भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.077

7.077.001

तथा वृत्रवधं सर्वम् अखिलेन स लक्ष्मणः
कथयित्वा नरश्रेष्ठः कथाशेषम् उपाक्रमत्

7.077.002

ततो हते महावीर्ये वृत्रे देवभयंकरे
ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा

7.077.003

सो ऽन्तम् आश्रित्य लोकानां नष्टसंज्ञो विचेतनः
कालं तत्रावसत् कं चिद् वेष्टमानो यथोरगः

7.077.004

अथ नष्टे सहस्राक्षे उद्विग्नम् अभवज् जगत्
भूमिश् च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना

7.077.005

निःस्रोतसश् चाम्बुवाहा ह्रदाश् च सरितस् तथा
संक्षोभश् चैव सत्त्वानाम् अनावृष्टिकृतो ऽभवत्

7.077.006

क्षीयमाणे तु लोके ऽस्मिन् संभ्रान्तमनसः सुराः
यद् उक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन्

7.077.007

ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः
तं देशं सहिता जग्मुर् यत्रेन्द्रो भयमोहितः

7.077.008

ते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया
तं पुरस्कृत्य देवेशम् अश्वमेधं प्रचक्रिरे

7.077.009

ततो ऽश्वमेधः सुमहान् महेन्द्रस्य महात्मनः
ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर

7.077.010

ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः
अभिगम्याब्रवीद् वाक्यं क्व मे स्थानं विधास्यथ

7.077.011

ते ताम् ऊचुस् ततो देवास् तुष्टाः प्रीतिसमन्विताः
चतुर्धा विभजात्मानम् आत्मनैव दुरासदे

7.077.012

देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम्
संनिधौ स्थानम् अन्यत्र वरयाम् आस दुर्वसा

7.077.013

एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै
द्वितीयेन तु वृक्षेषु सत्यम् एतद् ब्रवीमि वः

7.077.014

यो ऽयम् अंशस् तृतीयो मे स्त्रीषु यौवनशालिषु
त्रिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी

7.077.015

हन्तारो ब्राह्मणान् ये तु प्रेक्षापूर्वम् अदूषकान्
तांश् चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः

7.077.016

प्रत्यूचुस् तां ततो देवा यथा वदसि दुर्वसे
तथा भवतु तत् सर्वं साधयस्व यथेप्सितम्

7.077.017

ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे
विज्वरः पूतपाप्मा च वासवः समपद्यत

7.077.018

प्रशान्तं च जगत् सर्वं सहस्राक्षे प्रतिष्ठते
यज्ञं चाद्भुतसंकाशं तदा शक्रो ऽभ्यपूजयत्

7.077.019

ईदृशो ह्य् अश्वमेधस्य प्रभावो रघुनन्दन
यजस्व सुमहाभाग हयमेधेन पार्थिव

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc