भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.089

6.089.001

स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः
विसृजन्न् एव बाणौघान् सुषेणं वाक्यम् अब्रवीत्

6.089.002

एष रावणवेगेन लक्ष्मणः पतितः क्षितौ
सर्पवद् वेष्टते वीरो मम शोकम् उदीरयन्

6.089.003

शोणितार्द्रम् इमं वीरं प्राणैर् इष्टतरं मम
पश्यतो मम का शक्तिर् योद्धुं पर्याकुलात्मनः

6.089.004

अयं स समरश्लाघी भ्राता मे शुभलक्षणः
यदि पञ्चत्वम् आपन्नः प्राणैर् मे किं सुखेन वा

6.089.005

लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः
सायका व्यवसीदन्ति दृष्टिर् बाष्पवशं गता
चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते

6.089.006

भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना
परं विषादम् आपन्नो विललापाकुलेन्द्रियः

6.089.007

न हि युद्धेन मे कार्यं नैव प्राणैर् न सीतया
भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु

6.089.008

किं मे राज्येन किं प्राणैर् युद्धे कार्यं न विद्यते
यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः

6.089.009

रामम् आश्वासयन् वीरः सुषेणो वाक्यम् अब्रवीत्
न मृतो ऽयं महाबाहुर् लक्ष्मणो लक्ष्मिवर्धनः

6.089.010

न चास्य विकृतं वक्त्रं नापि श्यामं न निष्प्रभम्
सुप्रभं च प्रसन्नं च मुखम् अस्याभिलक्ष्यते

6.089.011

पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने
एवं न विद्यते रूपं गतासूनां विशां पते
मां विषादं कृथा वीर सप्राणो ऽयम् अरिंदम

6.089.012

आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर् मुहुः

6.089.013

एवम् उक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः
समीपस्थम् उवाचेदं हनूमन्तम् अभित्वरन्

6.089.014

सौम्य शीघ्रम् इतो गत्वा शैलम् ओषधिपर्वतम्
पूर्वं हि कथितो यो ऽसौ वीर जाम्बवता शुभः

6.089.015

दक्षिणे शिखरे तस्य जाताम् ओषधिम् आनय
विशल्यकरणी नाम विशल्यकरणीं शुभाम्

6.089.016

सौवर्णकरणीं चापि तथा संजीवनीम् अपि
संधानकरणीं चापि गत्वा शीघ्रम् इहानय
संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः

6.089.017

इत्य् एवम् उक्तो हनुमान् गत्वा चौषधिपर्वतम्
चिन्ताम् अभ्यगमच् छ्रीमान् अजानंस् ता महौषधीः

6.089.018

तस्य बुद्धिः समुत्पन्ना मारुतेर् अमितौजसः
इदम् एव गमिष्यामि गृहीत्वा शिखरं गिरेः

6.089.019

अगृह्य यदि गच्छामि विशल्यकरणीम् अहम्
कालात्ययेन दोषः स्याद् वैक्लव्यं च महद् भवेत्

6.089.020

इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः
उत्पपात गृहीत्वा तु हनूमाञ् शिखरं गिरेः

6.089.021

ओषधीर् नावगछामि ता अहं हरिपुंगव
तद् इदं शिखरं कृत्स्नं गिरेस् तस्याहृतं मया

6.089.022

एवं कथयमानं तं प्रशस्य पवनात्मजम्
सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः

6.089.023

ततः संक्षोदयित्वा ताम् ओषधिं वानरोत्तमः
लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः

6.089.024

सशल्यः स समाघ्राय लक्ष्मणः परवीरहा
विशल्यो विरुजः शीघ्रम् उदतिष्ठन् महीतलात्

6.089.025

समुत्थितं ते हरयो भूतलात् प्रेक्ष्य लक्ष्मणम्
साधु साध्व् इति सुप्रीताः सुषेणं प्रत्यपूजयन्

6.089.026

एह्य् एहीत्य् अब्रवीद् रामो लक्ष्मणं परवीरहा
सस्वजे स्नेहगाढं च बाष्पपर्याकुलेक्षणः

6.089.027

अब्रवीच् च परिष्वज्य सौमित्रिं राघवस् तदा
दिष्ट्या त्वां वीर पश्यामि मरणात् पुनर् आगतम्

6.089.028

न हि मे जीवितेनार्थः सीतया च जयेन वा
को हि मे जीवितेनार्थस् त्वयि पञ्चत्वम् आगते

6.089.029

इत्य् एवं वदतस् तस्य राघवस्य महात्मनः
खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यम् अब्रवीत्

6.089.030

तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम
लघुः कश् चिद् इवासत्त्वो नैवं वक्तुम् इहार्हसि

6.089.031

न प्रतिज्ञां हि कुर्वन्ति वितथां साधवो ऽनघ
लक्षणं हि महत् त्व् अस्य प्रतिज्ञापरिपालनम्

6.089.032

नैराश्यम् उपगन्तुं ते तद् अलं मत्कृते ऽनघ
वधेन रावणस्याद्य प्रतिज्ञाम् अनुपालय

6.089.033

न जीवन् यास्यते शत्रुस् तव बाणपथं गतः
नर्दतस् तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः

6.089.034

अहं तु वधम् इच्छामि शीघ्रम् अस्य दुरात्मनः
यावद् अस्तं न यात्य् एष कृतकर्मा दिवाकरः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc