रामायण · अध्याय 7.066
नारदस्य तु तद् वाक्यं श्रुत्वामृतमयं यथा
प्रहर्षम् अतुलं लेभे लक्ष्मणं चेदम् अब्रवीत्
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण
बालस्य च शरीरं तत् तैलद्रोण्यां निधापय
गन्धैश् च परमोदारैस् तैलैश् च सुसुगन्धिभिः
यथा न क्षीयते बालस् तथा सौम्य विधीयताम्
यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणः
विपत्तिः परिभेदो वा भवेन् न च तथा कुरु
तथा संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम्
मनसा पुष्पकं दध्याव् आगच्छेति महायशाः
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः
आजगाम मुहूर्तेन संपीपं राघवस्य वै
सो ऽब्रवीत् प्रणतो भूत्वा अयम् अस्मि नराधिप
वश्यस् तव महाबाहो किंकरः समुपस्थितः
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः
अभिवाद्य महर्षीस् तान् विमानं सो ऽध्यरोहत
धनुर् गृहीत्वा तूणीं च खग्दं च रुचिरप्रभम्
निक्षिप्य नगरे वीरौ सौमित्रिभरताव् उभौ
प्रायात् प्रतीचीं स मरून् विचिन्वंश् च समन्ततः
उत्तराम् अगमच् छ्रीमान् दिशं हिमवदावृतम्
अपश्यमानस् तत्रापि स्वल्पम् अप्य् अथ दुष्कृतम्
पूर्वाम् अपि दिशं सर्वाम् अथापश्यन् नराधिपः
दक्षिणां दिशम् आक्रामत् ततो राजर्षिनन्दनः
शैवलस्योत्तरे पार्श्वे ददर्श सुमहत् सरः
तस्मिन् सरसि तप्यन्तं तापसं सुमहत् तपः
ददर्श राघवः श्रीमांल् लम्बमानम् अधो मुखम्
अथैनं समुपागम्य तप्यन्तं तप उत्तमम्
उवाच राघवो वाक्यं धन्यस् त्वम् असि सुव्रत
कस्यां योन्यां तपोवृद्धवर्तसे दृढविक्रम
कौतूहलात् त्वां पृच्छामि रामो दाशरथिर् ह्य् अहम्
मनीषितस् ते को न्व् अर्थः स्वर्गलाभो वराश्रयः
यम् अश्रित्य तपस् तप्तं श्रोतुम् इच्छामि तापस
ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः
वैश्यो वा यदि वा शूद्रः सत्यम् एतद् ब्रवीहि मे
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0