भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.023

7.023.001

स तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम्
रावणस् तु जयश्लाघी स्वसहायान् ददर्श ह

7.023.002

जयेन वर्धयित्वा च मारीचप्रमुखास् ततः
पुष्पकं भेजिरे सर्वे सान्त्विता रवणेन ह

7.023.003

ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम्
दैत्योरग गणाध्युष्टं वरुणेन सुरक्षितम्

7.023.004

स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम्
स्थाप्य नागान् वशे कृत्वा ययौ मणिमतीं पुरीम्

7.023.005

निवातकवचास् तत्र दैत्या लब्धवरा वसन्
राक्षसस् तान् समासाद्य युद्धेन समुपाह्वयत्

7.023.006

ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः
नानाप्रहरणास् तत्र प्रयुद्धा युद्धदुर्मदाः

7.023.007

तेषां तु युध्यमानानां साग्रः संवत्सरो गतः
न चान्यतरयोस् तत्र विजयो वा क्षयो ऽपि वा

7.023.008

ततः पितामहस् तत्र त्रैलोक्यगतिर् अव्ययः
आजगाम द्रुतं देवो विमानवरम् आस्थितः

7.023.009

निवातकवचानां तु निवार्य रणकर्म तत्
वृद्धः पितामहो वाक्यम् उवाच विदितार्थवत्

7.023.010

न ह्य् अयं रावणो युद्धे शक्यो जेतुं सुरासुरैः
न भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः

7.023.011

राक्षसस्य सखित्वं वै भवद्भिः सह रोचते
अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः

7.023.012

ततो ऽग्निसाक्षिकं सख्यं कृतवांस् तत्र रावणः
निवातकवचैः सार्धं प्रीतिमान् अभवत् तदा

7.023.013

अर्चितस् तैर् यथान्यायं संवत्सरसुखोषितः
स्वपुरान् निर्विशेषं च पूजां प्राप्तो दशाननः

7.023.014

स तूपधार्य मायानां शतम् एकोनम् आत्मवान्
सलिलेन्द्रपुरान्वेषी स बभ्राम रसातलम्

7.023.015

ततो ऽश्मनगरं नाम कालकेयाभिरक्षितम्
तं विजित्य मुहूर्तेन जघ्ने दैत्यांश् चतुःशतम्

7.023.016

ततः पाण्डुरमेघाभं कैलासम् इव संस्थितम्
वरुणस्यालयं दिव्यम् अपश्यद् राक्षसाधिपः

7.023.017

क्षरन्तीं च पयो नित्यं सुरभिं गाम् अवस्थिताम्
यस्याः पयोविनिष्यन्दात् क्षीरोदो नाम सागरः

7.023.018

यस्माच् चन्द्रः प्रभवति शीतरश्मिः प्रजाहितः
यं समासाद्य जीवन्ति फेनपाः परमर्षयः
अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम्

7.023.019

यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः
प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम्
प्रविवेश महाघोरं गुप्तं बहुविधैर् बलैः

7.023.020

ततो धाराशताकीर्णं शारदाभ्रनिभं तदा
नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम्

7.023.021

ततो हत्वा बलाध्यक्षान् समरे तैश् च ताडितः
अब्रवीत् क्व गतो यो वो राजा शीघ्रं निवेद्यताम्

7.023.022

युद्धार्थी रावणः प्राप्तस् तस्य युद्धं प्रदीयताम्
वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः

7.023.023

एतस्मिन्न् अन्तरे क्रुद्धा वरुणस्य महात्मनः
पुत्राः पौत्राश् च निष्क्रामन् गौश् च पुष्कर एव च

7.023.024

ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः
युक्त्वा रथान् कामगमान् उद्यद्भास्करवर्चसः

7.023.025

ततो युद्धं समभवद् दारुणं लोमहर्षणम्
सलिलेन्द्रस्य पुत्राणां रावणस्य च रक्षसः

7.023.026

अमात्यैस् तु महावीर्यैर् दशग्रीवस्य रक्षसः
वारुणं तद् बलं कृत्स्नं क्षणेन विनिपातितम्

7.023.027

समीक्ष्य स्वबलं संख्ये वरुणस्या सुतास् तदा
अर्दिताः शरजालेन निवृत्ता रणकर्मणः

7.023.028

महीतलगतास् ते तु रावणं दृश्य पुष्पके
आकाशम् आशु विविशुः स्यन्दनैः शीघ्रगामिभिः

7.023.029

महद् आसीत् ततस् तेषां तुल्यं स्थानम् अवाप्य तत्
आकाशयुद्धं तुमुलं देवदानवयोर् इव

7.023.030

ततस् ते रावणं युद्धे शरैः पावकसंनिभैः
विमुखीकृत्य संहृष्टा विनेदुर् विविधान् रवान्

7.023.031

ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम्
त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत्

7.023.032

तेन तेषां हया ये च कामगाः पवनोपमाः
महोदरेण गदया हतास् ते प्रययुः क्षितिम्

7.023.033

तेषां वरुणसूनूनां हत्वा योधान् हयांश् च तान्
मुमोचाशु महानादं विरथान् प्रेक्ष्य तान् स्थितान्

7.023.034

ते तु तेषां रथाः साश्वाः सह सारथिभिर् वरैः
महोदरेण निहताः पतिताः पृथिवीतले

7.023.035

ते तु त्यक्त्वा रथान् पुत्रा वरुणस्य महात्मनः
आकाशे विष्ठिताः शूराः स्वप्रभावान् न विव्यथुः

7.023.036

धनूंषि कृत्वा सज्यानि विनिर्भिद्य महोदरम्
रावणं समरे क्रुद्धाः सहिताः समभिद्रवन्

7.023.037

ततः क्रुद्धो दशग्रीवः कालाग्निर् इव विष्ठितः
शरवर्षं महावेगं तेषां मर्मस्व् अपातयत्

7.023.038

मुसलानि विचित्राणि ततो भल्लशतानि च
पट्टसांश् चैव शक्तीश् च शतघ्नीस् तोमरांस् तथा
पातयाम् आस दुर्धर्षस् तेषाम् उपरि विष्ठितः

7.023.039

अथ विद्धास् तु ते वीरा विनिष्पेतुः पदातयः

7.023.040

ततो रक्षो महानादं मुक्त्वा हन्ति स्म वारुणान्
नानाप्रहरणैर् घोरैर् धारापातैर् इवाम्बुदः

7.023.041

ततस् ते विमुखाः सर्वे पतिता धरणीतले
रणात् स्वपुरुषैः शीघ्रं गृहाण्य् एव प्रवेशिताः

7.023.042

तान् अब्रवीत् ततो रक्षो वरुणाय निवेद्यताम्
रावणं चाब्रवीन् मन्त्री प्रभासो नाम वारुणः

7.023.043

गतः खलु महातेजा ब्रह्मलोकं जलेश्वरः
गान्धर्वं वरुणः श्रोतुं यं त्वम् आह्वयसे युधि

7.023.044

तत् किं तव वृथा वीर परिश्राम्य गते नृपे
ये तु संनिहिता वीराः कुमारास् ते पराजिताः

7.023.045

राक्षसेन्द्रस् तु तच् छ्रुत्वा नाम विश्राव्य चात्मनः
हर्षान् नादं विमुञ्चन् वै निष्क्रान्तो वरुणालयात्

7.023.046

आगतस् तु पथा येन तेनैव विनिवृत्य सः
लङ्काम् अभिमुखो रक्षो नभस्तलगतो ययौ

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc