भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.043

7.043.001

विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः
समीपे द्वाःस्थम् आसीनम् इदं वचनम् अब्रवीत्

7.043.002

शीघ्रम् आनय सौमित्रिं लक्ष्मणं शुभलक्षणम्
भरतं च महाबाहुं शत्रुघ्नं चापराजितम्

7.043.003

रामस्य भाषितं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः
लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः

7.043.004

उवाच च तदा वाक्यं वर्धयित्वा कृताञ्जलिः
द्रष्टुम् इच्छति राजा त्वां गम्यतां तत्र मा चिरम्

7.043.005

बाढम् इत्य् एव सौमित्रिः श्रुत्वा राघवशासनम्
प्राद्रवद् रथम् आरुह्य राघवस्य निवेशनम्

7.043.006

प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतम् अन्तिकात्
उवाच प्राञ्जलिर् वाक्यं राजा त्वां द्रष्टुम् इच्छति

7.043.007

भरतस् तु वचः श्रुत्वा द्वाःस्थाद् रामसमीरितम्
उत्पपातासनात् तूर्णं पद्भ्याम् एव ततो ऽगमत्

7.043.008

दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः
शत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद ह

7.043.009

एह्य् आगच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुम् इच्छति
गतो हि लक्ष्मणः पूर्वं भरतश् च महायशाः

7.043.010

श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम्
शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः

7.043.011

कुमारान् आगताञ् श्रुत्वा चिन्ताव्याकुलितेन्द्रियः
अवाक्शिरा दीनमना द्वाःस्थं वचनम् अब्रवीत्

7.043.012

प्रवेशय कुमारांस् त्वं मत्समीपं त्वरान्वितः
एतेषु जीवितं मह्यम् एते प्राणा बहिश्चराः

7.043.013

आज्ञप्तास् तु नरेन्द्रेण कुमाराः शुक्लवाससः
प्रह्वाः प्राञ्जलयो भूत्वा विविशुस् ते समाहिताः

7.043.014

ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा
संध्यागतम् इवादित्यं प्रभया परिवर्जितम्

7.043.015

बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः
हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते

7.043.016

ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः
तस्थुः समाहिताः सर्वे रामश् चाश्रूण्य् अवर्तयत्

7.043.017

तान् परिष्वज्य बाहुभ्याम् उत्थाप्य च महाभुजः
आसनेष्व् आध्वम् इत्य् उक्त्वा ततो वाक्यं जगाद ह

7.043.018

भवन्तो मम सर्वस्वं भवन्तो मम जीवितम्
भवद्भिश् च कृतं राज्यं पालयामि नरेश्वराः

7.043.019

भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः
संभूय च मदर्थो ऽयम् अन्वेष्टव्यो नरेश्वराः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc