रामायण · अध्याय 7.041
स विसृज्य ततो रामः पुष्पकं हेमभूषितम्
प्रविवेश महाबाहुर् अशोकवनिकां तदा
चन्दनागरुचूतैश् च तुङ्गकालेयकैर् अपि
देवदारुवनैश् चापि समन्ताद् उपशोभिताम्
प्रियङ्गुभिः कदम्बैश् च तथा कुरबकैर् अपि
जम्बूभिः पाटलीभिश् च कोविदारैश् च संवृताम्
सर्वदा कुसुमै रम्यैः फलवद्भिर् मनोरमैः
चारुपल्लवपुष्पाढ्यैर् मत्तभ्रमरसंकुलैः
कोकिलैर् भृङ्गराजैश् च नानावर्णैश् च पक्षिभिः
शोभितां शतशश् चित्रैश् चूतवृक्षावतंसकैः
शातकुम्भनिभाः के चित् के चिद् अग्निशिखोपमाः
नीलाञ्जननिभाश् चान्ये भान्ति तत्र स्म पादपाः
दीर्घिका विविधाकाराः पूर्णाः परमवारिणा
महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः
फुल्लपद्मोत्पलवनाश् चक्रवाकोपशोभिताः
प्राकारैर् विविधाकारैः शोभिताश् च शिलातलैः
तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः
शाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः
नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा
तथारूपं हि रामस्य काननं तन् निवेशितम्
बह्वासनगृहोपेतां लतागृहसमावृताम्
अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः
आसने तु शुभाकारे पुष्पस्तबकभूषिते
कुथास्तरणसंवीते रामः संनिषसाद ह
सीतां संगृह्य बाहुभ्यां मधुमैरेयम् उत्तमम्
पाययाम् आस काकुत्स्थः शचीम् इन्द्रो यथामृतम्
मांसानि च विचित्राणि फलानि विविधानि च
रामस्याभ्यवहारार्थं किंकरास् तूर्णम् आहरन्
उपनृत्यन्ति राजानं नृत्यगीतविशारदाः
बालाश् च रूपवत्यश् च स्त्रियः पानवशं गताः
एवं रामो मुदा युक्तः सीतां सुरुचिराननाम्
रमयाम् आस वैदेहीम् अहन्य् अहनि देववत्
तथा तु रममाणस्य तस्यैवं शिशिरः शुभः
अत्यक्रामन् नरेन्द्रस्य राघवस्य महात्मनः
पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित्
शेषं दिवसभागार्धम् अन्तःपुरगतो ऽभवत्
सीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु
श्वश्रूणाम् अविशेषेण सर्वासां प्राञ्जलिः स्थिता
ततो रामम् उपागच्छद् विचित्रबहुभूषणा
त्रिविष्टपे सहस्राक्षम् उपविष्टं यथा शची
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम्
प्रहर्षम् अतुलं लेभे साधु साध्व् इति चाब्रवीत्
अपत्यलाभो वैदेहि ममायं समुपस्थितः
किम् इच्छसि हि तद् ब्रूहि कः कामः क्रियतां तव
प्रहसन्ती तु वैदेही रामं वाक्यम् अथाब्रवीत्
तपोवनानि पुण्यानि द्रष्टुम् इच्छामि राघव
गङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम्
फलमूलाशिनां वीर पादमूलेषु वर्तितुम्
एष मे परमः कामो यन् मूलफलभोजिषु
अप्य् एकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु
तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा
विस्रब्धा भव वैदेहि श्वो गमिष्यस्य् असंशयम्
एवम् उक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम्
मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0