भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.080

6.080.001

ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम्
आचचक्षुर् अभिज्ञाय दशग्रीवाय सव्यथाः

6.080.002

युद्धे हतो महाराज लक्ष्मणेन तवात्मजः
विभीषणसहायेन मिषतां नो महाद्युते

6.080.003

शूरः शूरेण संगम्य संयुगेष्व् अपराजितः
लक्ष्णनेन हतः शूरः पुत्रस् ते विबुधेन्द्रजित्

6.080.004

स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्
घोरम् इन्द्रजितः संख्ये कश्मलं प्राविशन् महत्

6.080.005

उपलभ्य चिरात् संज्ञां राजा राक्षसपुंगवः
पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः

6.080.006

हा राक्षसचमूमुख्य मम वत्स महारथ
जित्वेन्द्रं कथम् अद्य त्वं लक्ष्मणस्य वशं गतः

6.080.007

ननु त्वम् इषुभिः क्रुद्धो भिन्द्याः कालान्तकाव् अपि
मन्दरस्यापि शृङ्गाणि किं पुनर् लक्ष्मणं रणे

6.080.008

अद्य वैवस्वतो राजा भूयो बहुमतो मम
येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा

6.080.009

एष पन्थाः सुयोधानां सर्वामरगणेष्व् अपि
यः कृते हन्यते भर्तुः स पुमान् स्वर्गम् ऋच्छति

6.080.010

अद्य देवगणाः सर्वे लोकपालास् तथर्षयः
हतम् इन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः

6.080.011

अद्य लोकास् त्रयः कृत्स्नाः पृथिवी च सकानना
एकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे

6.080.012

अद्य नैरृतकन्यायां श्रोष्याम्य् अन्तःपुरे रवम्
करेणुसंघस्य यथा निनादं गिरिगह्वरे

6.080.013

यौवराज्यं च लङ्कां च रक्षांसि च परंतप
मातरं मां च भार्यां च क्व गतो ऽसि विहाय नः

6.080.014

मम नाम त्वया वीर गतस्य यमसादनम्
प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे

6.080.015

स त्वं जीवति सुग्रीवे राघवे च सलक्ष्मणे
मम शल्यम् अनुद्धृत्य क्व गतो ऽसि विहाय नः

6.080.016

एवमादिविलापार्तं रावणं राक्षसाधिपम्
आविवेश महान् कोपः पुत्रव्यसनसंभवः

6.080.017

घोरं प्रकृत्या रूपं तत् तस्य क्रोधाग्निमूर्छितम्
बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम्

6.080.018

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्न् अस्रबिन्दवः
दीप्ताभ्याम् इव दीपाभ्यां सार्चिषः स्नेहबिन्दवः

6.080.019

दन्तान् विदशतस् तस्य श्रूयते दशनस्वनः
यन्त्रस्यावेष्ट्यमानस्य महतो दानवैर् इव

6.080.020

कालाग्निर् इव संक्रुद्धो यां यां दिशम् अवैक्षत
तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे

6.080.021

तम् अन्तकम् इव क्रुद्धं चराचरचिखादिषुम्
वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः

6.080.022

ततः परमसंक्रुद्धो रावणो राक्षसाधिपः
अब्रवीद् रक्षसां मध्ये संस्तम्भयिषुर् आहवे

6.080.023

मया वर्षसहस्राणि चरित्वा दुश्चरं तपः
तेषु तेष्व् अवकाशेषु स्वयम्भूः परितोषितः

6.080.024

तस्यैव तपसो व्युष्ट्या प्रसादाच् च स्वयम्भुवः
नासुरेभ्यो न देवेभ्यो भयं मम कदा चन

6.080.025

कवचं ब्रह्मदत्तं मे यद् आदित्यसमप्रभम्
देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः

6.080.026

तेन माम् अद्य संयुक्तं रथस्थम् इह संयुगे
प्रतीयात् को ऽद्य माम् आजौ साक्षाद् अपि पुरंदरः

6.080.027

यत् तदाभिप्रसन्नेन सशरं कार्मुकं महत्
देवासुरविमर्देषु मम दत्तं स्वयम्भुवा

6.080.028

अद्य तूर्यशतैर् भीमं धनुर् उत्थाप्यतां महत्
रामलक्ष्मणयोर् एव वधाय परमाहवे

6.080.029

स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः
समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत

6.080.030

प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान्
दीनो दीनस्वरान् सर्वांस् तान् उवाच निशाचरान्

6.080.031

मायया मम वत्सेन वञ्चनार्थं वनौकसाम्
किं चिद् एव हतं तत्र सीतेयम् इति दर्शितम्

6.080.032

तद् इदं सत्यम् एवाहं करिष्ये प्रियम् आत्मनः
वैदेहीं नाशयिष्यामि क्षत्रबन्धुम् अनुव्रताम्
इत्य् एवम् उक्त्वा सचिवान् खड्गम् आशु परामृशत्

6.080.033

उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसं
निष्पपात स वेगेन सभायाः सचिवैर् वृतः

6.080.034

रावणः पुत्रशोकेन भृशम् आकुलचेतनः
संक्रुद्धः खड्गम् आदाय सहसा यत्र मैथिली

6.080.035

व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः
ऊचुश् चान्योन्यम् आश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः

6.080.036

अद्यैनं ताव् उभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः
लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः
बहवः शत्रवश् चान्ये संयुगेष्व् अभिपातिताः

6.080.037

तेषां संजल्पमानानाम् अशोकवनिकां गताम्
अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः

6.080.038

वार्यमाणः सुसंक्रुद्धः सुहृद्भिर् हितबुद्धिभिः
अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीम् इव

6.080.039

मैथिली रक्ष्यमाणा तु राक्षसीभिर् अनिन्दिता
ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम्

6.080.040

तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा
निवार्यमाणं बहुशः सुहृद्भिर् अनिवर्तिनम्

6.080.041

यथायं माम् अभिक्रुद्धः समभिद्रवति स्वयम्
वधिष्यति सनाथां माम् अनाथाम् इव दुर्मतिः

6.080.042

बहुशश् चोदयाम् आस भर्तारं माम् अनुव्रताम्
भार्या भव रमस्येति प्रत्याख्यातो ऽभवन् मया

6.080.043

सो ऽयं माम् अनुपस्थानाद् व्यक्तं नैराश्यम् आगतः
क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः

6.080.044

अथ वा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ
मन्निमित्तम् अनार्येण समरे ऽद्य निपातितौ
अहो धिन् मन्निमित्तो ऽयं विनाशो राजपुत्रयोः

6.080.045

हनूमतो हि तद्वाक्यं न कृतं क्षुद्रया मया
यद्य् अहं तस्य पृष्ठेन तदायासम् अनिन्दिता
नाद्यैवम् अनुशोचेयं भर्तुर् अङ्कगता सती

6.080.046

मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति
एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि

6.080.047

सा हि जन्म च बाल्यं च यौवनं च महात्मनः
धर्मकार्याणि रूपं च रुदती संस्रमिष्यति

6.080.048

निराशा निहते पुत्रे दत्त्वा श्राद्धम् अचेतना
अग्निम् आरोक्ष्यते नूनम् अपो वापि प्रवेक्ष्यति

6.080.049

धिग् अस्तु कुब्जाम् असतीं मन्थरां पापनिश्चयाम्
यन्निमित्तम् इदं दुःखं कौसल्या प्रतिपत्स्यते

6.080.050

इत्य् एवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्
रोहिणीम् इव चन्द्रेण विना ग्रहवशं गताम्

6.080.051

सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम्
निवार्यमाणं सचिवैर् इदं वचनम् अब्रवीत्

6.080.052

कथं नाम दशग्रीव साक्षाद् वैश्रवणानुज
हन्तुम् इच्छसि वैदेहीं क्रोधाद् धर्मम् अपास्य हि

6.080.053

वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदा
स्त्रियाः कस्माद् वधं वीर मन्यसे राक्षसेश्वर

6.080.054

मैथिलीं रूपसंपन्नां प्रत्यवेक्षस्व पार्थिव
त्वम् एव तु सहास्माभी राघवे क्रोधम् उत्सृज

6.080.055

अभ्युत्थानं त्वम् अद्यैव कृष्णपक्षचतुर्दशीम्
कृत्वा निर्याह्य् अमावास्यां विजयाय बलैर् वृतः

6.080.056

शूरो धीमान् रथी खड्गी रथप्रवरम् आस्थितः
हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम्

6.080.057

स तद् दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः
गृहं जगामाथ ततश् च वीर्यवान् पुनः सभां च प्रययौ सुहृद्वृतः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc