रामायण · अध्याय 7.048
सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः
प्राद्रवन् यत्र भगवान् आस्ते वाल्मीकिर् अग्र्यधीः
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये
सर्वे निवेदयाम् आसुस् तस्यास् तु रुदितस्वनम्
अदृष्टपूर्वा भगवन् कस्याप्य् एषा महात्मनः
पत्नी श्रीर् इव संमोहाद् विरौति विकृतस्वरा
भगवन् साधु पश्येमां देवताम् इव खाच् च्युताम्
न ह्य् एनां मानुषीं विद्मः सत्क्रियास्याः प्रयुज्यताम्
तेषां तद् वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित्
तपसा लब्धचक्षुष्मान् प्राद्रवद् यत्र मैथिली
तं तु देशम् अभिप्रेत्य किं चित् पद्भ्यां महामुनिः
अर्घ्यम् आदाय रुचिरं जाह्वनीतीरम् आश्रितः
ददर्श राघवस्येष्टां पत्नीं सीताम् अनाथवत्
तां सीतां शोकभारार्तां वाल्मीकिर् मुनिपुंगवः
उवाच मधुरां वाणीं ह्लादयन्न् इव तेजसा
स्नुषा दशरथस्य त्वं रामस्य महिषी सती
जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते
आयान्त्य् एवासि विज्ञाता मया धर्मसमाधिना
कारणं चैव सर्वं मे हृदयेनोपलक्षितम्
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा
विशुद्धभावा वैदेहि साम्प्रतं मयि वर्तसे
आश्रमस्याविदूरे मे तापस्यस् तपसि स्थिताः
तास् त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः
इदम् अर्घ्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा
यथा स्वगृहम् अभ्येत्य विषादं चैव मा कृथाः
श्रुत्वा तु भाषितं सीता मुनेः परमम् अद्भुतम्
शिरसा वन्द्य चरणौ तथेत्य् आह कृताञ्जलिः
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात्
अन्वयाद् यत्र तापस्यो धर्मनित्याः समाहिताः
तं दृष्ट्वा मुनिम् आयान्तं वैदेह्यानुगतं तदा
उपाजग्मुर् मुदा युक्ता वचनं चेदम् अब्रुवन्
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं प्रभो
अभिवादयामः सर्वास् त्वाम् उच्यतां किं च कुर्महे
तासां तद् वचनं श्रुत्वा वाल्मीकिर् इदम् अब्रवीत्
सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः
स्नुषा दशरथस्यैषा जनकस्य सुता सती
अपापा पतिना त्यक्ता परिपाल्या मया सदा
इमां भवत्यः पश्यन्तु स्नेहेन परमेण ह
गौरवान् मम वाक्यस्य पूज्या वो ऽस्तु विशेषतः
मुहुर् मुहुश् च वैदेहीं परिसान्त्व्य महायशाः
स्वम् आश्रमं शिष्यवृतः पुनर् आयान् महातपाः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0