भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.067

7.067.001

तस्य तद् वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः
अवाक्शिरास् तथाभूतो वाक्यम् एतद् उवाच ह

7.067.002

शूद्रयोन्यां प्रसूतो ऽस्मि तप उग्रं समास्थितः
देवत्वं प्रार्थये राम सशरीरो महायशः

7.067.003

न मिथ्याहं वदे राजन् देवलोकजिगीषया
शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः

7.067.004

भाषतस् तस्य शूद्रस्य खड्गं सुरुचिरप्रभम्
निष्कृष्य कोशाद् विमलं शिरश् चिच्छेद राघवः

7.067.005

तस्मिन् मुहूर्ते बालो ऽसौ जीवेन समयुज्यत

7.067.006

ततो ऽगस्त्याश्रमपदं रामः कमललोचनः
स गत्वा विनयेनैव तं नत्वा मुमुदे सुखी

7.067.007

सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा
आतिथ्यं परमं प्राप्य निषसाद नराधिपः

7.067.008

तम् उवाच महातेजाः कुम्भयोनिर् महातपाः
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव

7.067.009

त्वं मे बहुमतो राम गुणैर् बहुभिर् उत्तमैः
अतिथिः पूजनीयश् च माम राजन् हृदि स्थितः

7.067.010

सुरा हि कथयन्ति त्वाम् आगतं शूद्रघातिनम्
ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः

7.067.011

उष्यतां चेह रजनीं सकाशे मम राघव
प्रभाते पुष्पकेण त्वं गन्ता स्वपुरम् एव हि

7.067.012

इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा
दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा
प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव

7.067.013

दत्तस्य हि पुनर् दानं सुमहत् फलम् उच्यते
तस्मात् प्रदास्ये विधिवत् तत् प्रतीच्छ नरर्षभ

7.067.014

तद् रामः प्रतिजग्राह मुनेस् तस्य महात्मनः
दिव्यम् आभरणं चित्रं प्रदीप्तम् इव भास्करम्

7.067.015

प्रतिगृह्य ततो रामस् तद् आभरणम् उत्तमम्
आगमं तस्य दिव्यस्य प्रष्टुम् एवोपचक्रमे

7.067.016

अत्यद्भुतम् इदं ब्रह्मन् वपुषा युक्तम् उत्तमम्
कथं भगवता प्राप्तं कुतो वा केन वाहृतम्

7.067.017

कुतूहलतया ब्रह्मन् पृच्छामि त्वां महायशः
आश्चर्याणां बहूनां हि निधिः परमको भवान्

7.067.018

एवं ब्रुवति काकुत्स्थे मुनिर् वाक्यम् अथाब्रवीत्
शृणु राम यथावृत्तं पुरा त्रेतायुगे गते

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc