रसाध्यय · श्लोक 136-155xx54x
तस्मिन्नष्टगुणे जीर्णे ध्मातं शाम्यति पारदः
हठेन वह्निनाध्मातः स्थिरीभूतसुवर्णवत् ॥
रूप्यगद्याणकयाचो ह्य् अनेनाभ्यञ्ज्य गालिते
दशवर्णं भवेद्धेम कथितं रसवेदिभिः ॥
अभ्रकस्य च पत्त्राणि श्लक्ष्णचूर्णीकृतानि च
कर्पासीरसतोयेन मर्दितानि दिनत्रयम् ॥
मातुलिङ्गकनकस्यापि वार्कतोयेन मर्दयेत्
क्षिप्त्वा टङ्कणक्षारं च नवसारं तथैव च ॥
खल्वमध्ये ततः क्षिप्त्वा मर्दयेत् प्रतिवासरम्
रसैः पूर्वोदितैर् भूयो यावत् तद् गिलते स्फुटम् ॥
यवाख्याकदलीशिग्रु चिञ्चाफलपुनर्नवा
शतमूलै रसैरभ्रं भावितं मुनिसंख्यया ॥
तद्ग्रासंरसराजोऽसौ सुखं भुक्ते वरे मुखे
संजाते देहसिद्ध्यर्थं धातुसिद्ध्यर्थमेव हि ॥
स्वल्पमप्यभ्रकं सूतो यदि गृह्णाति चेत्सुखम्
बध्यते स्वगृहान्तस्थो यथा चौरो ऽतिचञ्चलः ॥
कुमारी कदली वज्री जारी हेमपादी नटी
बृहती चाग्निदमनी लाङ्गली समभागतः ॥
पत्त्राभ्रम् अभ्रचूर्णं वा (वन्यं) मलनीगुणभावितम्
तप्तेन लोहचूर्णेन पिष्टिः स्यान्मर्दने रसे ॥
लोहखल्वे चतुष्पादे सूतग्रस्ताभ्रकं क्षिपेत्
चतुःषष्ट्यंशभागेन चूर्णं कान्तायसं रसात् ॥
काञ्जिकेनैव संद्दाष्टं बव्वेरं यच् च थूथकम्
तत्तथा वै विडं प्रोक्तं चन्दनं रसवेदिभिः ॥
थूथाविडेन सम्पिष्णन् मृद्वग्निं ज्वालयेदधः
सूतादष्टगुणं लोहं जारणीयं सदा बुधैः ॥
अप्राप्तौ कान्तलोहस्य चूर्णं तीक्ष्णस्य संक्षिपेत्
चतुःषष्टितमं चांशं जीर्णो जीर्णे क्षिपेन् मुहुः ॥
सूतोऽसौ जीर्णलोहः सन् गोधूमाभः कषायतः
पाशितो रागसहनो जातो रागश्च जीर्यति ॥
लोहखल्वे चतुष्पादे जीर्णलोहं रसं क्षिपेत्
अयः प्रकाशे राजेश्च चतुःषष्ट्यंशचूर्णकम् ॥
थूथाविडेन सम्पिष्य मृद्वग्निर् ज्वालयेद् अधः
सूतादष्टगुणा जार्या राजिश्चायःप्रकाशिका ॥
अयःप्रकाशराजौ च जीर्णायां पीतता भवेत्
रक्ततापादनार्थं च हिमराजिं च जारयेत् ॥
लोहखल्वचतुष्पादे संजीर्णायःप्रकाशिकम्
पारदं हेमराजेश्च चतुःषष्ट्यंशचूर्णकम् ॥
थूथाविडेन सम्पिष्य मृद्वग्निं ज्वालयेदधः
सूतादष्टगुणा जार्या हेमराजिश्च कोविदैः ॥
मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0