रसाध्यय · श्लोक 156xx55x-175xx74x
जीर्णायां हेमराजौ च रक्तता जायते ध्रुवम्
स्वर्णस्योत्पादनार्थं च जार्यः शुद्धो हि गन्धकः ॥
लोष्टगर्तः सुधालिप्तश् चूर्णेन सगुडेन वा
गाढं लिप्तस्वसंशुष्को यन्त्रो ऽयं भूधरो मतः ॥
जीर्णहेमाख्यराजिश्च सूतं यन्त्रे च भूधरे
क्षिप्त्वा वै षोडशांशेन शुद्धगन्धकचूर्णकम् ॥
मुखे कोडीयकं दद्याद् अधोवक्रं पिधानके
वस्त्रमृत्तिकया लिम्पेत् हठाग्निं ज्वालयेत्तथा ॥
षोडशांशं मुहुर्दद्यात् मुहुः कोडीयकं तथा
पारदात् षड्गुणो यावज् जीर्यते शुद्धगन्धकः ॥
भवेद् दार्ढ्यं च रागेन जीर्णे सूतेन गन्धके
रूप्यं ताम्रं तथा लोहं वङ्गं नागं च पित्तलम् ॥
कांस्यं च सप्तलोहानि रसेनाभ्यञ्ज्य गालयेत्
तिथिवर्णं भवत्य् एवं सुवर्णं नैव संशयः ॥
खटिका 1 लवणम् 2 तूरी 2 गैरिकधातुर् 4 जीककम् 5
संशोधने सुवर्णस्य त्व् इमाः स्युः पञ्च मृत्तिकाः ॥
प्रक्षिप्य भूधरे यन्त्रे पारदं जीर्णगन्धकम्
क्षिप्त्वा मनःशिलासत्त्वं सूताद् द्वात्रिंशदंशकम् ॥
मुखे कोडीयकं दद्याद् अधोवक्त्रे पिधानकम्
वस्त्रमृत्तिकया लिम्पेत् हठाग्निं ज्वालयेत्ततः ॥
जीर्णे जीर्णे मुहुर्दद्याद् अक्तांशं सूतशोधकः
सूततुल्यं त्व् इदं जार्यं न तु हीनं न चाधिकम् ॥
जीर्णे मनःशिलासत्त्वे पञ्च वक्ष्यामि मृत्तिकाः
दाधीछेद 2 कषा 3 वर्त्त 4 शोधने हेम शुध्यति ॥
सूतं जीर्णशिलासत्त्वं लोहखल्वे चतुष्पदे
क्षिप्त्वा खापरसत्त्वस्य चतुःषष्ट्यंशचूर्णकम् ॥
थूथाविडेन सम्पिष्य मृद्वग्निं ज्वालयेद् अधः
जीर्णे जीर्णे मुहुः क्षिप्त्वा जार्यम् अष्टगुणं रसात् ॥
जीर्णे पुष्पाक्षसत्त्वे च सस्नेहो जायते रसः
जीर्यते ऽन्नपथं वक्त्रं सम्प्रत्यूर्ध्वं च पारदः ॥
त्रिधान्नपथवक्राणां मध्याद् एकं च हीरकम्
येन सूतेन संजीर्णं सत्त्वं पुष्पाक्षसम्भवम् ॥
प्रक्षिप्य लोहसत्त्वे तौ चतुष्पाद उभाव् अपि
थूथाविडेन संपिष्यन् मृद्वग्निं ज्वालयेदधः ॥
ज्वाल्यो ऽग्निस्तावता यावज् जीर्यते स च हीरकः
हीरके ऽन्नपथे जीर्णे सर्वव्यापी भवेद्रसः ॥
एवंभूतस्तु सूतो ऽयं रौद्रसंहारकारकः
यत्किंचिद्दीयते तस्य रसोपरसवातकः ॥
तत्सर्वं ग्रसते वेगात् यथा देवो महेश्वरः
क्षणेन जायते जीर्णं तन्मुखे पतितं तु यत् ॥
मूल पाठ: Rasādhyaya, 1-302+com with Ṭīkā · Edition: Ramakrsna Sarma Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930 (Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala], Ayurveda Section, 2) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0