रामायण · अध्याय 7.079
तां कथाम् इलसंबद्धां रामेण समुदीरिताम्
लक्ष्मणो भरतश् चैव श्रुत्वा परमविस्मितौ
तौ रामं प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनः
विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः
कथं स राजा स्त्रीभूतो वर्तयाम् आस दुर्गतिम्
पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्य् असौ
तयोस् तद् भाषितं श्रुत्वा कौतूहलसमन्वितम्
कथयाम् आस काकुत्ष्ठस् तस्य राज्ञो यथा गतम्
तम् एव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरी
ताभिः परिवृता स्त्रीभिर् ये ऽस्य पूर्वं पदानुगाः
तत् काननं विगाह्याशु विजह्रे लोकसुन्दरी
द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा
वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः
पर्वताभोगविवरे तस्मिन् रेमे इला तदा
अथ तस्मिन् वनोद्देशे पर्वतस्याविदूरतः
सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम्
ददर्श सा इला तस्मिन् बुधं सोमसुतं तदा
ज्वलन्तं स्वेन वपुषा पूर्णं सोमम् इवोदितम्
तपन्तं च तपस् तीव्रम् अम्भोमध्ये दुरासदम्
यशक् सरं कामगमं तारुण्ये पर्यवस्थितम्
सा तं जलाशयं सर्वं क्षोभयाम् आस विस्मिता
सह तैः पूर पुरुषैः स्त्रीभूतै रघुनन्दन
बुधस् तु तां निरीक्ष्यैव कामबाणाभिपीडितः
नोपलेभे तदात्मानं चचाल च तदाम्भसि
इलां निरीक्षमाणः स त्रैलोक्याभ्यधिकां शुभाम्
चिन्तां समभ्यतिक्रामत् का न्व् इयं देवताधिका
न देवीषु न नागीषु नासुरीष्व् अप्सरःसु च
दृष्टपूर्वा मया का चिद् रूपेणैतेन शोभिता
सदृशीयं मम भवेद् यदि नान्यपरिग्रहा
इति बुद्धिं समास्थाय जलात् स्थलम् उपागमत्
स आश्रमं समुपागम्य चतस्रः प्रमदास् ततः
शब्दापयत धर्मात्मा ताश् चैनं च ववन्दिरे
स ताः पप्रच्छ धर्मात्म कस्यैषा लोकसुन्दरी
किमर्थम् आगता चेह सत्यम् आख्यात माचिरम्
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम्
श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर् मधुरया गिरा
अस्माकम् एषा सुश्रोणी प्रभुत्वे वर्तते सदा
अपतिः काननान्तेषु सहास्माभिर् अटत्य् असौ
तद् वाक्यम् अव्यक्तपदं तासां स्त्रीणां निशम्य तु
विद्याम् आवर्तनीं पुण्याम् आवर्तयत स द्विजः
सो ऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम्
सर्वा एव स्त्रियस् ताश् च बभाषे मुनिपुंगवः
अत्र किं पुरुषा भद्रा अवसञ् शैलरोधसि
वत्स्यथास्मिन् गिरौ यूयम् अवकाशो विधीयताम्
मूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदा
स्त्रियः किम्पुरुषान् नाम भर्तॄन् समुपलप्स्यथ
ताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः
उपासां चक्रिरे शैलं बह्व्यस् ता बहुधा तदा
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0