भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.046

7.046.001

अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः
आरुरोह समायुक्तां पूर्वम् आरोप्य मैथिलीम्

7.046.002

सुमन्त्रं चैव सरथं स्थीयताम् इति लक्ष्मणः
उवाच शोकसंतप्तः प्रयाहीति च नाविकम्

7.046.003

ततस् तीरम् उपागम्य भागीरथ्याः स लक्ष्मणः
उवाच मैथिलीं वाक्यं प्राञ्जलिर् बाष्पगद्गदः

7.046.004

हृद्गतं मे महच् छल्यं यद् अस्म्य् आर्येण धीमता
अस्मिन् निमित्ते वैदेहि लोकस्य वचनीकृतः

7.046.005

श्रेयो हि मरणं मे ऽद्य मृत्योर् वा यत् परं भवेत्
न चास्मिन्न् ईदृशे कार्ये नियोज्यो लोकनिन्दिते

7.046.006

प्रसीद न च मे रोषं कर्तुम् अर्हसि सुव्रते
इत्य् अञ्जलिकृतो भूमौ निपपात स लक्ष्मणः

7.046.007

रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युम् आत्मनः
मैथिली भृशसंविग्ना लक्ष्मणं वाक्यम् अब्रवीत्

7.046.008

किम् इदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण
पश्यामि त्वां च न स्वस्थम् अपि क्षेमं महीपतेः

7.046.009

शापितो ऽसि नरेन्द्रेण यत् त्वं संतापम् आत्मनः
तद् ब्रूयाः संनिधौ मह्यम् अहम् आज्ञापयामि ते

7.046.010

वैदेह्या चोद्यमानस् तु लक्ष्मणो दीनचेतनः
अवाङ्मुखो बाष्पगलो वाक्यम् एतद् उवाच ह

7.046.011

श्रुत्वा परिषदो मध्ये अपवादं सुदारुणम्
पुरे जनपदे चैव त्वत्कृते जनकात्मजे

7.046.012

न तानि वचनीयानि मया देवि तवाग्रतः
यानि राज्ञा हृदि न्यस्तान्य् अमर्षः पृष्ठतः कृतः

7.046.013

सा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौ
पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा

7.046.014

आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि
राज्ञः शासनम् आज्ञाय तवैवं किल दौर्हृदम्

7.046.015

तद् एतज् जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम्
पुण्यं च रमणीयं च मा विषादं कृथाः शुभे

7.046.016

राज्ञो दशरथस्यैष पितुर् मे मुनिपुंगवः
सखा परमको विप्रो वाल्मीकिः सुमहायशाः

7.046.017

पादच्छायाम् उपागम्य सुखम् अस्य महात्मनः
उपवासपरैकाग्रा वस त्वं जनकात्मजे

7.046.018

पतिव्रतात्वम् आस्थाय रामं कृत्वा सदा हृदि
श्रेयस् ते परमं देवि तथा कृत्वा भविष्यति

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc