भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.022

7.022.001

स तु तस्य महानादं श्रुत्वा वैवस्वतो यमः
शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम्

7.022.002

स तु योधान् हतान् मत्वा क्रोधपर्याकुलेक्षणः
अब्रवीत् त्वरितं सूतं रथः समुपनीयताम्

7.022.003

तस्य सूतो रथं दिव्यम् उपस्थाप्य महास्वनम्
स्थितः स च महातेजा आरुरोह महारथम्

7.022.004

पाशमुद्गरहस्तश् च मृत्युस् तस्याग्रतो स्थितः
येन संक्षिप्यते सर्वं त्रैलोक्यं सचराचरम्

7.022.005

कालदण्डश् च पार्श्वस्थो मूर्तिमान् स्यन्दने स्थितः
यमप्रहरणं दिव्यं प्रज्वलन्न् इव तेजसा

7.022.006

ततो लोकास् त्रयस् त्रस्ताः कम्पन्ते च दिवौकसः
कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम्

7.022.007

दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम्
सचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम्

7.022.008

लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः
नात्र योद्धुं समर्थाः स्म इत्य् उक्त्वा विप्रदुद्रुवुः

7.022.009

स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम्
नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत्

7.022.010

स तु रावणम् आसाद्य विसृजञ् शक्तितोमरान्
यमो मर्माणि संक्रुद्धो राक्षसस्य न्यकृन्तत

7.022.011

रावणस् तु स्थितः स्वस्थः शरवर्षं मुमोच ह
तस्मिन् वैवस्वतरथे तोयवर्षम् इवाम्बुदः

7.022.012

ततो महाशक्तिशतैः पात्यमानैर् महोरसि
प्रतिकर्तुं स नाशक्नोद् राक्षसः शल्यपीडितः

7.022.013

नानाप्रहरणैर् एवं यमेनामित्रकर्शिना
सप्तरात्रं कृते संख्ये न भग्नो विजितो ऽपि वा

7.022.014

ततो ऽभवत् पुनर् युद्धं यमराक्षसयोस् तदा
विजयाकाङ्क्षिणोस् तत्र समरेष्व् अनिवर्तिनोः

7.022.015

ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः
प्रजापतिं पुरस्कृत्य ददृशुस् तद् रणाजिरम्

7.022.016

संवर्त इव लोकानाम् अभवद् युध्यतोस् तयोः
राक्षसानां च मुख्यस्य प्रेतानाम् ईश्वरस्य च

7.022.017

राक्षसेन्द्रस् ततः क्रुद्धश् चापम् आयम्य संयुगे
निरन्तरम् इवाकाशं कुर्वन् बाणान् मुमोच ह

7.022.018

मृत्युं चतुर्भिर् विशिखैः सूतं सप्तभिर् अर्दयत्
यमं शरसहस्रेण शीघ्रं मर्मस्व् अताडयत्

7.022.019

ततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतः
ज्वालामालो विनिश्वासो वदनात् क्रोधपावकः

7.022.020

ततो ऽपश्यंस् तदाश्चर्यं देवदानवराक्षसाः
क्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर् बलम्

7.022.021

मृत्युस् तु परमक्रुद्धो वैवस्वतम् अथाब्रवीत्
मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम्

7.022.022

नरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बली
नमुचिर् विरोचनश् चैव ताव् उभौ मधुकैटभौ

7.022.023

एते चान्ये च बहवो बलवन्तो दुरासदाः
विनिपन्ना मया दृष्टाः का चिन्तास्मिन् निशाचरे

7.022.024

मुञ्च मां साधु धर्मज्ञ यावद् एनं निहन्म्य् अहम्
न हि कश् चिन् मया दृष्टो मुहूर्तम् अपि जीवति

7.022.025

बलं मम न खल्व् एतन् मर्यादैषा निसर्गतः
संस्पृष्टो हि मया कश् चिन् न जीवेद् इति निश्चयः

7.022.026

एतत् तु वचनं श्रुत्वा धर्मराजः प्रतापवान्
अब्रवीत् तत्र तं मृत्युमयम् एनं निहन्म्य् अहम्

7.022.027

ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः
कालदण्डम् अमोघं तं तोलयाम् आस पाणिना

7.022.028

यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः
पावकस्पर्शसंकाशो मुद्गरो मूर्तिमान् स्थितः

7.022.029

दर्शनाद् एव यः प्राणान् प्राणिनाम् उपरुध्यति
किं पुनस् ताडनाद् वापि पीडनाद् वापि देहिनः

7.022.030

स ज्वालापरिवारस् तु पिबन्न् इव निशाचरम्
करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः

7.022.031

ततो विदुद्रुवुः सर्वे सत्त्वास् तस्माद् रणाजिरात्
सुराश् च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम्

7.022.032

तस्मिन् प्रहर्तुकामे तु दण्डम् उद्यम्य रावणम्
यमं पितामहः साक्षाद् दर्शयित्वेदम् अब्रवीत्

7.022.033

वैवस्वत महाबाहो न खल्व् अतुलविक्रम
प्रहर्तव्यं त्वयैतेन दण्डेनास्मिन् निशाचरे

7.022.034

वरः खलु मया दत्तस् तस्य त्रिदशपुंगव
तत् त्वया नानृतं कार्यं यन् मया व्याहृतं वचः

7.022.035

अमोघो ह्य् एष सर्वासां प्रजानां विनिपातने
कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः

7.022.036

तन् न खल्व् एष ते सौम्य पात्यो राक्षसमूर्धनि
न ह्य् अस्मिन् पतिते कश् चिन् मुहूर्तम् अपि जीवति

7.022.037

यदि ह्य् अस्मिन् निपतिते न म्रियेतैष राक्षसः
म्रियेत वा दशग्रीवस् तथाप्य् उभयतो ऽनृतम्

7.022.038

राक्षसेन्द्रान् नियच्छाद्य दण्डम् एनं वधोद्यतम्
सत्यं मम कुरुष्वेदं लोकांस् त्वं समवेक्ष्य च

7.022.039

एवम् उक्तस् तु धर्मात्मा प्रत्युवाच यमस् तदा
एष व्यावर्तितो दण्डः प्रभविष्णुर् भवान् हि नः

7.022.040

किं त्व् इदानीं मया शक्यं कर्तुं रणगतेन हि
यन् मया यन् न हन्तव्यो राक्षसो वरदर्पितः

7.022.041

एष तस्मात् प्रणश्यामि दर्शनाद् अस्य रक्षसः
इत्य् उक्त्वा सरथः साश्वस् तत्रैवान्तरधीयत

7.022.042

दशग्रीवस् तु तं जित्वा नाम विश्राव्य चात्मनः
पुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात्

7.022.043

ततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैः
जगाम त्रिदिवं हृष्टो नारदश् च महामुनिः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc