भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.047

7.047.001

लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा
परं विषादम् आगम्य वैदेही निपपात ह

7.047.002

सा मुहूर्तम् इवासंज्ञा बाष्पव्याकुलितेक्षणा
लक्ष्मणं दीनया वाचा उवाच जनकात्मजा

7.047.003

मामिकेयं तनुर् नूनं सृष्टा दुःखाय लक्ष्मण
धात्रा यस्यास् तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते

7.047.004

किं नु पापं कृतं पूर्वं को वा दारैर् वियोजितः
याहं शुद्धसमाचारा त्यक्ता नृपतिना सती

7.047.005

पुराहम् आश्रमे वासं रामपादानुवर्तिनी
अनुरुध्यापि सौमित्रे दुःखे विपरिवर्तिनी

7.047.006

सा कथं ह्य् आश्रमे सौम्य वत्स्यामि विजनीकृता
आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा

7.047.007

किं च वक्ष्यामि मुनिषु किं मयापकृतं नृपे
कस्मिन् वा कारणे त्यक्ता राघवेण महात्मना

7.047.008

न खल्व् अद्यैव सौमित्रे जीवितं जाह्नवीजले
त्यजेयं राजवंशस् तु भर्तुर् मे परिहास्यते

7.047.009

यथाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम्
निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम

7.047.010

श्वश्रूणाम् अविशेषेण प्राञ्जलिः प्रग्रहेण च
शिरसा वन्द्य चरणौ कुशलं ब्रूहि पार्थिवम्

7.047.011

यथा भ्रातृषु वर्तेथास् तथा पौरेषु नित्यदा
परमो ह्य् एष धर्मः स्याद् एषा कीर्तिर् अनुत्तमा

7.047.012

यत् त्वं पौरजनं राजन् धर्मेण समवाप्नुयाः
अहं तु नानुशोचामि स्वशरीरं नरर्षभ
यथापवादं पौराणां तथैव रघुनन्दन

7.047.013

एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः
शिरसा धरणीं गत्वा व्याहर्तुं न शशाक ह

7.047.014

प्रदक्षिणं च कृत्वा स रुदन्न् एव महास्वनम्
आरुरोह पुनर् नावं नाविकं चाभ्यचोदयत्

7.047.015

स गत्वा चोत्तरं कूलं शोकभारसमन्वितः
संमूढ इव दुःखेन रथम् अध्यारुहद् द्रुतम्

7.047.016

मुहुर् मुहुर् अपावृत्य दृष्ट्वा सीताम् अनाथवत्
वेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययाव् अथ

7.047.017

दूरस्थं रथम् आलोक्य लक्ष्मणं च मुहुर् मुहुः
निरीक्षमाणाम् उद्विग्नां सीतां शोकः समाविशत्

7.047.018

सा दुःखभारावनता तपस्विनी यशोधरा नाथम् अपश्यती सती
रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc