भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.063

7.063.001

ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम्
अयोध्यां चकमे गन्तुम् अल्पभृत्यबलानुगः

7.063.002

मन्त्रिणो बलमुख्यांश् च निवर्त्य च पुरोधसं
जगाम रथमुख्येन हययुक्तेन भास्वता

7.063.003

स गत्वा गणितान् वासान् सप्ताष्टौ रघुनन्दनः
अयोध्याम् अगमत् तूर्णं राघवोत्सुकदर्शनः

7.063.004

स प्रविश्य पुरीं रम्यां श्रीमान् इक्ष्वाकुनन्दनः
प्रविवेश महाबाहुर् यत्र रामो महाद्युतिः

7.063.005

सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा
उवाच प्राञ्जलिर् भूत्वा रामं सत्यपराक्रमम्

7.063.006

यद् आज्ञप्तं महाराज सर्वं तत् कृतवान् अहम्
हतः स लवणः पापः पुरी सा च निवेशिता

7.063.007

द्वादशं च गतं वर्षं त्वां विना रघुनन्दन
नोत्सहेयम् अहं वस्तुं त्वया विरहितो नृप

7.063.008

स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम
मातृहीनो यथा वत्सस् त्वां विना प्रवसाम्य् अहम्

7.063.009

एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदम् अब्रवीत्
मा विषादं कृथा वीर नैतत् क्षत्रिय चेष्टितम्

7.063.010

नावसीदन्ति राजानो विप्रवासेषु राघव
प्रजाश् च परिपाल्या हि क्षत्रधर्मेण राघव

7.063.011

काले काले च मां वीर अयोध्याम् अवलोकितुम्
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव

7.063.012

ममापि त्वं सुदयितः प्राणैर् अपि न संशयः
अवश्यं करणीयं च राज्यस्य परिपालनम्

7.063.013

तस्मात् त्वं वस काकुत्स्थ पञ्चरात्रं मया सह
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः

7.063.014

रामस्यैतद् वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम्
शत्रुघ्नो दीनया वाचा बाढम् इत्य् एव चाब्रवीत्

7.063.015

स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया
उष्य तत्र महेष्वासो गमनायोपचक्रमे

7.063.016

आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम्
भरतं लक्ष्मणं चैव महारथम् उपारुहत्

7.063.017

दूरं ताभ्याम् अनुगतो लक्ष्मणेन महात्मना
भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc