भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.087

6.087.001

महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ
तस्मिंश् च निहते वीरे विरूपाक्षे महाबले

6.087.002

आविवेश महान् क्रोधो रावणं तु महामृधे
सूतं संचोदयाम् आस वाक्यं चेदम् उवाच ह

6.087.003

निहतानाम् अमात्यानां रुद्धस्य नगरस्य च
दुःखम् एषो ऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ

6.087.004

रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्
प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः

6.087.005

स दिशो दश घोषेण रथस्यातिरथो महान्
नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत

6.087.006

पूरिता तेन शब्देन सनदीगिरिकानना
संचचाल मही सर्वा सवराहमृगद्विपा

6.087.007

तामसं सुमहाघोरं चकारास्त्रं सुदारुणम्
निर्ददाह कपीन् सर्वांस् ते प्रपेतुः समन्ततः

6.087.008

तान्य् अनीकान्य् अनेकानि रावणस्य शरोत्तमैः
दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः

6.087.009

स ददर्श ततो रामं तिष्ठन्तम् अपराजितम्
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा

6.087.010

आलिखन्तम् इवाकाशम् अवष्टभ्य महद् धनुः
पद्मपत्रविशालाक्षं दीर्घबाहुम् अरिंदमम्

6.087.011

वानरांश् च रणे भग्नान् आपतन्तं च रावणम्
समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्

6.087.012

विस्फारयितुम् आरेभे ततः स धनुर् उत्तमम्
महावेगं महानादं निर्भिन्दन्न् इव मेदिनीम्

6.087.013

तयोः शरपथं प्राप्य रावणो राजपुत्रयोः
स बभूव यथा राहुः समीपे शशिसूर्ययोः

6.087.014

रावणस्य च बाणौघै रामविस्फरितेन च
शब्देन राक्षसास् तेन पेतुश् च शतशस् तदा

6.087.015

तम् इच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः
मुमोच धनुर् आयम्य शरान् अग्निशिखोपमान्

6.087.016

तान् मुक्तमात्रान् आकाशे लक्ष्मणेन धनुष्मता
बाणान् बाणैर् महातेजा रावणः प्रत्यवारयत्

6.087.017

एकम् एकेन बाणेन त्रिभिस् त्रीन् दशभिर् दश
लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम्

6.087.018

अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः
आससाद ततो रामं स्थितं शैलम् इवाचलम्

6.087.019

स संख्ये रामम् आसाद्य क्रोधसंरक्तलोचनः
व्यसृजच् छरवर्षानि रावणो राघवोपरि

6.087.020

शरधारास् ततो रामो रावणस्य धनुश्च्युताः
दृष्ट्वैवापतिताः शीघ्रं भल्लाञ् जग्राह सत्वरम्

6.087.021

ताञ् शरौघांस् ततो भल्लैस् तीक्ष्णैश् चिच्छेद राघवः
दीप्यमानान् महावेगान् क्रुद्धान् आशीविषान् इव

6.087.022

राघवो रावणं तूर्णं रावणो राघवं तथा
अन्योन्यं विविधैस् तीक्ष्णैः शरैर् अभिववर्षतुः

6.087.023

चेरतुश् च चिरं चित्रं मण्डलं सव्यदक्षिणम्
बाणवेगान् समुदीक्ष्य समरेष्व् अपराजितौ

6.087.024

तयोर् भूतानि वित्रेषुर् युगपत् संप्रयुध्यतोः
रौद्रयोः सायकमुचोर् यमान्तकनिकाशयोः

6.087.025

संततं विविधैर् बाणैर् बभूव गगनं तदा
घनैर् इवातपापाये विद्युन्मालासमाकुलैः

6.087.026

गवाक्षितम् इवाकाशं बभूव शूरवृष्टिभिः
महावेगैः सुतीक्ष्णाग्रैर् गृध्रपत्रैः सुवाजितैः

6.087.027

शरान्धकारं तौ भीमं चक्रतुः परमं तदा
गते ऽस्तं तपने चापि महामेघाव् इवोत्थितौ

6.087.028

बभूव तुमुलं युद्धम् अन्योन्यवधकाङ्क्षिणोः
अनासाद्यम् अचिन्त्यं च वृत्रवासवयोर् इव

6.087.029

उभौ हि परमेष्वासाव् उभौ शस्त्रविशारदौ
उभौ चास्त्रविदां मुख्याव् उभौ युद्धे विचेरतुः

6.087.030

उभौ हि येन व्रजतस् तेन तेन शरोर्मयः
ऊर्मयो वायुना विद्धा जग्मुः सागरयोर् इव

6.087.031

ततः संसक्तहस्तस् तु रावणो लोकरावणः
नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत

6.087.032

रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्
शिरसा धारयन् रामो न व्यथां प्रत्यपद्यत

6.087.033

अथ मन्त्रान् अपि जपन् रौद्रम् अस्त्रम् उदीरयन्
शरान् भूयः समादाय रामः क्रोधसमन्वितः

6.087.034

मुमोच च महातेजाश् चापम् आयम्य वीर्यवान्
ताञ् शरान् राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः

6.087.035

ते महामेघसंकाशे कवचे पतिताः शराः
अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस् तदा

6.087.036

पुनर् एवाथ तं रामो रथस्थं राक्षसाधिपम्
ललाटे परमास्त्रेण सर्वास्त्रकुशलो ऽभिनत्

6.087.037

ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः
श्वसन्तो विविशुर् भूमिं रावणप्रतिकूलताः

6.087.038

निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः
आसुरं सुमहाघोरम् अन्यद् अस्त्रं समाददे

6.087.039

सिंहव्याघ्रमुखांश् चान्यान् कङ्ककाकमुखान् अपि
गृध्रश्येनमुखांश् चापि सृगालवदनांस् तथा

6.087.040

ईहामृगमुखांश् चान्यान् व्यादितास्यान् भयावहान्
पञ्चास्यांल् लेलिहानांश् च ससर्ज निशिताञ् शरान्

6.087.041

शरान् खरमुखांश् चान्यान् वराहमुखसंस्थितान्
श्वानकुक्कुटवक्त्रांश् च मकराशीविषाननान्

6.087.042

एतांश् चान्यांश् च मायाभिः ससर्ज निशिताञ् शरान्
रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन्

6.087.043

आसुरेण समाविष्टः सो ऽस्त्रेण रघुनन्दनः
ससर्जास्त्रं महोत्साहः पावकं पावकोपमः

6.087.044

अग्निदीप्तमुखान् बाणांस् तथा सूर्यमुखान् अपि
चन्द्रार्धचन्द्रवक्त्रांश् च धूमकेतुमुखान् अपि

6.087.045

ग्रहनक्षत्रवर्णांश् च महोल्कामुखसंस्थितान्
विद्युज्जिह्वोपमांश् चान्यान् ससर्ज निशिताञ् शरान्

6.087.046

ते रावणशरा घोरा राघवास्त्रसमाहताः
विलयं जग्मुर् आकाशे जग्मुश् चैव सहस्रशः

6.087.047

तद् अस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा
हृष्टा नेदुस् ततः सर्वे कपयः कामरूपिणः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc