भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.061

7.061.001

तच् छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः
क्रोधम् आहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्

7.061.002

पाणौ पाणिं विनिष्पिष्य दन्तान् कटकटाय्य च
लवणो रघुशार्दूलम् आह्वयाम् आस चासकृत्

7.061.003

तं ब्रुवाणं तथा वाक्यं लवणं घोरविक्रमम्
शत्रुघ्नो देव शत्रुघ्न इदं वचनम् अब्रवीत्

7.061.004

शत्रुघ्नो न तदा जातो यदान्ये निर्जितास् त्वया
तद् अद्य बाणाभिहतो व्रज तं यमसादनम्

7.061.005

ऋषयो ऽप्य् अद्य पापात्मन् मया त्वां निहतं रणे
पश्यन्तु विप्रा विद्वांसस् त्रिदशा इव रावणम्

7.061.006

त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर
पुरं जनपदं चापि क्षेमम् एतद् भविष्यति

7.061.007

अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः
प्रवेक्ष्यते ते हृदयं पद्मम् अंशुर् इवार्कजः

7.061.008

एवम् उक्तो महावृक्षं लवणः क्रोधमूर्छितः
शत्रुघ्नोरसि चिक्षेप तं शूरः शतधाच्छिनत्

7.061.009

तद् दृष्ट्वा विफलं कर्म राक्षसः पुनर् एव तु
पादपान् सुबहून् गृह्य शत्रुघ्ने व्यसृजद् बली

7.061.010

शत्रुघ्नश् चापि तेजस्वी वृक्षान् आपततो बहून्
त्रिभिश् चतुर्भिर् एकैकं चिच्छेद नतपर्वभिः

7.061.011

ततो बाणमयं वर्षं व्यसृजद् राक्षसोर् असि
शत्रुघ्नो वीर्यसंपन्नो विव्यथे न च राक्षसः

7.061.012

ततः प्रहस्य लवणो वृक्षम् उत्पाट्य लीलया
शिरस्य् अभ्यहनच् छूरं स्रस्ताङ्गः स मुमोह वै

7.061.013

तस्मिन् निपतिते वीरे हाहाकारो महान् अभूत्
ऋषीणां देव संघानां गन्धर्वाप्सरसाम् अपि

7.061.014

तम् अवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम्
रक्षो लब्धान्तरम् अपि न विवेश स्वम् आलयम्

7.061.015

नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम्
ततो हत इति ज्ञात्वा तान् भक्षान् समुदावहत्

7.061.016

मुहूर्ताल् लब्धसंज्ञस् तु पुनस् तस्थौ धृतायुधः
शत्रुघ्नो राक्षसद्वारि ऋषिभिः संप्रपूजितः

7.061.017

ततो दिव्यम् अमोघं तं जग्राह शरम् उत्तमम्
ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश

7.061.018

वज्राननं वज्रवेगं मेरुमन्दर गौरवम्
नतं पर्वसु सर्वेषु संयुगेष्व् अपराजितम्

7.061.019

असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम्
दानवेन्द्राचलेन्द्राणाम् असुराणां च दारुणम्

7.061.020

तं दीप्तम् इव कालाग्निं युगान्ते समुपस्थिते
दृष्ट्वा सर्वाणि भूतानि परित्रासम् उपागमन्

7.061.021

सदेवासुरगन्धर्वं समुनिं साप्सरोगणम्
जगद् धि सर्वम् अस्वस्थं पितामहम् उपस्थितम्

7.061.022

ऊचुश् च देवदेवेशं वरदं प्रपितामहम्
कच्चिल् लोकक्षयो देव प्राप्तो वा युगसंकयः

7.061.023

नेदृशं दृष्टपूर्वं न श्रुतं वा प्रपितामह
देवानां भयसंमोहो लोकानां संक्षयः प्रभो

7.061.024

तेषां तद् वचनं श्रुत्वा ब्रह्मा लोकपितामनः
भयकारणम् आचष्टे देवानाम् अभयंकरः

7.061.025

वधाय लवणस्याजौ शरः शत्रुघ्नधारितः
तेजसा यस्य सर्वे स्म संमूढाः सुरसत्तमाः

7.061.026

एषो हि पूर्वं देवस्य लोककर्तुः सनातनः
शरस् तेजोमयो वत्सा येन वै भयम् आगतम्

7.061.027

एष वै कैटभस्यार्थे मधुनश् च महाशरः
सृष्टो महात्मना तेन वधार्थं दैत्ययोस् तयोः

7.061.028

एवम् एतं प्रजानीध्वं विष्णोस् तेजोमयं शरम्
एषा चैव तनुः पूर्वा विष्णोस् तस्य महात्मनः

7.061.029

इतो गच्छता पश्यध्वं वध्यमानं महात्मना
रामानुजेन वीरेण लवणं राक्षसोत्तमम्

7.061.030

तस्य ते देवदेवस्य निशम्य मधुरां गिरम्
आजग्मुर् यत्र युध्येते शत्रुघ्नलवणाव् उभौ

7.061.031

तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम्
ददृशुः सर्वभूतानि युगान्ताग्निम् इवोत्थितम्

7.061.032

आकाशम् आवृतं दृष्ट्वा देवैर् हि रघुनन्दनः
सिंहनादं मुहुः कृत्वा ददर्श लवणं पुनः

7.061.033

आहूतश् च ततस् तेन शत्रुघ्नेन महात्मना
लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः

7.061.034

आकर्णात् स विकृष्याथ तद् धनुर् धन्विनां वरः
स मुमोच महाबाणं लवणस्य महोरसि
उरस् तस्य विदार्याशु प्रविवेश रसातलम्

7.061.035

गत्वा रसातलं दिव्यं शरो विबुधपूजितः
पुनर् एवागमत् तूर्णम् इक्ष्वाकुकुलनन्दनम्

7.061.036

शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः
पपात सहसा भूमौ वज्राहत इवाचलः

7.061.037

तच् च दिव्यं महच् छूलं हते लवणराक्षसे
पश्यतां सर्वभूतानां रुद्रस्य वशम् अन्वगात्

7.061.038

एकेषुपातेन भयं निहत्य लोकत्रयस्यास्य रघुप्रवीरः
विनिर्बभाव् उद्यतचापबाणस् तमः प्रणुद्येव सहस्ररश्मिः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc