भाषा

ENहिગુ
ग्रंथ पाठ

रसाध्यय · श्लोक 292xx191x-302xx201x

292xx191x

एकविंशतिवारैश्च भूमौ कुर्कुटकैः पुटैः
विधीयन्ते सुखेनैव हीराश् चान्नपथा बुधैः ॥

294xx192x

या भूम्या मर्दकी तस्या मृदुपत्त्राणि वर्तयेत्
तत्पिण्ड्यान्तर् विनिक्षिप्य हीरकान् कुरुगोलकम् ॥

294xx193x

तं शरावपुटे क्षिप्त्वा संधिकर्पटमृत्स्नया
वेष्टयित्वा पुटो देयो भूमौ कुर्कुटसंनिभः ॥

295xx194x

नूत्नैर् नूत्नैर्मुहुः सर्वैश् चतुःषष्टिपुटानि च
कुर्कुटान्येव देयानि हीराश्चान्नपथीकृताः ॥

296xx195x

अग्निना दह्यते नैव भज्यते न हतो घनैः
जले ब्रुडति नैवायं दुःशक्यो हि परीक्षितुम् ॥

297xx196x

लीलकं हस्तयोः क्षिप्त्वा हीरकानां च विंशतिः
हस्ताभ्यां मर्दनीयास्ते न स्युर् निस्तेजसश्च ये ॥

298xx197x

येष्वेका न भवेद्रेखा ते जात्या हीरकाः स्मृताः
कर्परं पक्वम् आनीय गर्ताः कार्यास्त्वनेकशः ॥

299xx198x

जात्यहीरान् क्षिपेत्तेषु ततस्तु मृतजीविभिः
ध्मात्वा ध्मात्वा शिखिवर्णं कार्यं तज्ज्ञैश्च कर्परम् ॥

300xx199x

नृमूत्रं थौहरं दुग्धं तुल्यमेकत्र मिश्रितम्
ताभ्यां विध्यापयेद् ध्मातं कर्परं च मुहुर्मुहुः ॥

301xx200x

कर्परेषु नवीनेषु गर्तान्कृत्वाथ हीरकान्
तानेव ध्मापयेत् क्षिप्त्वा ध्मातान् मिश्रेण छण्टयेत् ॥

302xx201x

युक्त्यानया सप्तवारं ध्मात्वा विध्यापयेन्मुहुः
तादृशाः प्रथमे ध्माने जाम्बुलाः स्युर् द्वितीयके ॥

मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc