रामायण · अध्याय 7.042
तत्रोपविष्टं राजानम् उपासन्ते विचक्षणाः
कथानां बहुरूपाणां हास्यकाराः समन्ततः
विजयो मधुमत्तश् च काश्यपः पिङ्गलः कुशः
सुराजिः कालियो भद्रो दन्तवक्रः समागधः
एते कथा बहुविधा परिहाससमन्विताः
कथयन्ति स्म संहृष्टा राघवस्य महात्मनः
ततः कथायां कस्यां चिद् राघवः समभाषत
काः कथा नगरे भद्र वर्तन्ते विषयेषु च
माम् आश्रितानि कान्य् आहुः पौरजानपदा जनाः
किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम्
किं नु शत्रुघ्नम् आश्रित्य कैकेयीं मातरं च मे
वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हि
एवम् उक्ते तु रामेण भद्रः प्राञ्जलिर् अब्रवीत्
स्थिताः कथाः शुभा राजन् वर्तन्ते पुरवासिनाम्
अयं तु विजयः सौम्य दशग्रीववधाश्रितः
भूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ
एवम् उक्तस् तु भद्रेण राघवो वाक्यम् अब्रवीत्
कथयस्व यथातथ्यं सर्वं निरवशेषतः
शुभाशुभानि वाक्यानि यान्य् आहुः पुरवासिनः
श्रुत्वेदानीं शुभं कुर्यां न कुर्याम् अशुभानि च
कथयस्व च विस्रब्धो निर्भयो विगतज्वरः
कथयन्ते यथा पौरा जना जनपदेषु च
राघवेणैवम् उक्तस् तु भद्रः सुरुचिरं वचः
प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः
शृणु राजन् यथा पौराः कथयन्ति शुभाशुभम्
चत्वरापणरथ्यासु वनेषूपवनेषु च
दुष्करं कृतवान् रामः समुद्रे सेतुबन्धनम्
अकृतं पूर्वकैः कैश् चिद् देवैर् अपि सदानवैः
रावणश् च दुराधर्षो हतः सबलवाहनः
वानराश् च वशं नीता ऋक्षाश् च सह राक्षसैः
हत्वा च रावणं युद्धे सीताम् आहृत्य राघवः
अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनर् आनयत्
कीदृशं हृदये तस्य सीतासंभोगजं सुखम्
अङ्कम् आरोप्य हि पुरा रावणेन बलाद् धृताम्
लङ्काम् अपि पुनर् नीताम् अशोकवनिकां गताम्
रक्षसां वशम् आपन्नां कथं रामो न कुत्सते
अस्माकम् अपि दारेषु सहनीयं भविष्यति
यथा हि कुरुते राजा प्रजा तम् अनुवर्तते
एवं बहुविधा वाचो वदन्ति पुरवासिनः
नगरेषु च सर्वेषु राजञ् जनपदेषु च
तस्यैतद् भाषितं श्रुत्वा राघवः परमार्तवत्
उवाच सर्वान् सुहृदः कथम् एतन् निवेद्यताम्
सर्वे तु शिरसा भूमाव् अभिवाद्य प्रणम्य च
प्रत्यूचू राघवं दीनम् एवम् एतन् न संशयः
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम्
विसर्जयाम् आस तदा सर्वांस् ताञ् शत्रुतापनः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0