भाषा

ENहिગુ
ग्रंथ पाठ

रसाध्यय · श्लोक 116x-135

116x

भूखगटङ्कणमनःशिललवणासुरिशिग्रुकाञ्चिकैस् त्रिदिनम् ।
स्वेदेन दीनदीप्तोऽसौ ग्रासार्थी जायते सूतः ॥

117

व्याप्तास्य काचकुम्प्यतः सल् लूणं नैम्बुकं रसम्
पलं धान्याभ्रकं क्षिप्त्वा लिम्पेद् वस्त्रमृदा मुखम् ॥

118

मुखे कोडीयकं दद्यात् कुडीकावालुकाभृता
कुम्पिकां वालुकामध्ये क्षिप्त्वा चोपरि वालुकाम् ॥

119

प्रदायाधोऽष्टयामं च हठाग्निं ज्वालयेत् सुधीः
पलं धान्याभ्रकं चैकं जारणीयम् अहर्निशम् ॥

120

सूतादष्टगुणं जार्यं धान्याभ्रं रसवेदिना
नाम्नासौ गगनग्रासः पारदः परिकीर्तितः ॥

121

एकपत्त्रीकृतं सर्वम् अभ्रकं तदनन्तरम्
तप्तखर्परविन्यस्तं प्रदहेत्तीव्रवह्निना ॥

122

अगस्तिपुष्पतोये च कुमुदानां रसेन च
वर्षाभूतुन्दलीयेन मरिचैः सुमुखेन च ॥

123

माहिषेणैव दुग्धेन सारयित्वाभ्रकं ततः
यवविच्चिकतोयेन प्लावयित्वा पुटे पचेत् ॥

124

मरिचासुरीसिद्धार्थ विषचूर्णैश्च सूतकम्
स्वेदयेत् काञ्जिके बद्धं दोलायां दिवसत्रयम् ॥

125

एवं स्विन्नो रसः पश्चात् काञ्जिके यवविच्चिकाम्
समूलपत्त्रां संकुट्य संधयित्वा विचक्षणः ॥

126

काञ्जिके जायते देव्य रसबन्धे तु नित्यशः
हेमा क्रिया हेममुखे तारे तारमुखं कृतम् ॥

127

यवविच्चिकतोयेन स्वेदयन् स्वेदयेद् बुधः
लोहाग्रे भ्रमथो शाल सुदग्धं वर्षयेत् तथा ॥

128

जीर्णस्य लक्षणं ज्ञेयं जलौकादण्डधारिणः
द्वितीये काकविष्टाभं तृतीये तैलको भवेत् ॥

129

कपिलो ऽथ निहृद्गारो विप्रुषो नैव मुञ्चति
अग्नौ हि घ्रातनिक्वस्थो व्योमजीर्णस्य लक्षणम् ॥

130

अथ वैकृतकस्पर्शाद् दिव्यौषधिमुखं प्रति
अथ ह चरति क्षिप्रं क्षणादेव निबध्यते ॥

131

ततो लोहकपालस्थं स्वेदयेन्मृदुवह्निना
सुखोष्णेनारनालेन प्रक्षालितरसं बुधः ॥

132

एवम् अभ्रकजीर्णस्य रसस्याष्टमभागतः
विडं दद्याच् च विधिवज् जारयेत् तं विचक्षणः ॥

133

एवं षड्गुणजीर्णं तु सूतकं जारयेत् बुधः
भूमौ लगति यत्क्षिप्रं तद्धान्याभ्रकम् उच्यते
अभ्रके द्विगुणे जीर्णे धूमव्याजेन गच्छति ॥

134

जीर्णे चतुर्गुणे तस्मिन् गतिशक्तिर्विहन्यते
उत्प्लुत्योत्प्लुत्य बाह्ये च मूषायाः पतति ध्रुवम् ॥

135

जीर्णे च षड्गुणे सूतं कम्पते ऽसौ मुहुर्मुहुः
बाह्ये चोड्डीय नो याति स्थितः स्थाने स्थिरायते ॥

मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc