रामायण · अध्याय 7.078
तच् छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः
प्रत्युवाच महातेजाः प्रहसन् राघवो वचः
एवम् एतन् नरश्रेष्ठ यथा वदसि लक्ष्मण
वृत्रघातम् अशेषेण वाजिमेधफलं च यत्
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः
पुत्रो बाह्लीश्वरः श्रीमान् इलो नाम सुधार्मिकः
स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः
राज्यं चैव नरव्याघ्र पुत्रवत् पर्यपालयत्
सुरैश् च परमोदारैर् दैतेयैश् च महासुरैः
नागराक्षसगन्धर्वैर् यक्षैश् च सुमहात्मभिः
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन
अबिभ्यंश् च त्रयो लोकाः सरोषस्य महात्मनः
स राजा तादृशो ह्य् आसीद् धर्मे वीर्ये च निष्ठितः
बुद्ध्या च परमोदारो बाह्लीकानां महायशाः
स प्रचक्रे महाबाहुर् मृगयां रुचिरे वने
चैत्रे मनोरमे मासि सभृत्यबलवाहनः
प्रजघ्ने स नृपो ऽरण्ये मृगाञ् शतसहस्रशः
हत्वैव तृप्तिर् नाभूच् च राज्ञस् तस्य महात्मनः
नानामृगाणाम् अयुतं वध्यमानं महात्मना
यत्र जातो महासेनस् तं देशम् उपचक्रमे
तस्मिंस् तु देवदेवेशः शैलराजसुतां हरः
रमयाम् आस दुर्धर्षैः सर्वैर् अनुचरैः सह
कृत्वा स्त्रीभूतम् आत्मानम् उमेशो गोपतिध्वजः
देव्याः प्रियचिकीर्षुः स तस्मिन् पर्वतनिर्झरे
ये च तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः
यच् च किं चन तत् सर्वं नारीसंज्ञं बभूव ह
एतस्मिन्न् अन्तरे राजा स इलः कर्दमात्मजः
निघ्नन् मृगसहस्राणि तं देशम् उपचक्रमे
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम्
आत्मानं सानुगं चैव स्त्रीभूतं रघुनन्दन
तस्य दुःखं महत् त्व् आसीद् दृष्ट्वात्मानं तथा गतम्
उमापतेश् च तत् कर्म ज्ञात्वा त्रासम् उपागमत्
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम्
जगाम शरणं राजा सभृत्यबलवाहनः
ततः प्रहस्य वरदः सह देव्या महायशाः
प्रजापतिसुतं वाक्यम् उवाच वरदः स्वयम्
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल
पुरुषत्वम् ऋते सौम्य वरं वरय सुव्रत
ततः स राजा शोकार्ताः प्रत्याख्यातो महात्मना
न स जग्राह स्त्रीभूतो वरम् अन्यं सुरोत्तमात्
ततः शोकेन महता शैलराजसुतां नृपः
प्रणिपत्य महादेवीं सर्वेणैवान्तरात्मना
ईशे वराणां वरदे लोकानाम् असि भामिनि
अमोघदर्शने देवि भजे सौम्ये नमो ऽस्तु ते
हृद्गतं तस्य राजर्षेर् विज्ञाय हरसंनिधौ
प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता
अर्धस्य देवो वरदो वरार्धस्य तथा ह्य् अहम्
तस्माद् अर्धं गृहाण त्वं स्त्रीपुंसोर् यावद् इच्छसि
तद् अद्भुततमं श्रुत्वा देव्या वरम् अनुत्तमम्
संप्रहृष्टमना भूत्वा राजा वाक्यम् अथाब्रवीत्
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि
मासं स्त्रीत्वम् उपासित्वा मासं स्यां पुरुषः पुनः
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना
प्रत्युवाच शुभं वाक्यम् एवम् एतद् भविष्यति
राजन् पुरुषभूतस् त्वं स्त्रीभावं न स्मरिष्यसि
स्त्रीभूतश् चापरं मासं न स्मरिष्यसि पौरुषम्
एवं स राजा पुरुषो मामं भूत्वाथ कार्दमिः
त्रैलोक्यसुन्दरी नारी मासम् एकम् इलाभवत्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0