भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.052

7.052.001

ततः सुमन्त्रस् त्व् आगम्य राघवं वाक्यम् अब्रवीत्
एते निवारिता राजन् द्वारि तिष्ठन्ति तापसाः

7.052.002

भार्गवं च्यवनं नाम पुरस्कृत्य महर्षयः
दर्शनं ते महाराज चोदयन्ति कृतत्वराः
प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः

7.052.003

तस्य तद् वचनं श्रुत्वा रामः प्रोवाच धर्मवित्
प्रवेश्यन्तां महात्मानो भार्गवप्रमुखा द्विजाः

7.052.004

राज्ञस् त्व् आज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः
प्रवेशयाम् आस ततस् तापसान् संमतान् बहून्

7.052.005

शतं समधिकं तत्र दीप्यमानं स्वतेजसा
प्रविष्टं राजभवनं तापसानां महात्मनाम्

7.052.006

ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बु सत्कृतम्
गृहीत्वा फलमूलं च रामस्याभ्याहरन् बहु

7.052.007

प्रतिगृह्य तु तत् सर्वं रामः प्रीतिपुरस्कृतः
तीर्थोदकानि सर्वाणि फलानि विविधानि च

7.052.008

उवाच च महाबाहुः सर्वान् एव महामुनीन्
इमान्य् आसनमुख्यानि यथार्हम् उपविश्यताम्

7.052.009

रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः
बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते

7.052.010

उपविष्टान् ऋषींस् तत्र दृष्ट्वा परपुरंजयः
प्रयतः प्राञ्जलिर् भूत्वा राघवो वाक्यम् अब्रवीत्

7.052.011

किम् आगमनकार्यं वः किं करोमि तपोधनाः
आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम्

7.052.012

इदं राज्यं च सकलं जीवितं च हृदि स्थितम्
सर्वम् एतद् द्विजार्थं मे सत्यम् एतद् ब्रवीमि वः

7.052.013

तस्य तद् वचनं श्रुत्वा साधुवादो महान् अभूत्
ऋषीणाम् उग्रतपसां यमुनातीरवासिनाम्

7.052.014

ऊचुश् च ते महात्मानो हर्षेण महतान्विताः
उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः

7.052.015

बहवः पार्थिवा राजन्न् अतिक्रान्ता महाबलाः
कार्यगौरवम् अश्रुत्वा प्रतिज्ञां नाभ्यरोचयन्

7.052.016

त्वया पुनर् ब्राह्मणगौरवाद् इयं कृता प्रतिज्ञा ह्य् अनवेक्ष्य कारणम्
कुरुष्व कर्ता ह्य् असि नात्र संशयो महाभयात् त्रातुम् ऋषींस् त्वम् अर्हसि

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc