रामायण · अध्याय 7.050
तथा संचोदितः सूतो लक्ष्मणेन महात्मना
तद् वाक्यम् ऋषिणा प्रोक्तं व्याहर्तुम् उपचक्रमे
पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः
वसिष्ठस्याश्रमे पुण्ये स वार्षिक्यम् उवास ह
तम् आश्रमं महातेजाः पिता ते सुमहायशाः
पुरोधसं महात्मानं दिदृक्षुर् अगमत् स्वयम्
स दृष्ट्वा सूर्यसंकाशं ज्वलन्तम् इव तेजसा
उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम्
तौ मुनी तापसश्रेष्ठौ विनीतस् त्व् अभ्यवादयत्
स ताभ्यां पूजितो राजा स्वागतेनासनेन च
पाद्येन फलमूलैश् च सो ऽप्य् आस्ते मुनिभिः सह
तेषां तत्रोपविष्टानां तास् ताः सुमधुराः कथाः
बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि
ततः कथायां कस्यां चित् प्राञ्जलिः प्रग्रहो नृपः
उवाच तं महात्मानम् अत्रेः पुत्रं तपोधनम्
भगवन् किंप्रमाणेन मम वंशो भविष्यति
किमायुश् च हि मे रामः पुत्राश् चान्ये किमायुषः
रामस्य च सुता ये स्युस् तेषाम् आयुः कियद् भवेत्
काम्यया भगवन् ब्रूहि वंशस्यास्य गतिं मम
तच् छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु
दुर्वासाः सुमहातेजा व्याहर्तुम् उपचक्रमे
अयोध्यायाः पती रामो दीर्घकालं भविष्यति
सुखिनश् च समृद्धाश् च भविष्यन्त्य् अस्य चानुजाः
कस्मिंश् चित् करणे त्वां च मैथिलीं च यशस्विनीम्
संत्यजिष्यति धर्मात्मा कालेन महता किल
दशवर्षसहस्रणि दशवर्षशतानि च
रामो राज्यम् उपासित्वा ब्रह्मलोकं गमिष्यति
समृद्धैर् हयमेधैश् च इष्ट्वा परपुरंजयः
राजवंशांश् च काकुत्स्थो बहून् संस्थापयिष्यति
स सर्वम् अखिलं राज्ञो वंशस्यास्य गतागतम्
आख्याय सुमहातेजास् तूष्णीम् आसीन् महाद्युतिः
तूष्णींभूते मुनौ तस्मिन् राजा दशरथस् तदा
अभिवाद्य महात्मानौ पुनर् आयात् पुरोत्तमम्
एतद् वचो मया तत्र मुनिना व्याहृतं पुरा
श्रुतं हृदि च निक्षिप्तं नान्यथा तद् भविष्यति
एवं गते न संतापं गन्तुम् अर्हसि राघव
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम
तच् छ्रुत्वा व्याहृतं वाक्यं सूतस्य परमाद्भुतम्
प्रहर्षम् अतुलं लेभे साधु साध्व् इति चाब्रवीत्
तयोः संवदतोर् एवं सूतलक्ष्मणयोः पथि
अस्तम् अर्को गतो वासं गोमत्यां ताव् अथोषतुः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0