रामायण · अध्याय 7.051
तत्र तां रजनीम् उष्य गोमत्यां रघुनन्दनः
प्रभाते पुनर् उत्थाय लक्ष्मणः प्रययौ तदा
ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः
अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम्
सौमित्रिस् तु परं दैन्यं जगाम सुमहामतिः
रामपादौ समासाद्य वक्ष्यामि किम् अहं गतः
तस्यैवं चिन्तयानस्य भवनं शशिसंनिभम्
रामस्य परमोदारं पुरस्तात् समदृश्यत
राज्ञस् तु भवनद्वारि सो ऽवतीर्य नरोत्तमः
अवाङ्मुखो दीनमनाः प्राविवेशानिवारितः
स दृष्ट्वा राघवं दीनम् आसीनं परमासने
नेत्राभ्याम् अश्रुपूर्णाभ्यां ददर्शाग्रजम् अग्रतः
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः
उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम्
गङ्गातीरे यथोद्दिष्टे वाल्मीकेर् आश्रमे शुभे
पुनर् अस्म्य् आगतो वीर पादमूलम् उपासितुम्
मा शुचः पुरुषव्याघ्र कालस्य गतिर् ईदृशी
त्वद्विधा न हि शोचन्ति सत्त्ववन्तो मनस्विनः
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्
शक्तस् त्वम् आत्मनात्मानं विजेतुं मनसैव हि
लोकान् सर्वांश् च काकुत्स्थ किं पुनर् दुःखम् ईदृशम्
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः
यदर्थं मैथिली त्यक्ता अपवादभयान् नृप
स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः
त्यजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह
एवम् उक्तस् तु काकुत्स्थो लक्ष्मणेन महात्मना
उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलम्
एवम् एतन् नरश्रेष्ठ यथा वदसि लक्ष्मण
परितोषश् च मे वीर मम कार्यानुशासने
निर्वृतिश् च कृता सौम्य संतापश् च निराकृतः
भवद्वाक्यैः सुमधुरैर् अनुनीतो ऽस्मि लक्ष्मण
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0