रामायण · अध्याय 7.062
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः
ऊचुः सुमधुरां वाणीं शत्रुघ्नां शत्रुतापनम्
दिष्ट्या ते विजयो वत्स दिष्ट्य लवणराक्षसः
हतः पुरुषशार्दूलवरं वरय राघव
वरदाः स्म महाबाहो सर्व एव समागताः
विजयाकाङ्क्षिणस् तुभ्यम् अमोघं दर्शनं हि नः
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः
प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान्
इमां मधुपुरीं रम्यां मधुरां देव निर्मिताम्
निवेशं प्रप्नुयां शीघ्रम् एष मे ऽस्तु वरो मतः
तं देवाः प्रीतमनसो बाढम् इत्य् एव राघवम्
भविष्यति पुरी रम्या शूरसेना न संशयः
ते तथोक्त्वा महात्मानो दिवम् आरुरुहुस् तदा
शत्रुघ्नो ऽपि महातेजास् तां सेनां समुपानयत्
सा सेन शीघ्रम् आगच्छच् छ्रुत्वा शत्रुघ्नशासनम्
निवेशनं च शत्रुघ्नः शासनेन समारभत्
सा पुरी दिव्यसंकाशा वर्षे द्वादशमे शुभा
निविष्टा शूरसेनानां विषयश् चाकुतोभयः
क्षेत्राणि सस्य युक्तानि काले वर्षति वासवः
अरोगा वीरपुरुषा शत्रुघ्नभुजपालिता
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता
शोभिता गृहमुख्यैश् च शोभिता चत्वरापणैः
यच् च तेन महच् छून्यं लवणेन कृतं पुरा
शोभयाम् आस तद् वीरो नानापण्यसमृद्धिभिः
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः
निरीक्ष्य परमप्रीतः परं हर्षम् उपागमत्
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम्
रामपादौ निरीक्षेयं वर्षे द्वादशमे शुभे
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0