दिग्धं स्थाल्या भेकं क्षिपेच्च तत् ॥
प्रध्वरां ढङ्कणीं दत्त्वा स्थाली भूमौ निखन्यते
भुवः स्थालीं समाकृष्य ह्य् अतीतैः षष्टिवासरैः ॥
स्थाल्या मध्याद् विशुध्यैवं ग्राह्यं तच्च समग्रकम्
खर्ले प्रक्षिप्य तत्सर्वं पेष्टव्यं चातिसूक्ष्मकम् ॥
गालयित्वाथ गद्याणं हिमजं तिथिवर्णकम्
तन्मध्ये भेकचूर्णस्य वल्लः क्षेप्यो विचक्षणैः ॥
न बन्धो जायते हेम्नो जातं तद्द्रवरूपितम्
इयं हेमद्रुतिर् जाता तज्ज्ञैर्निष्पादिता किल ॥
हेमान्तर्निहिते वल्ले यथा स्यात्काञ्चनी द्रुतिः
कान्तलोहे तथा रूप्ये वङ्गे नागे तथैव च ॥
ताम्रे षट्स्वपि लोहेषु चूर्णं षोडशवेधकम्
षण्णां मध्याच्च लोहाणां कस्याप्येकस्य गालिते ॥
गद्याणे वस्त्रमात्रं च प्रक्षिपेद् भेकचूर्णकम्
तल्लोहं द्रवरूपं स्यात् तन्नाम्नैव द्रुतिर्भवेत् ॥
षड्लोहद्रुतिस्तज्ज्ञैः कृता भवेत्सकर्मणा
अनया यानि कर्माणि वक्ष्यन्ते तानि धातुषु ॥
पीताङ्गादेव दालीं च पञ्चाङ्गां कुरु खण्डशः
कर्परे ज्वालयित्वा च कर्तव्यं भस्म सूक्ष्मकम् ॥
शेषान्ते एव पञ्चाङ्गां निशाह्वायां च वर्तयेत्
तद्रसेनैव दातव्या भावनास्यैव भस्मनः ॥
गालिते चैकगद्याणे तिथिवर्णे च हेमजे
प्रक्षिप्ते भस्मनो वल्लं वल्लं च प्रक्षिपेत् पुनः ॥
एवं गद्याणमध्ये च जार्यो गद्याणकः सदा
इत्थं हेमद्रुतिर्जाता सर्वलोहेष्वयं विधिः ॥
ज्वालयेत्कर्परे श्वेतं देवदाल्यङ्गपञ्चकम्
गोमूत्रैर्भावना देया भस्मनस्त्वेकविंशतिः ॥
ततः षट्स्वपि लोहेषु कार्यः प्रागुदितो विधिः
जायते षट्सु लोहेषु द्रुतिरेवं न संशयः ॥
नागं मनःशिला हन्ति हरितालं च वङ्गकम्
हिङ्गुलेन तथा लोहं ताम्रं च शुद्धगन्धकम् ॥
रूप्यं च तिलमाक्षीकं स्वर्णं नागेन हन्यते
यथा ताम्रविधिः प्रोक्तः स विधिः पञ्चमारणे ॥
पत्त्रं ताम्रस्य चूर्णं वा कृत्वा मुञ्चेत्पृथक् सुधीः
शुद्धगन्धकचूर्णं च ताम्राच्च द्विगुणीकृतम् ॥
मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0