भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.086

6.086.001

महोदरे तु निहते महापार्श्वो महाबलः
अङ्गदस्य चमूं भीमां क्षोभयाम् आस सायकैः

6.086.002

स वानराणां मुख्यानाम् उत्तमाङ्गानि सर्वशः
पातयाम् आस कायेभ्यः फलं वृन्ताद् इवानिलः

6.086.003

केषां चिद् इषुभिर् बाहून् स्कन्धांश् चिछेद राक्षसः
वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत्

6.086.004

ते ऽर्दिता बाणवर्षेण महापार्श्वेन वानराः
विषादविमुखाः सर्वे बभूवुर् गतचेतसः

6.086.005

निरीक्ष्य बलम् उद्विग्नम् अङ्गदो राक्षसार्दितम्
वेगं चक्रे महाबाहुः समुद्र इव पर्वणि

6.086.006

आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्

6.086.007

स तु तेन प्रहारेण महापार्श्वो विचेतनः
ससूतः स्यन्दनात् तस्माद् विसंज्ञः प्रापतद् भुवि

6.086.008

सर्क्षराजस् तु तेजस्वी नीलाञ्जनचयोपमः
निष्पत्य सुमहावीर्यः स्वाद् यूथान् मेघसंनिभात्

6.086.009

प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम्
अश्वाञ् जघान तरसा स्यन्दनं च बभञ्ज तम्

6.086.010

मुहूर्ताल् लब्धसंज्ञस् तु महापार्श्वो महाबलः
अङ्गदं बहुभिर् बाणैर् भूयस् तं प्रत्यविध्यत

6.086.011

जाम्बवन्तं त्रिभिर् बाणैर् आजघान स्तनान्तरे
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः

6.086.012

गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ
जग्राह परिघं घोरम् अङ्गदः क्रोधमूर्छितः

6.086.013

तस्याङ्गदः प्रकुपितो राक्षसस्य तम् आयसं
दूरस्थितस्य परिघं रविरश्मिसमप्रभम्

6.086.014

द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान्
महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः

6.086.015

स तु क्षिप्तो बलवता परिघस् तस्य रक्षसः
धनुश् च सशरं हस्ताच् छिरस्त्रं चाप्य् अपातयत्

6.086.016

तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्
तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले

6.086.017

स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः
करेणैकेन जग्राह सुमहान्तं परश्वधम्

6.086.018

तं तैलधौतं विमलं शैलसारमयं दृढम्
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्

6.086.019

तेन वामांसफलके भृशं प्रत्यवपातितम्
अङ्गदो मोक्षयाम् आस सरोषः स परश्वधम्

6.086.020

स वीरो वज्रसंकाशम् अङ्गदो मुष्टिम् आत्मनः
संवर्तयन् सुसंक्रुद्धः पितुस् तुल्यपराक्रमः

6.086.021

राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत्

6.086.022

तेन तस्य निपातेन राक्षसस्य महामृधे
पफाल हृदयं चाशु स पपात हतो भुवि

6.086.023

तस्मिन् निपतिते भूमौ तत् सैन्यं संप्रचुक्षुभे
अभवच् च महान् क्रोधः समरे रावणस्य तु

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc