भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.080

7.080.001

श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस् तदा
आश्चर्यम् इति चाब्रूताम् उभौ रामं जनेश्वरम्

7.080.002

अथ रामः कथाम् एतां भूय एव महायशाः
कथयाम् आस धर्मात्मा प्रजापतिसुतस्य वै

7.080.003

सर्वास् ता विद्रुता दृष्ट्वा किंनरीर् ऋषिसत्तमः
उवाच रूपसंपन्नां तां स्त्रियं प्रहसन्न् इव

7.080.004

सोमस्याहं सुदयितः सुतः सुरुचिरानने
भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा

7.080.005

तस्य तद् वचनं श्रुत्वा शून्ये स्वजनवर्जिता
इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम्

7.080.006

अहं कामकरी सौम्य तवास्मि वशवर्तिनी
प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु

7.080.007

तस्यास् तद् अद्भुतप्रख्यं श्रुत्वा हर्षसमन्वितः
स वै कामी सह तया रेमे चन्द्रमसः सुतः

7.080.008

बुधस्य माधवो मासस् ताम् इलां रुचिराननाम्
गतो रमयतो ऽत्यर्थं क्षणवत् तस्य कामिनः

7.080.009

अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः
प्रजापतिसुतः श्रीमाञ् शयने प्रत्यबुध्यत

7.080.010

सो ऽपश्यत् सोमजं तत्र तप्यन्तं सलिलाशये
ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत

7.080.011

भगवन् पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः
न च पश्यामि तत् सैन्यं क्व नु ते मामका गताः

7.080.012

तच् छ्रुत्वा तस्य राजर्षेर् नष्टसंज्ञस्य भाषितम्
प्रत्युवाच शुभं वाक्यं सान्त्वयन् परया गिरा

7.080.013

अश्मवर्षेण महता भृत्यास् ते विनिपातिताः
त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः

7.080.014

समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः
फलमूलाशनो वीर वस चेह यथासुखम्

7.080.015

स राजा तेन वाक्येन प्रत्याश्वस्तो महायशाः
प्रत्युवाच शुभं वाक्यं दीनो भृत्यजनक्षयात्

7.080.016

त्यक्ष्याम्य् अहं स्वकं राज्यं नाहं भृत्यैर् विना कृतः
वर्तयेयं क्षणं ब्रह्मन् समनुज्ञातुम् अर्हसि

7.080.017

सुतो धर्मपरो ब्रह्मञ् ज्येष्ठो मम महायशाः
शशबिन्दुर् इति ख्यातः स मे राज्यं प्रपत्स्यते

7.080.018

न हि शक्ष्याम्य् अहं गत्वा भृत्यदारान् सुखान्वितान्
प्रतिवक्तुं महातेजः किं चिद् अप्य् अशुभं वचः

7.080.019

तथा ब्रुवति राजेन्द्रे बुधः परमम् अद्भुतम्
सान्त्वपूर्वम् अथोवाच वासस् त इह रोचताम्

7.080.020

न संतापस् त्वया कार्यः कार्दमेय महाबल
संवत्सरोषितस्येह कारयिष्यामि ते हितम्

7.080.021

तस्य तद् वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः
वासाय विदधे बुद्धिं यद् उक्तं ब्रह्मवादिना

7.080.022

मासं स स्त्री तदा भूत्वा रमयत्य् अनिशं शुभा
मासं पुरुषभावेन धर्मबुद्धिं चकार सः

7.080.023

ततः स नवमे मासि इला सोमसुतात्मजम्
जनयाम् आस सुश्रोणी पुरूरवसम् आत्मजम्

7.080.024

जातमात्रं तु सुश्रोणी पितुर् हस्ते न्यवेशयत्
बुधस्य समवर्णाभम् इलापुत्रं महाबलम्

7.080.025

बुधो ऽपि पुरुषीभूतं समाश्वास्य नराधिपम्
कथाभी रमयाम् आस धर्मयुक्ताभिर् आत्मवान्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc