रामायण · अध्याय 7.021
एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः
आख्यातुं तद् यथावृत्तं यमस्य सदनं प्रति
अपश्यत् स यमं तत्र देवम् अग्निपुरस्कृतम्
विधानम् उपतिष्ठन्तं प्राणिनो यस्य यादृशम्
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम्
अब्रवीत् सुखम् आसीनम् अर्घ्यम् आवेद्य धर्मतः
कच्चित् क्षेमं नु देवर्षे कच्चिद् धर्मो न नश्यति
किम् आगमनकृत्यं ते देवगन्धर्वसेवित
अब्रवीत् तु तदा वाक्यं नारदो भगवान् ऋषिः
श्रूयताम् अभिधास्यामि विधानं च विधीयताम्
एष नाम्ना दशग्रीवः पितृराज निशाचरः
उपयाति वशं नेतुं विक्रमैस् त्वां सुदुर्जयम्
एतेन कारणेनाहं त्वरितो ऽस्म्य् आगतः प्रभो
दण्डप्रहरणस्याद्य तव किं नु करिष्यति
एतस्मिन्न् अन्तरे दूराद् अंशुमन्तम् इवोदितम्
ददृशे दिव्यम् आयान्तं विमानं तस्य रक्षसः
तं देशं प्रभया तस्य पुष्पकस्य महाबलः
कृत्वा वितिमिरं सर्वं समीपं समवर्तत
स त्व् अपश्यन् महाबाहुर् दशग्रीवस् ततस् ततः
प्राणिनः सुकृतं कर्म भुञ्जानांश् चैव दुष्कृतम्
ततस् तान् वध्यमानांस् तु कर्मभिर् दुष्कृतैः स्वकैः
रावणो मोचयाम् आस विक्रमेण बलाद् बली
प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा
प्रेतगोपाः सुसंरब्धा राक्षसेन्द्रम् अभिद्रवन्
ते प्रासैः परिघैः शूलैर् मुद्गरैः शक्तितोमरैः
पुष्पकं समवर्षन्त शूराः शतसहस्रशः
तस्यासनानि प्रासादान् वेदिकास्तरणानि च
पुष्पकस्य बभञ्जुस् ते शीघ्रं मधुकरा इव
देवनिष्ठानभूतं तद् विमानं पुष्पकं मृधे
भज्यमानं तथैवासीद् अक्षयं ब्रह्मतेजसा
ततस् ते रावणामात्या यथाकामं यथाबलम्
अयुध्यन्त महावीर्याः स च राजा दशाननः
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः
अमात्या राक्षसेन्द्रस्य चक्रुर् आयोधनं महत्
अन्योन्यं च महाभागा जघ्नुः प्रहरणैर् युधि
यमस्य च महत् सैन्यं राक्षसस्य च मन्त्रिणः
अमात्यांस् तांस् तु संत्यज्य राक्षसस्य महौजसः
तम् एव समधावन्त शूलवर्षैर् दशाननम्
ततः शोणितदिग्धाङ्गः प्रहारैर् जर्जरीकृतः
विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ
स शूलानि गदाः प्रासाञ् शक्तितोमरसायकान्
मुसलानि शिलावृक्षान् मुमोचास्त्रबलाद् बली
तांस् तु सर्वान् समाक्षिप्य तद् अस्त्रम् अपहत्य च
जघ्नुस् ते राक्षसं घोरम् एकं शतसहस्रकः
परिवार्य च तं सर्वे शैलं मेघोत्करा इव
भिन्दिपालैश् च शूलैश् च निरुच्छ्वासम् अकारयन्
विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः
स पुष्पकं परित्यज्य पृथिव्याम् अवतिष्ठत
ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः
लब्धसंज्ञो मुहूर्तेन क्रुद्धस् तस्थौ यथान्तकः
ततः पाशुपतं दिव्यम् अस्त्रं संधाय कार्मुके
तिष्ठ तिष्ठेति तान् उक्त्वा तच् चापं व्यपकर्षत
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे
मुक्तो गुल्मान् द्रुमांश् चैव भस्मकृत्वा प्रधावति
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु
रणे तस्मिन् निपतिता दावदग्धा नगा इव
ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः
ननाद सुमहानादं कम्पयन्न् इव मेदिनीम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0