भाषा

ENहिગુ
ग्रंथ पाठ

रसाध्यय · श्लोक 234xx133x-253xx152x

234xx133x

शिलया मृतनागस्य तिथिसंख्यापलानि च
त्रिंशत्पलानि मूषायाः प्रक्षिप्यावर्तयेत् सुधीः ॥

235xx134x

ततः सुवर्णमाक्षीकं सार्धसप्तपलानि च
स्तोके स्तोकेन क्षिप्त्वाथ शनैश्चावर्तयेत् सुधीः ॥

236xx135x

यावतस्ताम्रभागस्य तत्समानं यदा भवेत्
स्तोकः प्रकाशराजिः स्यात् प्रथमा परिकीर्तिता ॥

237xx136x

तीक्ष्णलोहस्य चूर्णेन समानं कांस्यचूर्णकम्
प्रक्षिप्यावर्त्य मूषायां क्रियते चैकपिण्डकम् ॥

238xx137x

पिण्डादर्धगुणं नागं क्षिप्त्वा जार्यं पुनः पुनः
व्योषराजिर्भवेज्जीर्णे नागे कांस्याच्च षड्गुणे ॥

239xx138x

शुद्धताम्रस्य चत्वारि पलान्यावर्तयेत् पृथक्
थूथापलानि चत्वारि माक्षिकं च चतुःपलम् ॥

240xx139x

पलाष्टानां कृतं चूर्णं स्तोके स्तोकेन प्रक्षिपेत्
ताम्रशेषं भवेद्यावद् राजिर्माक्षीकजा मता ॥

241xx140x

यावच्छुल्वस्य भागैकं शनैरावर्तयेत्पृथक्
शिलया मृतनागाष्टौ थूथाभागचतुष्टयम् ॥

242xx141x

पिष्ट्वा चूर्णीकृते शुल्बे स्तोकस्तोकेन प्रक्षिपेत्
नागराजिर् भवेच्चेयं [.... ....] ॥

243xx142x

राज्यभ्युच्छ्रितलोहानां चूर्णं कार्यं सदा बुधैः
तज्जैश्च राजिरेकैका जार्या चाष्टगुणा रसात् ॥

244xx143x

मणैकं रसकस्याथ नृमूत्रेण दिनत्रयम्
क्वाथयित्वातपे शुष्कं यामं दुग्धेन पाचयेत् ॥

245xx144x

शुष्कं चूर्णीकृतं तस्मिन् क्षेप्योऽष्टांशः खलस्य च
टङ्कणक्षारतुर्यांशो ऽष्टांशः पूर्वगुडस्य च ॥

246xx145x

साधिते ये मृदो मूषे कचूलाकारवर्तुले
एकस्याश्चान्तरे क्षिप्त्वा मूषां चूर्णस्य वर्तताम् ॥

247xx146x

अपरस्यां पुनर्नालं मूर्धं चतुर्दशाङ्गुलम्
मृन्मयं छिद्ररं बुध्ने विन्यसेत्तामधोमुखीम् ॥

248xx147x

निरघ्नतत् समस्तं च परितो वस्त्रमृत्स्नया
यन्त्रस् तुम्बीनलीनां वै कर्तव्यः सत्त्वपातने ॥

249xx148x

कोठीमध्ये क्षिपेद्यन्त्रं बब्बूलखदिरावलीम्
प्रभृतीनां मृताङ्गारैः पूर्णं पूर्णं धमेन्मुहुः ॥

250xx149x

सदृशैश्च विधृत्यास्तुम् बीनलीमध्यतो मुखीम्
मूषामध्याद् धृतं यावत् सर्वं वेषापरीयकम् ॥

251xx150x

श्रेष्ठा कणयरी खल्वे पेष्या मनःशिला बुधैः
पिदध्याद् अभ्रकेणास्यं तां क्षिप्त्वा काचकुम्पके ॥

252xx151x

दद्यात्सलवणं दग्धा श्मचूर्णं मस्तकोपरि
वस्त्रमृत्तिकया लिम्पेत् समग्रमपि कुम्पकम् ॥

253xx152x

भङ्क्त्वा पक्वघटं कण्ठे मुक्त्वा मृल्लिप्तकुम्पकम्
हठाग्निर् ज्वालनीयो ऽधो यामं द्वादशकं मणे ॥

मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc