रामायण · अध्याय 7.068
पुरा त्रेतायुगे ह्य् आसीद् अरण्यं बहुविस्तरम्
समन्ताद् योजनशतं निर्मृगं पक्षिवर्जितम्
तस्मिन् निर्मानुषे ऽरण्ये कुर्वाणस् तप उत्तमम्
अहम् आक्रमितुं शौम्य तद् अरण्यम् उपागमम्
तस्य रूपम् अरण्यस्य निर्देष्टुं न शशाक ह
फलमूलैः सुखास्वादैर् बहुरूपैश् च पादपैः
तस्यारण्यस्य मध्ये तु सरो योजनम् आयतम्
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम्
तद् आश्चर्यम् इवात्यर्थं सुखास्वादम् अनुत्तमम्
अरजस्कं तथाक्षोभ्यं श्रीमत्पक्षिगणायुतम्
तस्मिन् सरःसमीपे तु महद् अद्भुतम् आश्रमम्
पुराणं पुण्यम् अत्यर्थं तपस्विजनवर्जितम्
तत्राहम् अवसं रात्रिं नैदाघीं पुरुषर्षभ
प्रभाते काल्यम् उत्थाय सरस् तद् उपचक्रमे
अथापश्यं शवं तत्र सुपुष्टम् अजरं क्व चित्
तिष्ठन्तं परया लक्ष्म्या तस्मिंस् तोयाशये नृप
तम् अर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव
विष्ठितो ऽस्मि सरस्तीरे किं न्व् इदं स्याद् इति प्रभो
अथापश्यं मुहूर्तात् तु दिव्यम् अद्भुतदर्शनम्
विमानं परमोदारं हंसयुक्तं मनोजवम्
अत्यर्थं स्वर्गिणं तत्र विमाने रघुनन्दन
उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम्
गान्ति गेयानि रम्याणि वादयन्ति तथापराः
पश्यतो मे तदा राम विमानाद् अवरुह्य च
तं शवं भक्षयाम् आस स स्वर्गी रघुनन्दन
ततो भुक्त्वा यथाकामं मांसं बहु च सुष्ठु च
अवतीर्य सरः स्वर्गी संस्प्रष्टुम् उपचक्रमे
उपस्पृश्य यथान्यायं स स्वर्गी पुरुषर्षभ
आरोढुम् उपचक्राम विमानवरम् उत्तमम्
तम् अहं देवसंकाशम् आरोहन्तम् उदीक्ष्य वै
अथाहम् अब्रुवं वाक्यं तम् एव पुरुषर्षभ
को भवान् देवसंकाश आहारश् च विगर्हितः
त्वयायं भुज्यते सौम्य किं कर्थं वक्तुम् अर्हसि
आश्चर्यम् ईदृशो भावो भास्वरो देवसंमतः
आहारो गर्हितः सौम्य श्रोतुम् इच्छामि तत्त्वतः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0