रामायण · अध्याय 6.079
रुधिरक्लिन्नगात्रस् तु लक्ष्मणः शुभलक्षणः
बभूव हृष्टस् तं हत्वा शक्रजेतारम् आहवे
ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान्
संनिवर्त्य महातेजास् तांश् च सर्वान् वनौकसः
आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ
विभीषणम् अवष्टभ्य हनूमन्तं च लक्ष्मणः
ततो रामम् अभिक्रम्य सौमित्रिर् अभिवाद्य च
तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा
आचचक्षे तदा वीरो घोरम् इन्द्रजितो वधम्
रावणस् तु शिरश् छिन्नं लक्ष्मणेन महात्मना
न्यवेदयत रामाय तदा हृष्टो विभीषणः
उपवेश्य तम् उत्सङ्गे परिष्वज्यावपीडितम्
मूर्ध्नि चैनम् उपाघ्राय भूयः संस्पृश्य च त्वरन्
उवाच लक्ष्मणं वाक्यम् आश्वास्य पुरुषर्षभः
कृतं परमकल्याणं कर्म दुष्करकारिणा
निरमित्रः कृतो ऽस्म्य् अद्य निर्यास्यति हि रावणः
बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम्
तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम्
बलेनावृत्य महता निहनिष्यामि दुर्जयम्
त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे
न दुष्प्रापा हते त्व् अद्य शक्रजेतरि चाहवे
स तं भ्रातरम् आश्वास्य पारिष्वज्य च राघवः
रामः सुषेणं मुदितः समाभाष्येदम् अब्रवीत्
सशल्यो ऽयं महाप्राज्ञः सौमित्रिर् मित्रवत्सलः
यथा भवति सुस्वस्थस् तथा त्वं समुपाचर
विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः
कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम्
ये चान्ये ऽत्र च युध्यन्तः सशल्या व्रणिनस् तथा
ते ऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस् त्वया
एवम् उक्तः स रामेण महात्मा हरियूथपः
लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्
स तस्य गन्धम् आघ्राय विशल्यः समपद्यत
तदा निर्वेदनश् चैव संरूढव्रण एव च
विभीषण मुखानां च सुहृदां राघवाज्ञया
सर्ववानरमुख्यानां चिकित्सां स तदाकरोत्
ततः प्रकृतिम् आपन्नो हृतशल्यो गतव्यथः
सौमित्रिर् मुदितस् तत्र क्षणेन विगतज्वरः
तथैव रामः प्लवगाधिपस् तदा विभीषणश् चर्क्षपतिश् च जाम्बवान्
अवेक्ष्य सौमित्रिम् अरोगम् उत्थितं मुदा ससैन्यः सुचिरं जहर्षिरे
अपूजयत् कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर् महात्मा
हृष्टा बभूवुर् युधि यूथपेन्द्रा निशम्य तं शक्रजितं निपातितम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0