भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.088

6.088.001

तस्मिन् प्रतिहते ऽस्त्रे तु रावणो राक्षसाधिपः
क्रोधं च द्विगुणं चक्रे क्रोधाच् चास्त्रम् अनन्तरम्

6.088.002

मयेन विहितं रौद्रम् अन्यद् अस्त्रं महाद्युतिः
उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे

6.088.003

ततः शूलानि निश्चेरुर् गदाश् च मुसलानि च
कार्मुकाद् दीप्यमानानि वज्रसाराणि सर्वशः

6.088.004

कूटमुद्गरपाशाश् च दीप्ताश् चाशनयस् तथा
निष्पेतुर् विविधास् तीक्ष्णा वाता इव युगक्षये

6.088.005

तद् अस्त्रं राघवः श्रीमान् उत्तमास्त्रविदां वरः
जघान परमास्त्रेण गन्धर्वेण महाद्युतिः

6.088.006

तस्मिन् प्रतिहते ऽस्त्रे तु राघवेण महात्मना
रावणः क्रोधताम्राक्षः सौरम् अस्त्रम् उदीरयत्

6.088.007

ततश् चक्राणि निष्पेतुर् भास्वराणि महान्ति च
कार्मुकाद् भीमवेगस्य दशग्रीवस्य धीमतः

6.088.008

तैर् आसीद् गगनं दीप्तं संपतद्भिर् इतस् ततः
पतद्भिश् च दिशो दीप्तैश् चन्द्रसूर्यग्रहैर् इव

6.088.009

तानि चिच्छेद बाणौघैश् चक्राणि तु स राघवः
आयुधानि विचित्राणि रावणस्य चमूमुखे

6.088.010

तद् अस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः
विव्याध दशभिर् बाणै रामं सर्वेषु मर्मसु

6.088.011

स विद्धो दशभिर् बाणैर् महाकार्मुकनिःसृतैः
रावणेन महातेजा न प्राकम्पत राघवः

6.088.012

ततो विव्याध गात्रेषु सर्वेषु समितिंजयः
राघवस् तु सुसंक्रुद्धो रावणं बहुभिः शरैः

6.088.013

एतस्मिन्न् अन्तरे क्रुद्धो राघवस्यानुजो बली
लक्ष्मणः सायकान् सप्त जग्राह परवीरहा

6.088.014

तैः सायकैर् महावेगै रावणस्य महाद्युतिः
ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा

6.088.015

सारथेश् चापि बाणेन शिरो ज्वलितकुण्डलम्
जहार लक्ष्मणः श्रीमान् नैरृतस्य महाबलः

6.088.016

तस्य बाणैश् च चिच्छेद धनुर् गजकरोपमम्
लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर् निशितैः शरैः

6.088.017

नीलमेघनिभांश् चास्य सदश्वान् पर्वतोपमान्
जघानाप्लुत्य गदया रावणस्य विभीषणः

6.088.018

हताश्वाद् वेगवान् वेगाद् अवप्लुत्य महारथात्
क्रोधम् आहारयत् तीव्रं भ्रातरं प्रति रावणः

6.088.019

ततः शक्तिं महाशक्तिर् दीप्तां दीप्ताशनीम् इव
विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान्

6.088.020

अप्राप्ताम् एव तां बाणैस् त्रिभिश् चिच्छेद लक्ष्मणः
अथोदतिष्ठत् संनादो वानराणां तदा रणे

6.088.021

सा पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी
सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश् च्युता

6.088.022

ततः संभाविततरां कालेनापि दुरासदाम्
जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा

6.088.023

सा वेगिना बलवता रावणेन दुरात्मना
जज्वाल सुमहाघोरा शक्राशनिसमप्रभा

6.088.024

एतस्मिन्न् अन्तरे वीरो लक्ष्मणस् तं विभीषणम्
प्राणसंशयम् आपन्नं तूर्णम् एवाभ्यपद्यत

6.088.025

तं विमोक्षयितुं वीरश् चापम् आयम्य लक्ष्मणः
रावणं शक्तिहस्तं तं शरवर्षैर् अवाकिरत्

6.088.026

कीर्यमाणः शरौघेण विसृष्टेन महात्मना
न प्रहर्तुं मनश् चक्रे विमुखीकृतविक्रमः

6.088.027

मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः
लक्ष्मणाभिमुखस् तिष्ठन्न् इदं वचनम् अब्रवीत्

6.088.028

मोक्षितस् ते बलश्लाघिन् यस्माद् एवं विभीषणः
विमुच्य राक्षसं शक्तिस् त्वयीयं विनिपात्यते

6.088.029

एषा ते हृदयं भित्त्वा शक्तिर् लोहितलक्षणा
मद्बाहुपरिघोत्सृष्टा प्राणान् आदाय यास्यति

6.088.030

इत्य् एवम् उक्त्वा तां शक्तिम् अष्टघण्टां महास्वनाम्
मयेन मायाविहिताम् अमोघां शत्रुघातिनीम्

6.088.031

लक्ष्मणाय समुद्दिश्य ज्वलन्तीम् इव तेजसा
रावणः परमक्रुद्धश् चिक्षेप च ननाद च

6.088.032

सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना
शक्तिर् अभ्यपतद् वेगाल् लक्ष्मणं रणमूर्धनि

6.088.033

ताम् अनुव्याहरच् छक्तिम् आपतन्तीं स राघवः
स्वस्त्यस् तु लक्ष्मणायेति मोघा भव हतोद्यमा

6.088.034

न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि
जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः

6.088.035

ततो रावणवेगेन सुदूरम् अवगाढया
शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः

6.088.036

तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः
भ्रातृस्नेहान् महातेजा विषण्णहृदयो ऽभवत्

6.088.037

स मुहूर्तम् अनुध्याय बाष्पव्याकुललोचनः
बभूव संरब्धतरो युगान्त इव पावकः

6.088.038

न विषादस्य कालो ऽयम् इति संचिन्त्य राघवः
चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः

6.088.039

स ददर्श ततो रामः शक्त्या भिन्नं महाहवे
लक्ष्मणं रुधिरादिग्धं सपन्नगम् इवाचलम्

6.088.040

ताम् अपि प्रहितां शक्तिं रावणेन बलीयसा
यत्नतस् ते हरिश्रेष्ठा न शेकुर् अवमर्दितुम्
अर्दिताश् चैव बाणौघैः क्षिप्रहस्तेन रक्षसा

6.088.041

सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम्
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम्
बभञ्ज समरे क्रुद्धो बलवद् विचकर्ष च

6.088.042

तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा
शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः

6.088.043

अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम्
अब्रवीच् च हनूमन्तं सुग्रीवं चैव राघवः
लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः

6.088.044

पराक्रमस्य कालो ऽयं संप्राप्तो मे चिरेप्सितः
पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः
काङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम्

6.088.045

अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः
अरावणम् अरामं वा जगद् द्रक्ष्यथ वानराः

6.088.046

राज्यनाशं वने वासं दण्डके परिधावनम्
वैदेह्याश् च परामर्शं रक्षोभिश् च समागमम्

6.088.047

प्राप्तं दुःखं महद् घोरं क्लेशं च निरयोपमम्
अद्य सर्वम् अहं त्यक्ष्ये हत्वा तं रावणं रणे

6.088.048

यदर्थं वानरं सैन्यं समानीतम् इदं मया
सुग्रीवश् च कृतो राज्ये निहत्वा वालिनं रणे

6.088.049

यदर्थं सागरः क्रान्तः सेतुर् बद्धश् च सागरे
सो ऽयम् अद्य रणे पापश् चक्षुर्विषयम् आगतः

6.088.050

चक्षुर्विषयम् आगम्य नायं जीवितुम् अर्हति
दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः

6.088.051

स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुंगवाः
आसीनाः पर्वताग्रेषु ममेदं रावणस्य च

6.088.052

अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे
त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः

6.088.053

अद्य कर्म करिष्यामि यल् लोकाः सचराचराः
सदेवाः कथयिष्यन्ति यावद् भूमिर् धरिष्यति

6.088.054

एवम् उक्त्वा शितैर् बाणैस् तप्तकाञ्चनभूषणैः
आजघान दशग्रीवं रणे रामः समाहितः

6.088.055

अथ प्रदीप्तैर् नाराचैर् मुसलैश् चापि रावणः
अभ्यवर्षत् तदा रामं धाराभिर् इव तोयदः

6.088.056

रामरावणमुक्तानाम् अन्योन्यम् अभिनिघ्नताम्
शराणां च शराणां च बभूव तुमुलः स्वनः

6.088.057

ते भिन्नाश् च विकीर्णाश् च रामरावणयोः शराः
अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर् धरणीतले

6.088.058

तयोर् ज्यातलनिर्घोषो रामरावणयोर् महान्
त्रासनः सर्वबूतानां स बभूवाद्भुतोपमः

6.088.059

स कीर्यमाणः शरजालवृष्टिभिर् महात्मना दीप्तधनुष्मतार्दितः
भयात् प्रदुद्राव समेत्य रावणो यथानिलेनाभिहतो बलाहकः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc