भाषा

ENहिગુ
ग्रंथ पाठ

रसाध्यय · श्लोक 215xx114x-233xx132x

215xx114x

तद्गर्भे कूपिकां क्षिप्त्वा हठाग्निं ज्वालयेत् ततः
स्वाङ्गशीतं च तद् ग्राह्यम् एतन्मारणम् उच्यते ॥

216xx115x

संस्कारैर् मनुसंख्यैश्च सूतः संस्कृत्य मारितः
खल्वे क्षिप्त्वा स सम्पिष्टः प्रोच्यते प्रतिसारणम् ॥

217xx116x

मारितं मृतनागेन हेम तस्यापि चूर्णकम्
यत्प्रतिसारणे क्षिप्यम् एतत् क्रामणम् उच्यते ॥

218xx117x

नागवल्ल्याश्च पत्रेण तदतंत्तामितरम्(?)
रतिमात्रं क्षिपेत् कुर्यान् नागपत्रस्य वेढनीम् ॥

219xx118x

गालयित्वाथ तच्चूर्णं सर्वलोहेषु निक्षिपेत्
गाल्यमानेषु तायेत सहस्रस्य प्रवेधकम् ॥

1

* एष सहस्रवेधको रसः ।
* इति क्रामितसूतस्य वेधकसंस्कारः सप्तदशः ॥

220xx119x

गालिते नागगद्याणे सूतगद्याणकं क्षिपेत्
तच्चूर्णमध्ये क्षेप्तव्यो गद्याणो गंधकस्य च ॥

221xx120x

सर्जिकायाश्च गद्याणे मिलिते स्याच्चतुष्टयम्
चूर्णं सम्पिष्य कर्तव्यं जलेनालोडयेत्ततः ॥

222xx121x

शरावसम्पुटे क्षिप्त्वा नीरन्ध्रवस्त्रमृत्स्नया
हस्तप्रमाणिकं गर्तं खनित्वा छाणकैर्भृतम् ॥

223xx122x

शरावसम्पुटं गर्ते क्षिप्त्वाग्निर्ज्वालयेत्ततः
स्वाङ्गशीतं गृहीत्वा तत् कर्तव्यं सूक्ष्मचूर्णकम् ॥

224xx123x

गालिते विद्धसूतेऽथ क्षिप्त्वा सर्षपमात्रकम्
एवं कृते च सूतस्योद् घाटनं जायते ध्रुवम् ॥

225xx124x

जीवशुल्वस्य भागैकं द्वौ भागौ शुद्धहेमजौ
भागत्रयं समावर्त पत्त्रं कुर्यात् सुजदुकम् ॥

226xx125x

निम्बुकानां रसैः क्षुत्त्वा यन्नात्तं शिलयामृतम्
तेन लेपः प्रदातव्यो जडपत्त्रस्य पक्षयोः ॥

227xx126x

चित्रकूटस्य षड्भागं भागैकं लवणस्य च
समभागेन संचूर्ण्य भर्तव्या स्थालिका ततः ॥

228xx127x

लिप्तं पत्त्रं च तन्मध्ये ब्रुडन्तं चोर्ध्वगं क्षिपेत्
शरावेऽधोमुखे दत्ते कण्ठं नीरन्ध्रयेन्मृदा ॥

229xx128x

ततो ह्य् अधोमुखीं दद्याच् छरावोपरि ढङ्कणीम्
स्थालिकाधश्चतुर्यामं हठाग्निं ज्वालयेदधः ॥

230xx129x

विधिना हि च तेनैवं पत्त्रं फाडीत्रयं भवेत्
गृहीत्वा मध्यमां फाडीं पक्षफाडीद्वयं त्यजेत् ॥

231xx130x

मध्यफाड्याश्च चूर्णेन हेमराजिर् भवेद् ध्रुवम्
चतुःषष्ट्यंशदानेन जार्यश्चाष्टगुणो रसात् ॥

232xx131x

नागराजिस्तु सामान्या माक्षकी मध्यमा स्मृता
उत्तमा घोषराजिश्च यः प्रकाशात्तदुत्तमा ॥

233xx132x

पलैकं तीक्ष्णलोहस्य कांस्यस्यापि पलद्वयम्
पलानि नव ताम्रस्य पित्तलस्य पलत्रयम् ॥

मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc